摩诃婆罗多 · 章 12.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.40.1
प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम् ।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत ॥ १२.४०.१ ॥
国王坚战听了臣民(大臣)那番合乎地点与时机的话,便回答道。
12.40.2
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः ।
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः ॥ १२.४०.२ ॥
般度之子确实有福,这些聚集于此的婆罗门上首为他们陈述美德,无论真实还是不实。
12.40.3
अनुग्राह्या वयं नूनं भवतामिति मे मतिः ।
यदेवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः ॥ १२.४०.३ ॥
我想我们的确值得你们的恩惠;你们无嫉妒之心,这样称赞我们具有如此美德。
12.40.4
धृतराष्ट्रो महाराजः पिता नो दैवतं परम् ।
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥ १२.४०.४ ॥
大王持国是我们的父亲和至高之神;希望我好的人,应当遵从他的命令,并做他所喜爱的事。
12.40.5
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् ।
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ॥ १२.४०.५ ॥
正是为此我才活着,尽管我造成了大规模的杀害亲族之事;我必须永不懈怠地侍奉他。
12.40.6
यदि चाहमनुग्राह्यो भवतां सुहृदां तथा ।
धृतरा यथापूर्वं वृत्तिं वर्तितुमर्हथ ॥ १२.४०.६ ॥
朋友们,如果我值得你们的恩惠,那么你们应当让持国如从前一样过他的生活。
12.40.7
एष नाथो हि जगतो भवतां च मया सह ।
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च ॥ १२.४०.७ ॥
此主宰世界与你们的,与我同在。因他的恩典,大地与所有般度之子(得以安全)。
12.40.8
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ।
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति ॥ १२.४०.८ ॥
请将我这句话记在心中。国王与他们告别后,应说:“随你们所愿去吧。”
12.40.9
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ।
यौवराज्येन कौन्तेयं भीमसेनमयोजयत् ॥ १२.४०.९ ॥
库鲁族的喜悦者遣散了城中与乡间的所有百姓,任命贡蒂之子毗摩森那为太子。
12.40.10
मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने ।
विदुरं बुद्धिसंपन्नं प्रीतिमान्स समादिशत् ॥ १२.४०.१० ॥
在谋议、决断与思量六策之事上,他满怀爱意地委任了智慧圆满的维都罗。
12.40.11
कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने ।
संजयं योजयामास वृद्धं सर्वगुणैर्युतम् ॥ १२.४०.११ ॥
在知悉已办与未办之事,并思量收支之时,他委任了具备一切德行的年长者桑闍耶。
12.40.12
बलस्य परिमाणे च भक्तवेतनयोस्तथा ।
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे ॥ १२.४०.१२ ॥
在军队的编制数量、粮饷与薪俸,以及对各项工程的监督上,国王命令那古拉负责。
12.40.13
परचक्रोपरोधे च दृप्तानां चावमर्दने ।
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह ॥ १२.४०.१३ ॥
在围困敌军与镇压骄傲者之事上,大王坚战(Yudhiṣṭhira)任命了法尔古那(阿周那)。
12.40.14
द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह ।
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत् ॥ १२.४०.१४ ॥
在祭神之事和其他事务中,为婆罗门,他总是任命家司祭中最优秀的达乌米亚。
12.40.15
सहदेवं समीपस्थं नित्यमेव समादिशत् ।
तने गोप्यो हि नृपतिः सर्वावस्थो विशांपते ॥ १२.४०.१५ ॥
他总是任命站在身旁的萨哈德瓦;众生之主啊,国王在任何情况下都会委派人执掌守护之责。
12.40.16
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु ।
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ॥ १२.४०.१६ ॥
凡是有才能、适合此处各项事务的人,国王心中欢喜,便把他们分别委派到那些相应的职务上。
12.40.17
विदुरं संजयं चैव युयुत्सुं च महामतिम् ।
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ॥ १२.४०.१७ ॥
他对毗杜罗、桑贾亚和大智的尤尤特苏说道——他是歼灭敌方英雄的人,是正直之人,爱护法的人。
12.40.18
उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम ।
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम ॥ १२.४०.१८ ॥
你们应当一次又一次振作起来,对这位国王和我父亲的全部职责,像我一样小心谨慎地履行。
12.40.19
पौरजानपदानां च यानि कार्याणि नित्यशः ।
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥ १२.४०.१९ ॥
城市居民与乡村民众的日常事务,应当在获得国王许可之后,依法(达摩)而行。