Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.49.1

ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः ।
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥ १२.४९.१ ॥

于是国王坚战听闻罗摩的那一功业,极为惊讶,便对genardana(黑天)说道。

12.49.2

अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः ।
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता ॥ १२.४९.२ ॥

哦,毗湿尼之后!伟大的罗摩的勇武如同因陀罗,他因愤怒而使大地没有了刹帝利。

12.49.3

गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः ।
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥ १२.४९.३ ॥

他们受到牛群、海洋,以及goalāṅgūla、熊和猴子的保护,因惧怕罗摩而不安,是刹帝利家族的延续者。

12.49.4

अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि ।
यत्र कर्मेदृशं धर्म्यं द्विजाग्र्यैः कृतमच्युत ॥ १२.४९.४ ॥

啊!这人间世界何等有福,大地上那些地方的人何等幸运,因为最杰出的婆罗门在那里做了如此合乎法的事业,哦,阿约陀。

12.49.5

कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ ।
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥ १२.४९.५ ॥

亲爱的,那两人——阿约陀与坚战——一边讲述故事,一边前往恒河之子、主君毗湿摩躺卧在箭床之处。

12.49.6

ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम् ॥ १२.४९.६ ॥

于是他们看见毗湿摩躺在箭床上,被他自己的光芒之环环绕,如同傍晚的太阳般光辉。

12.49.7

उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् ।
देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥ १२.४९.७ ॥

如诸天围绕因陀罗,诸仙侍奉之,于至为正法之地,沿奥伽瓦蒂河岸。

12.49.8

दूरादेव तमालोक्य कृष्णो राजा च धर्मजः ।
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥ १२.४९.८ ॥

远远望见他,克里希那与法所生之王,四位般度子,以及沙罗陀瓦多等人。

12.49.9

अवम्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः ।
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन् ॥ १२.४९.९ ॥

下车后,制伏躁动之心,统一诸根,遂走近诸大仙。

12.49.10

अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः ।
व्यासादीस्तानृपीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥ १२.४९.१० ॥

向毗耶娑等诸仙行礼之后,俱宾陀、萨谛奇与诸王随后前往恒河之子处。

12.49.11

तपोवृद्धि ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः ।
परिवार्य ततः सर्वे निपेदुः पुरुषर्षभाः ॥ १२.४९.११ ॥

于是,雅度之尊者问恒河之子其苦行之增长,随后诸位人中雄杰环绕而坐。

12.49.12

ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम् ।
किंचिद्दीनमना भीष्ममितिहोवाच केशवः ॥ १२.४९.१२ ॥

于是,见恒河之子如将熄之火,俱舍婆心中略感哀戚,遂对毗湿摩如是说。

12.49.13

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथापुरम् ।
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर ॥ १२.४९.१३ ॥

你的一切认知之根是否仍如往昔般清明?善辩者中最优秀的人啊,你的智慧没有慌乱吗?

12.49.14

शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते ।
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥ १२.४९.१४ ॥

你的身体因箭伤之苦而痛苦,难道不曾受折磨吗?因为身体的痛苦确实远比心灵的痛苦更为强烈。

12.49.15

वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो ।
शन्तनोर्धर्मनित्यस्य न त्वेतदिह कारणम् ॥ १२.४९.१५ ॥

主啊,凭借你父亲、常守法度的商多努所赐之恩,你拥有随意而死的能力;但此处的原因并不在此。

12.49.16

सुमूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम् ।
किंपुनः शरसंघातैश्चितस्य तव पार्थिव ॥ १२.४९.१६ ॥

即使是身上最细小的刺也会引起疼痛;何况啊国王,你的身体已被箭群穿满!

12.49.17

कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ ।
भवानुपदिशेच्छ्रेयो देवानामपि भारत ॥ १२.४९.१७ ॥

虽然你不必讲述众生的生起与消亡,啊婆罗多,你仍应向诸神讲说至善之道。

12.49.18

यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ ।
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥ १२.४९.१८ ॥

人中之牛啊,过去、未来与现在的一切,仿佛都置于你的掌中——你在智慧上已然成熟。

12.49.19

संसारस्येह भूतानां धर्मस्य च फलोदयः ।
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः ॥ १२.४९.१९ ॥

此世轮回中众生与法之果实的生起,你已了知,大智者啊;你实是法之宝藏。

12.49.20

त्व हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् ।
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम् ॥ १२.४९.२० ॥

