Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.39.1

ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः ।
काञ्चने प्राड्भुखो हृष्टो न्यषीदत्परमासने ॥ १२.३९.१ ॥

于是昆提之子国王,摆脱愤怒与燥热,欢喜地面向东方,坐在金色的至尊宝座上。

12.39.2

तमेवाभिमुखौ पीठे प्रदीप्ते काञ्चने शुभे ।
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ॥ १२.३९.२ ॥

在他对面,于光辉灿烂的华美金座上,萨提奇与瓦苏提婆这两位降伏敌人的英雄坐下。

12.39.3

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ ।
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ॥ १२.३९.३ ॥

将国王置于中间,婆罗多的两位大德,怖军与阿周那,坐在光滑的宝石座上。

12.39.4

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते ।
पृथाऽपि सहदेवेन सहास्ते नकुलेन च ॥ १२.३९.४ ॥

在象牙制成、洁白、以赡部檀金装饰的卧榻座上,普利塔也与偕提婆和那古拉同坐。

12.39.5

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः ।
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥ १२.३९.५ ॥

苏达尔玛、毗都罗、陀摩耶与俱卢族的德拉史陀罗,各自坐在如火焰般闪耀的座位上。

12.39.6

युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी ।
धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन् ॥ १२.३९.६ ॥

尤尤茨、桑闍耶与声名显赫的甘陀利也在此,国王德拉史陀罗坐在哪里,众人便都在那里就座。

12.39.7

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् ।
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥ १२.३९.७ ॥

端坐于此的正法之人触摸了白花、卍字吉祥符、未破之米、大地、黄金、白银与宝石。

12.39.8

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् ।
ददृशुर्धर्मराजानमादाय बहुमङ्गलम् ॥ १२.३९.८ ॥

于是众臣民推举祭司走在前面,看到带着许多吉祥之物的法王。

12.39.9

पृथिवीं च सुवर्णं च रत्नानि विविधानि च ।
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् ॥ १२.३९.९ ॥

大地、黄金与各色宝石,以及装满一切所需之物的灌顶器皿。

12.39.10

काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः ।
पूर्णकुम्भाः सुमनसो लाजा बर्हीषि गोरसाः ॥ १२.३९.१० ॥

其中有装满的金制、无花果木制、银制与土制的满瓶,并有花朵、炒米、吉祥草与乳制品。

12.39.11

शमीपिप्पलपालाशसमिधो मधुसर्पिषी ।
स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः ॥ १२.३९.११ ॥

木柴取自沙米树、菩提树与紫檀,另有蜂蜜与酥油、无花果木勺,以及饰以黄金的法螺。

12.39.12

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः ।
प्रागुदक्प्रवणे वेदीं लक्षणेनोपलिख्य च ॥ १२.३९.१२ ॥

经达沙尔诃(黑天)许可,家祭司达乌米耶便在此以标记画出一座向东北倾斜的祭坛。

12.39.13

व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने ।
दृढपादप्रतिष्ठाने हुताशनसमत्विपि ॥ १२.३९.१३ ॥

在铺着虎皮的白色萨尔瓦陀婆陀罗座上,座脚稳固,光明如祭火。

12.39.14

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् ।
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ॥ १२.३९.१४ ॥

让大德的坚战与德鲁波陀之女克里希那就座后,智者依仪轨与咒语向火中献供。

12.39.15

तत उत्थाय दाशार्हः शङ्खमादाय पूरितम् ।
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्।
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥ १२.३९.१५ ॥

于是达沙尔哈(克里希那)起身,取满水的法螺,为贡蒂之子坚战灌顶,立为大地之主;王仙德里达拉什特拉与一切臣民也都如此行。

12.39.16

अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः ।
पाञ्चजन्याभिषिक्तश्च राजाऽमृतमुखोऽभवत् ॥ १२.३९.१६ ॥

于是在克里希那许可下,般度之子与兄弟们一同以般遮耆那衣螺灌顶,成为面容如甘露的国王。

12.39.17

ततोऽनुवादयामासुः पणवानकदुन्दुभीन् ॥ १२.३९.१७ ॥

随后他们令人擂响潘那伐、阿那伽与敦度毗鼓。

12.39.18

धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ।
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ॥ १२.३९.१८ ॥

法王亦依法接受了一切,并依礼制以丰厚的布施尊敬了他们每一位。

12.39.19

ततो निष्कसहस्रेण ब्राह्मणान्स्वस्त्यवाचयन् ।
वेदाध्ययनसंपन्नान्धृतिशीलसमन्वितान् ॥ १२.३९.१९ ॥

随后,他以千尼刹迦赏赐精通吠陀学习、具备坚忍与良好品行的婆罗门,令其诵念吉祥祝福。

12.39.20

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च ।
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥ १२.३९.२० ॥

大王啊,欢喜的婆罗门们诵念吉祥与胜利的祝福,如天鹅般高声鸣唱,赞颂了坚战。

12.39.21

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव ।
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ॥ १२.३९.२१ ॥

大臂的般度之子坚战啊!幸运的是你获胜了;幸运的是,大光明者啊,你以勇武获得了你自己的法。

12.39.22

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ।
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ १२.३९.२२ ॥

幸运的是,持甘提拔弓者(阿周那)与般度子婆罗色那也安好;大王啊,你也安好,玛德丽的两个般度之子也都安好。

12.39.23

मुक्ता वीरक्षयात्तस्मात्संग्रामाद्विजितद्विषः ।
क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत ॥ १२.३९.२३ ॥

你已从那场英雄倾覆的战争中解脱,战胜了敌人。婆罗多啊,请迅速完成所有后续的职责。

12.39.24

ततः प्रीत्याऽर्चितः सद्भिर्धर्मराजो युधिष्ठिरः ।
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ॥ १२.३९.२४ ॥

随后,受善人欢喜敬重的法王坚战,婆罗多啊,与他的友人一同获得了广大的王国。