摩诃婆罗多 · 章 12.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.48.1
शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः ।
महर्षीणां कथयतां कारणं तस्य जन्म च ॥ १२.४८.१ ॥
贡蒂之子啊,听我讲述我从大仙人口中所闻的罗摩之威力,以及他降生的缘由。
12.48.2
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः ।
उद्भूता राजवंशेषु ये भूयो भारते हताः ॥ १२.४८.२ ॥
如同杰玛达格尼之子杀死了数以亿计的刹帝利,以及那些生于王族、后又在婆罗多之战中被杀的人。
12.48.3
जह्नोरजस्तु तनयो बलाकाश्चस्तु तत्सुतः ।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥ १२.४८.३ ॥
Jahnu之子为阿阇(Aja),其子为巴拉迦(Balāka);其子为通晓法的俱尸迦(Kuśika)。哦,大地之主,他的儿子是伽陀(Gādhi)。
12.48.4
अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि ।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ १२.४८.४ ॥
他在世间,与千眼之主(因陀罗)相当,修习无上苦行,心想:“愿我得一子,不可战胜,为三界之主。”
12.48.5
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।
समर्थं पुत्रजनने स्वयमेवैत्य भारत ॥ १२.४८.५ ॥
婆罗多的后裔啊,千眼的城破者因陀罗见此苦行者,知其有能力生子,便亲自前来……
12.48.6
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः ।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ १२.४८.६ ॥
哦,国王,诸界主宰之主成为了他的儿子。他名为伽陀(Gādhi),即拘尸迦(Kauśika)、因陀罗(Indra),阿修罗巴迦的惩罚者。
12.48.7
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो ।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥ १२.४८.७ ॥
君王啊,他有一女名为萨提亚瓦蒂,主啊。大能的伽地将她许配给了婆粒古之子利奇迦。
12.48.8
ततस्तया हि कौन्तेय भार्गवः कुरुनदनः ।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥ १२.४८.८ ॥
然后,贡蒂之子啊,库鲁族的喜悦婆利古(Bhārgava)为求子,通过她煮了一份米饭供品,也同样为伽地煮了一份。
12.48.9
आहूय चाह तां भार्यामृचीको भार्गवस्तदा ।
उपयोज्यश्चरुरयं त्वया मात्राऽप्ययं तव ॥ १२.४८.९ ॥
于是婆粒古之子利奇迦叫来妻子,说道:“这份供品你要吃,这一份也要让你的母亲吃。”
12.48.10
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १२.४८.१० ॥
她将生下一个光辉的儿子,他是刹帝利中的雄牛,在世上不为刹帝利所征服,并且是刹帝利中的雄牛的杀灭者。
12.48.11
तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम् ।
तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ १२.४८.११ ॥
吉祥的女子啊,这份供品也将为你带来一个坚定、性情平和、具有苦行的儿子,他是再生者中最优秀的。
12.48.12
इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः ।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥ १२.४८.१२ ॥
婆粒古之子、光荣的利奇迦对妻子说完这些话,便沉浸于苦行,走入了森林。
12.48.13
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः ।
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति ॥ १२.४८.१३ ॥
此时,正在朝圣的国王伽提与妻子来到了利吉迦的修行处。
12.48.14
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा ।
भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत् ॥ १२.४८.१४ ॥
国王啊,此时萨蒂亚瓦蒂接过丈夫欢喜赐予的两份米饭祭品,欣然呈给母亲。
12.48.15
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ ।
तस्याश्ररुमथाज्ञातमात्मसंस्थं चकार ह ॥ १२.४८.१५ ॥
昆提之子啊,母亲把自己的祭品给了女儿;而她在不知不觉中,将女儿的祭品安置在了自己体内。
12.48.16
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा ।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ १२.४८.१६ ॥
此时萨蒂亚瓦蒂怀上了灭杀刹帝利的胎儿,其光辉的身形令人望而生畏。
12.48.17
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत ।
अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥ १२.४८.१७ ॥
婆罗多啊,此时婆利古族的虎王利吉迦以禅定之力看见了她,对他那具有天神之形的妻子说道。
12.48.18
मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना ।
तस्माज्जनिष्यते पुत्रः क्रूरकर्माऽत्यमर्षणः।
जनयिष्यति माता ते ब्रह्मभूतं तपोधनम् ॥ १२.४८.१८ ॥
善良的女子啊,因为祭品的互换,你的母亲欺骗了你;因此将生下一个行事残暴、极不耐烦的儿子,而你的母亲将生下一个如梵一般、富有苦行的儿子。
12.48.19
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् ।
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् ॥ १२.४८.१९ ॥
