Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.5.1

आदित्कृतबलं कर्णं दृष्ट्वा राजा स मागधः ।
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ॥ १२.५.१ ॥

摩揭陀王、大地之主裟罗山陀见到迦尔纳的力量,便在战场上向他发起单车决斗的挑战。

12.5.2

तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः ।
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥ १२.५.२ ॥

二人都精通神圣兵器,两人之间爆发了战斗;在战场上,他们以各种兵器相互倾泻。

12.5.3

क्षीणबाणौ विधनुषौ भग्नखङ्गौ महीं गतौ ।
बाहुभिः समसज्जेतामुभावतिबलान्वितौ ॥ १२.५.३ ॥

箭矢耗尽,弓弦折断,刀剑破碎,二人皆力大无穷,便下到地面,以双臂相互扭斗。

12.5.4

बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः ।
विभेदं संधिं देहस्य जरया श्लेषितस्य हि ॥ १२.५.४ ॥

当他在名为“臂刺”的搏斗中与之交战时,迦尔纳使他身体的关节——那些因衰老而紧缩的关节——分离开来。

12.5.5

स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः ।
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य दूरतः ॥ १२.५.५ ॥

那位国王看到自己身体的残损,便从远处放下仇怨,对迦尔纳说:“我很高兴。”

12.5.6

प्रीत्या ददौ स कर्णाय मालिनीं नगरीमनु ।
अङ्गेषु नरशार्दूल स राजाऽऽसीत्सपत्नजित् ॥ १२.५.६ ॥

他出于喜爱,将马利尼城赠予迦尔纳;那位人中猛虎、征服敌人的人,便成为安伽的国王。

12.5.7

पालयामास वर्णांस्तु कर्णः परबलार्दनः ।
दुर्योधनस्यानुमते तवापि विदितं तथा ॥ १२.५.७ ॥

摧毁敌军的迦尔纳在难敌的同意下守护诸种姓,这你也是知道的。

12.5.8

एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ ।
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥ १२.५.८ ॥

如此,他凭借武器的威力名闻大地;为了你的利益,天神之王向他索取了铠甲与耳环。

12.5.9

स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते ।
सहजं कवचं चापि मोहितो देवमायया ॥ १२.५.९ ॥

他被神力幻术所迷惑,将那神圣、与生俱来、备受敬重的耳环,以及与生俱来的铠甲都施舍了出去。

12.5.10

विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा ।
निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥ १२.५.१० ॥

失去了耳环与与生俱来的铠甲,他在战场上被胜者(阿周那)所杀,而婆苏提婆在一旁观看。

12.5.11

ब्राह्मणस्यापि शापेन रामस्य च महात्मनः ।
कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥ १२.५.११ ॥

因婆罗门的诅咒,因伟大的罗摩的诅咒,因授予贡蒂的恩赐,也因百祭者因陀罗的幻术。

12.5.12

भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् ।
शल्यतेजोवधाच्चापि वासुदेवनयेन च। ॥ १२.५.१२ ॥

因为对毗湿摩的侮辱,因为战车计数时只算一半,因为沙利耶的光辉被摧毁,也因为婆苏提婆的谋略。

12.5.13

रुद्रस्य देवराजस्य यमस्य वरुणस्य च ।
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ॥ १२.५.१३ ॥

楼陀罗、众神之王因陀罗、阎摩、伐由那、俱毗罗、德罗纳以及大心的克利帕的(神兵)。

12.5.14

अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना ।
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥ १२.५.१४ ॥

持甘地弓者手执神兵,在战斗中杀死了与太阳同样光辉的维迦尔塔纳之子迦尔纳。

12.5.15

एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः ।
न शोच्यः पुरुषव्याघ्र युद्धे हि निधनं गतः ॥ १२.५.१५ ॥

人中之虎啊,你的兄弟如此被诅咒,又被众人欺骗,但他战死沙场,不值得悲伤。