你安坐于繁盛的王国,诸肢完备,无病,被千名女子环绕,我看你仿佛是上行精(梵行者)。

12.49.21

ऋते शान्तनवाद्भीष्मात्रिषु लोकेषु पार्थिवम् ।
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥ १२.४९.२१ ॥

除了珊塔努之子毗湿摩,三界之中再无他王,是真实于法、大勇猛、勇武、唯一专注于法之人。

12.49.22

मृत्युमावार्य तपसा शरसंस्तरशायिनः ।
त्रिवर्गप्रभवं कंचिन्न च तातानुशुश्रुम ॥ १२.४९.२२ ॥

他以苦行阻住死亡,卧于箭床之上;亲爱的,我们从他那里未曾听闻任何三大目标之源的教导。

12.49.23

सत्ये तपसि दाने च यज्ञाधिकरणे तथा ।
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥ १२.४९.२३ ॥

在真实、苦行与布施中,同样在祭祀之事中,在弓箭之学与吠陀中,并且常常在思考之中。

12.49.24

अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् ।
महारथं त्वत्सदृशं न कंचिदनुशुश्रुम ॥ १२.४९.२४ ॥

仁慈、清净、自制、喜乐于一切众生之利益的大车战士,如你这般的人,我们从未听闻过。

12.49.25

त्वं हि देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ।
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः ॥ १२.४९.२५ ॥

的确,你仅凭一辆战车,便能战胜诸天神、乾闼婆、阿修罗、夜叉与罗刹,此事毫无疑问。

12.49.26

स त्वं भीष्म महाबाहो वसूनां वासवोपमः ।
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥ १२.४९.२६ ॥

大臂的毗湿摩啊,你在诸婆薮中如同因陀罗;婆罗门们常称你为第九婆薮,在德行上不逊于任何人。

12.49.27

अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम ।
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः ॥ १२.४९.२७ ॥

人中之最的你啊,我自己也认识你;你即使在诸天神中也享有盛名,以力量而言你是人中至尊。

12.49.28

मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः ।
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥ १२.४९.२८ ॥

人中之主啊,在人类之中我既未曾见到、也未曾听闻有人与你相当;大地之上,论德行,没有哪个人能与你相等。

12.49.29

त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे ॥ १२.४९.२९ ॥

的确,大王啊,你在一切德行上甚至超过诸天神。

12.49.30

तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ।
किंपुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः ॥ १२.४९.३० ॥

仅凭苦行,你便能创造动与不动的诸世界;何况以你至上的德行,还能成就你自己至高的诸世界呢。

12.49.31

तदस्य तप्यमानस्य ज्ञातीनां संक्षयेन वै ।
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥ १२.४९.३१ ॥

那时,因亲族的毁灭而痛苦的般度长子,啊毗湿摩,你驱散了他的悲伤。

12.49.32

ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ।
चातुराश्रम्यसंयुक्ताः सर्वे ते विदितास्तव ॥ १२.४९.३२ ॥

啊婆罗多,凡为四种姓及四住期所宣说的法,你都已知晓。

12.49.33

चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ।
योगे साङ्ख्ये च नियता ये च धर्माः सनातनाः ॥ १२.४९.३३ ॥

啊婆罗多,四吠陀知识与四祭司之祭中所说的,以及瑜伽与数论中所定的永恒之法。

12.49.34

चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते ।
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव ॥ १२.४९.३४ ॥

为四种姓所宣说的法并不相互矛盾;奉行它时,连同其解释,啊恒河之子,你已知晓。

12.49.35

प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः ।
देशजातिकुलानां च जानीषे धर्मलक्षणम्। ॥ १२.४९.३५ ॥

对于逆婚所生者、蛮夷以及各地区、种姓与家族所记之法的特征,你是知道的。

12.49.36

वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव ।
प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव ॥ १२.४९.३६ ॥

吠陀所说以及贤者所传之法,你始终知晓;入世之行与出世之行,这些你也知晓。

12.49.37

इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव ।
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥ १२.४९.३७ ॥

史诗与往世书的义理你已完全通晓,整部法论也始终存留于你的心中。

12.49.38

ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः ।
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः ॥ १२.४९.३८ ॥

世间凡是令人生疑的事,能为之断决的,除你之外再无他人,人中之尊啊。

12.49.39

स पाण्डवेयस्य मनःसमुत्थितं ।
नरेन्द्र शोकं व्यपकर्ष मेधया।
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा ।
विमुह्यमानस्य जनस्य शान्तये ॥ १२.४९.३९ ॥

人主啊,请以你的智慧消除在般度之子心中升起的忧愁;像你这样智慧卓绝之人,正是为了使迷惘之人得到平安。