梵的全部伟大力量都寄托在你的祭饭(carū)之中,而刹帝利的武力也全部交付给了你的母亲。
12.48.20
विपर्ययेण ते भद्रे नैतदेवं भविष्यति ।
मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः ॥ १२.४८.२० ॥
善良的女子啊,不要颠倒过来:愿你母亲的儿子成为婆罗门,愿你的儿子成为刹帝利。
12.48.21
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ॥ १२.४८.२१ ॥
丈夫如此说完,极具福德的萨蒂雅伐蒂颤抖着,头叩地俯伏在他面前,说道:
12.48.22
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः ।
ब्राह्मणापशदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥ १२.४८.२२ ॥
尊者啊,今日您不应说出这样的话。主啊,您说我将得到一个卑贱、不配为婆罗门的儿子。
12.48.23
नैष संकल्पितः कामो मया भद्रे तथा त्वयि ।
उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना ॥ १२.४८.२३ ॥
善良的女子啊,我对你并未这样决定:不应因祭饭的互换,而使儿子行事凶猛。
12.48.24
इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥ १२.४८.२४ ॥
圣者啊,若您愿意,甚至能创造世界,何况一个儿子呢?主啊,您应当赐给我一个性情平和、正直的儿子。
12.48.25
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः ।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ १२.४८.२५ ॥
善女啊,我即使戏言也从未说过虚妄之语;何况我依咒语点燃圣火、正在行炒饭供养之时呢?
12.48.26
दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया ।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥ १२.४८.२६ ॥
善女啊,此事我先前已见到,也以苦行知晓:你父亲的整个家族将成为婆罗门。
12.48.27
काममेवं भवेत्पौत्रो मामैवं तनयः प्रभो ।
शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥ १२.४८.२७ ॥
就照你所愿吧;愿孙子也如此,愿我的儿子也如此。主啊,念诵者中最优秀的人,愿我得到一个性情平和、心地正直的儿子。
12.48.28
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥ १२.४८.२८ ॥
美丽的女子啊,对我来说儿子与孙子并无分别。善女啊,你所说的话将会如此成就。
12.48.29
ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥ १२.४८.२९ ॥
于是萨蒂亚瓦蒂生下了婆利古之子、乐于苦行、性情平和、守戒坚定的阇摩陀那。
12.48.30
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः ।
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ॥ १२.४८.३० ॥
居希迦的喜悦之子伽提,得到了与梵仙众会相等、具足全部梵力的毗首米多罗作为继承人。
12.48.31
ऋचीको जनयामास जमदग्निं तपोनिधिम् ।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥ १२.४८.३१ ॥
利奇卡生下苦行宝藏遮摩达格尼;遮摩达格尼又生下一个极其可怕的儿子。
12.48.32
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ १२.४८.३२ ॥
罗摩精通一切学问,是弓箭之术的最高者,杀戮刹帝利者,光辉如燃烧的火焰。
12.48.33
तेषयित्वा महादेवं पर्वते गन्धमादने ।
अस्त्राणि वरयामास परशुं चातितेजसम् ॥ १२.४८.३३ ॥
他在干陀摩陀那山上让大天神欢喜,求得了武器和极其光明的斧子作为恩赐。
12.48.34
स तेनाकुण्ठधारेण ज्वलितानलवर्चसा ।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥ १२.४८.३४ ॥
凭借那锋刃不钝、光如烈火、不可限量的斧子,他在三界中成为无与伦比者。
12.48.35
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली ।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥ १२.४८.३५ ॥
就在那时,克里达维亚之子、强大而光辉的刹帝利阿周那,是哈依哈亚人的君主。
12.48.36
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् ।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥ १२.४८.३६ ॥
凭着檀特勒耶的恩典,这位千臂的君王、великий光辉的转轮王,在婆罗门的马祭中行布施。
12.48.37
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम् ।
सबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित् ॥ १२.४८.३७ ॥
他凭借双臂与兵器之力在战场上获胜,将包括七大洲与山岳在内的整个大地布施出去;他通晓至高的法。
12.48.38
तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना ।
सहस्त्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥ १२.४८.३८ ॥
孔提之子啊,当口渴的遮罗跋努(火神阿耆尼)乞求施舍时,那勇猛的千臂王便施给阿耆尼布施。
12.48.39
ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान् ।
जज्वाल तस्य वाणेद्धचित्रभानुर्दिधक्षया ॥ १२.४८.३९ ॥
被勇士之箭点燃的遮罗跋努(阿耆尼)出于焚烧的欲望,在村庄、城市、王国和牧民聚落之上燃烧起来。
12.48.40
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः ।
ददाह कार्तवीर्यस्य शैलानपि धरामपि ॥ १२.४८.४० ॥
