Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.50.1

श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः ।
किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ॥ १२.५०.१ ॥

毗湿摩听了智慧的婆苏提婆的话,稍稍抬起面容,合掌说出了这番话。

12.50.2

नमस्ते भगवन्कृष्ण लोकानां प्रभवाप्यय ।
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ १२.५०.२ ॥

敬礼你,世尊克里希那。你是世界的生起与消亡;你确实是创造者,哈里希刻诗啊,也是毁灭者,不可战胜者。

12.50.3

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
अपवर्गस्थ भूतानां पञ्चानां परतः स्थित ॥ १२.५०.३ ॥

敬礼你,宇宙的创造者。宇宙之我,宇宙之源,你安住于解脱之中,超越于五大之上。

12.50.4

नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।
योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणः ॥ १२.५०.४ ॥

敬礼你,在三界之中;敬礼你,超越三界之上。敬礼你,瑜伽之主;你确实是一切众生的至高归宿。

12.50.5

मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम ।
तेन पश्यामि ते दिव्यान्भावांस्त्रिषु च वर्त्मसु ॥ १२.५०.५ ॥

人中最上者啊,由于你依托于我所说的这些话,我得以在三条道路上看见你的神圣状态。

12.50.6

तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् ।
सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ॥ १२.५०.६ ॥

我如实看见你那永恒的形相,在其中,无限光辉之风的七条道路已被你所阻止。

12.50.7

दिवं ते शिरसा व्याप्तं पभ्द्यां देवी वसुंधरा ।
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः ॥ १२.५०.७ ॥

你的头充满天空,你的双足遍及大地女神婆逊陀罗。四方是你的手臂,太阳是你的眼睛,金星安立于你的威力之中。

12.50.8

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ॥ १२.५०.८ ॥

不坠者啊,你的形相如亚麻花般色泽,身披黄衣,我们看见它如同伴随闪电的云。

12.50.9

त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ १२.५०.९ ॥

对于皈依你、虔诚而渴望胜利的人,你就是所求的理想归宿。莲花眼者啊,诸神之最,请专注于那最吉祥之事。

12.50.10

यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ ।
ततो मया वपुर्दिव्यं तव राजन्प्रदर्शितम् ॥ १२.५०.१० ॥

因为你对我有至上的虔诚,人中雄牛啊,所以我向你显示了我的神圣形相,大王。

12.50.11

न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च ।
दर्शयाम्यहमात्मानं न चादान्ताय भारत ॥ १२.५०.११ ॥

王中之王啊,我不向无虔诚者显现,也不向不正直的虔信者显现;婆罗多啊,也不向不克制自己的人显现。

12.50.12

भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः ।
दमे तपसि सत्ये च दाने च निरतः शुचिः ॥ १२.५०.१२ ॥

而你是我的虔信者,常住于正直之中,专注于克制、苦行、真实与布施,清净。

12.50.13

अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव ।
तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ॥ १२.५०.१३ ॥

啊,君王毗湿摩,凭你自己的苦行,你配得见我。那些不再返回的世界已为你准备好了。

12.50.14

पञ्चाशतं षट् च कुरुप्रवीर ।
शेषं दिनानां तव जीवितस्य।
ततः शुभैः कर्मफलोदयैस्त्वं ।
समेष्यसे भीष्म विमुच्य देहम् ॥ १२.५०.१४ ॥

啊,俱卢英雄,你余下的生命之日是五十六天。然后,啊毗湿摩,借由善业果报的生起,舍弃身体后,你将抵达(那些世界)。

12.50.15

एते हि देवा वसवो विमाना ।
न्यास्थाय सर्वे ज्वलिताग्निकल्पाः।
अन्तर्हितास्त्वां प्रतिपालयन्ति ।
काष्ठां प्रपद्यन्तमुदक्पतङ्गाम् ॥ १२.५०.१५ ॥

这些神祇、诸婆薮,乘坐天车,如燃烧的火焰,隐身等待着你,你正沿太阳北行之道前行。

12.50.16

व्यावृत्तमात्रे भगवत्युदीचीं ।
सूर्ये जगत्कालवशं प्रपन्ने।
गन्तासि लोकान्पुरुषप्रवीर ।
नावर्तते यानुपलभ्य विद्वान् ॥ १२.५०.१६ ॥

啊,人中之英杰,当圣日刚转向北方、世界已受时间支配之时,你将前往那些世界;得到它们的智者不再返回。

12.50.17

अमुं च लोकं त्वयि भीष्म याते ।
ज्ञानानि सर्वाणि पराभविष्यन्।
अतस्तु सर्वे तव सन्निकर्षं ।
समागता धर्मविवेचनाय ॥ १२.५०.१७ ॥

啊毗湿摩,你一旦往彼世界而去,一切智慧都将消失。因此,这些人都聚集在你身边,以辨析法义。

12.50.18

तज्ज्ञातिशोकोपहतश्रुताय ।
सत्याभिसन्धाय युधिष्ठिराय।
प्रब्रूषि धर्मार्थसमाधियुक्तं ।
सत्यं वचोऽस्यापनुदेच्छुचं यत् ॥ १२.५०.१८ ॥

因此,请对那听闻被亲族之悲所伤、誓愿真实的坚战说一句真实之言,结合法与利的正确判定,以驱除他的忧愁。