凭借那位人中之主、大能的迦尔塔维尔亚的威力,他连山岳和大地也烧毁了。
12.48.41
स शून्यमाश्रमारण्यमापवस्य महात्मनः ।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ १२.४८.४१ ॥
被风吹旺的遮罗跋努(阿耆尼)与哈yaya族一同,焚毁了高尚的阿波婆仙人那空无一人的林中修道场。
12.48.42
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत ।
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥ १२.४८.४२ ॥
于是阿波婆仙人因愤怒诅咒了阿周那,阿修多啊,因为修道场已被迦尔塔维尔亚焚毁。大臂者啊,那位勇猛者便如此做了。
12.48.43
त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम् ।
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन ॥ १२.४८.४३ ॥
因为你没有放过我这片大森林,而将其焚毁,所以,阿周那啊,在战斗中罗摩将斩断你的手臂。
12.48.44
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः ।
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत।
नाचिन्तयत्तदा शापं तेन दत्तं महात्मना ॥ १२.४८.४४ ॥
然而,光辉伟大、强大、常怀平和之性、敬重婆罗门、为众生之依怙、慷慨而勇武的阿周那,婆罗多啊,当时并未把那位大德所降的咒诅放在心上。
12.48.45
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे ।
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ॥ १२.४८.४५ ॥
他那些力量极大的儿子,因那咒诅而成为杀害其父的原因;他们总是傲慢而残忍。
12.48.46
जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत ।
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥ १२.४८.४६ ॥
阿丘塔啊,你的儿子们带走了遮摩陀尼的母牛之犊;智慧的哈哈耶王迦尔塔毗利耶对此并不知情。
12.48.47
तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः ।
ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ ॥ १२.४८.४७ ॥
因此,与遮摩陀尼那位大德之子爆发了战斗;于是他愤怒地斩断了阿周那的手臂,无罪的人啊。
12.48.48
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ।
प्रत्यानयत राजेन्द्र तेषामन्तः पुरात्प्रभुः ॥ १२.४८.४८ ॥
于是遮摩陀尼之子将那游荡的小牛带回自己的修行处;诸王之王啊,那位主人从他们的内宫把它带了回来。
12.48.49
अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा ।
गत्वाऽऽश्रममसंबुद्धा जमदग्नेर्महात्मनः।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥ १२.४८.४९ ॥
阿周那的儿子们聚在一起失去了判断力,在不知情的情况下来到大德阇摩达吉尼的修行处,用钵罗箭的箭头把他的头从身体上砍下,啊,人主。
12.48.50
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः ।
प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम् ॥ १२.४८.५० ॥
当名声显赫的罗摩出去取柴薪和吉舍草时,这件事就发生在罗摩之母和所有修行者的眼前。
12.48.51
श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः ।
धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः ॥ १२.४८.५१ ॥
罗摩听到此事,怒火如劫火一般燃烧。他在弓箭之学上无与伦比,以神圣兵器为饰。
12.48.52
चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः ।
ततः पितृवधामर्षाद्रामः परममन्युमान्।
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ॥ १२.४८.५२ ॥
罗摩持起如半轮月亮般闪耀的斧头,婆利古之子因父亲被杀而愤懑、极度悲伤,发誓要使大地没有刹帝利,于是拿起了武器。
12.48.53
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ।
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ॥ १२.४८.५३ ॥
于是那位婆利古族中的猛虎,作为迦尔塔维利耶的强大敌人,奋勇进攻,迅速杀尽了他所有的儿子和孙子。
12.48.54
स हैहयसहस्राणि हत्वा परममन्युमान् ।
महीं सागरपर्यन्तां चकार रुधिरोक्षिताम् ॥ १२.४८.५४ ॥
他在极度愤怒中杀死了数千名海哈耶人,使被大海环绕的大地浸透了鲜血。
12.48.55
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् ।
कृपया परयाऽऽविष्टो वनमेव जगाम ह ॥ १२.४८.५५ ॥
那位大光辉者如此使大地无刹帝利之后,为最高的悲悯所攫,便走入了森林。
12.48.56
ततो वर्षसहस्रेषु समतीतेषु केषुचित् ।
कोपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः ॥ १२.४८.५६ ॥
此后经过若干千年,那位天性易怒的主者在那里生起了愤怒。
12.48.57
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ।
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि ॥ १२.४८.५७ ॥
大苦行者、毗什婆密多罗之孙、莱布耶之子波罗婆苏,大王啊,在人众集会中斥责他并说道。
12.48.58
ये ते ययातिपतने यज्ञे सन्तः समागताः ।
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥ १२.४८.५८ ॥
那些在耶耶提陨落之时聚集于祭礼的善人,以普罗达纳为首——罗摩啊,他们难道不是刹帝利吗?
12.48.59
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि ।
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ॥ १२.४८.५९ ॥
罗摩啊,你背弃誓言,却在人众集会中夸口;因畏惧刹帝利的英雄,你才躲进了山中。
12.48.60
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता ।
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः ॥ १२.४८.६० ॥
于是那大地又被数百刹帝利遍覆。听到波罗婆苏的话后,婆利古之子拿起了武器。
12.48.61
ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः ।
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥ १२.४८.६१ ॥
君王啊,那些被他按百人留下的刹帝利再次兴盛,成为拥有大力的地上之主。
12.48.62
स पुनस्ताञ्जघानाशु बालानपि नराधिप ।
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ॥ १२.४८.६२ ॥
他又迅速地杀了他们,人主啊,连孩童也不放过;那时大地又被腹中的胎儿充满。
12.48.63
जातंजातं स गर्भं तु पुनरेव जघान ह ।
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ॥ १२.४८.६३ ॥
每一个出生的胎儿,他又杀掉;那时,刹帝利的妇人们未能保护她们的一些儿子。
12.48.64
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥ १२.४८.६४ ॥
他二十一次使大地没有刹帝利,之后在马祭结束时把大地作为布施交给了迦叶波。
12.48.65
स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः ।
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ॥ १२.४८.६५ ॥
于是,君王啊,迦叶波手持勺子,以手指向刹帝利的残余者,说出了这些话。
12.48.66
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने ।
न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ॥ १२.४८.६६ ॥
伟大的仙人啊,请前往南方大海的彼岸。罗摩啊,你永远不可住在我的国土之内。
12.48.67
पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया ।
पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः ॥ १२.४८.६७ ॥
你在我的马祭中把这片大地作为祭礼的酬金献出。既已献出,你便无权再次将其赠予他人。
12.48.68
ततः शूर्पाकरं देशं सागरस्तस्य निर्ममे ।
संत्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम् ॥ १२.४८.६८ ॥
于是大海为他造出了舍尔帕卡拉之地。出于对持斧罗摩(阇摩陀尼之子)的畏惧,它造出了西部边界的这片土地。
12.48.69
कश्यपस्तां महाराज प्रतिगृह्य वसुंधराम् ।
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम् ॥ १२.४८.६९ ॥
大王啊,迦叶波接受了这片大地,将其变为婆罗门的居所,随后进入了一片广大的森林。
12.48.70
ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः ।
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥ १२.४८.७० ॥
于是首陀罗与吠舍也随心所欲、恣意妄行,对再生族中最优秀者的妻子也同样如此,婆罗多族的雄牛啊。
12.48.71
अराजके जीवलोके दुर्बला बलवत्तरैः ।
वध्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा ॥ १२.४८.७१ ॥
在没有国王的世间,弱者被强者所杀,那时没有任何人能掌控财富。
12.48.72
ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्चोत्पथगामिनः ।
परस्परं समाश्रित्य घातयन्त्यपथस्थिताः ॥ १२.४८.७२ ॥
婆罗门、刹帝利、吠舍与首陀罗,走上邪道,彼此依附,站在正道之外,互相残杀。
12.48.73
स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण्डत्वं समाश्रिताः ।
चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते ॥ १२.४८.७३ ॥
婆罗门舍弃自身的本分,投靠异端;盗窃、虚妄与欺诈,人人都在做。
12.48.74
स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः ।
वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः ॥ १२.४८.७४ ॥
杀害坚守自身本分的再生族,以及居于各个生活阶段的人,他们也杀害行于善道的吠舍和虔诚的首陀罗。
12.48.75
तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः ।
यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनिः ॥ १२.४८.७५ ॥
行恶而毫无畏惧的人杀害他们所有人:那些致力于祭祀与学习的人,居于各生活阶段的人,以及苦行者。
12.48.76
गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे ।
आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते ॥ १२.४८.७६ ॥
另有人毁灭牛、孩童、老人和妇女;逻辑学、三吠陀与生计之学都不再兴盛,治国之道也不再推行。
12.48.77
व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः ।
अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः ॥ १२.४८.७७ ॥
许多再生族已堕入「弗拉底耶」之境;因高下行为颠倒,他们已完全变得如同蛮夷。
12.48.78
ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः ।
विपर्ययेण तेनाशु प्रविवेश पसातलम्।
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ॥ १२.४८.७८ ॥
此后,久而久之,大地受恶人的折磨,因这种颠倒而迅速没入地下;守护法的刹帝利未依规制加以护持。
12.48.79
तां दृष्ट्वा द्रवतीं तत्र संत्रासात्स महामनाः ।
ऊरुणा धारयामास कश्यपः पृथिवीं ततः।
निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता ॥ १२.४८.७९ ॥
大心的迦叶见她惊恐逃窜,便用大腿托住大地。王啊,因为她当时正在沉没,大地因此被称为乌尔维。
12.48.80
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा ।
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ॥ १२.४८.८० ॥
于是,为了保护,大地女神使迦叶欢喜,并祈求那些臂力强大的刹帝利。
12.48.81
सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः ।
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥ १२.४८.८१ ॥
婆罗门啊,有我所保护、隐藏在女人之中的刹帝利雄牛,他们出生于海哈亚族。牟尼啊,愿他们保护我。
12.48.82
अस्ति पौरवदायादो विदूरथसुतः प्रभो ।
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते ॥ १२.४८.८२ ॥
主啊,有一位保罗婆族的继承人,是毗都罗陀之子。婆罗门啊,他在熊山(Ṛkṣavat)上被熊抚养长大。
12.48.83
तथाऽनुकम्पमानेन यज्वनाथामितौजसा ।
पराशरेण दायादः सौदासस्याभिरक्षितः ॥ १२.४८.८३ ॥
同样,慈悲的祭祀者、力量无限的波罗奢罗保护了萨乌达萨的继承人。
12.48.84
सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः ।
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥ १२.४८.८४ ॥
那位再生族为他做各种工作,如同首陀罗。愿那位名为萨尔瓦卡尔玛的国王保护我。
12.48.85
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः ।
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने ॥ १२.४८.८५ ॥
希毗之子,大光明者,名为牛主,在林中为牛所养育——愿他保护我,哦,仙人。
12.48.86
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः ।
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥ १२.४८.८६ ॥
普罗达那之子,大力者名为犊,在牛栏中为小牛所养育——愿那位君王保护我。
12.48.87
दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च ।
अङ्गः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः ॥ १२.४८.८७ ॥
安伽是达提婆诃那之子、提毗罗陀之孙,在恒河岸边为瞿昙所护佑。
12.48.88
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः ।
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ॥ १२.४८.८८ ॥
大光明者布利哈德罗陀,以盛大的光辉庄严,极具福德,在鹫峰上为langur猴所护佑。
12.48.89
मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः ।
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥ १२.४८.८९ ॥
在摩路多之族中受护佑的刹帝利之子,勇武可与风神之主相比,为大海所护佑。
12.48.90
एते क्षत्रियदायादास्तत्रतत्र परिश्रुताः ।
व्योकारहेमकारादिजातिं नित्यं समाश्रिताः ॥ १२.४८.९० ॥
这些刹帝利的后裔,处处闻名,常常依附于虚空匠、金匠等种姓。
12.48.91
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला ।
एतेषां पितरश्चैव तथैव च पितामहाः ॥ १२.४८.९१ ॥
若他们护佑我,我便将坚定不移地屹立;这些人的父辈,以及同样的祖辈亦然。
12.48.92
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ।
तेषामपचितिश्चैव मया कार्या महामुने ॥ १२.४८.९२ ॥
为了我,他们在战斗中被不知疲倦之业的罗摩所杀;大仙啊,对他们的尊崇与赎罪,必须由我来完成。
12.48.93
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम् ।
वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम् ॥ १२.४८.९३ ॥
我从不愿只依赖已逝之物的保护;愿我与当下同在,所以请尽快安排此事。
12.48.94
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः ।
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ॥ १२.४८.९४ ॥
于是迦叶将地所指示的人聚集起来,为以勇武受尊敬的刹帝利地上守护之王行灌顶礼。
12.48.95
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः ।
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण्डव ॥ १२.४८.९५ ॥
他们的子孙与后裔,其世系已被确立。坚战啊,你问我的这段古老传说,正是如此。
12.48.96
एवं ब्रुवंस्तं च यदुप्रवीरो ।
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
रथेन तेनाशु ययौ यथाऽर्को ।
विशन्प्रभाभिर्भगवांस्त्रिलोकीम् ॥ १२.४८.९६ ॥
说罢,那位雅度英雄便乘着那辆战车,迅速前往持守法义者中最优秀的坚战处,恰如太阳以光芒照临三界。