Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.51.1

ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् ।
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः ॥ १२.५१.१ ॥

此时,施檀努之子毗湿摩听了黑天那番合于法与利、利益众生的话,合掌回答黑天。

12.51.2

लोकनाथ महाबाहो शिव नारायणाच्युत ।
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः ॥ १२.५१.२ ॥

世界之主、大臂者啊,湿婆、那罗延、阿竭多啊!听闻你的话语,我心中充满了喜悦。

12.51.3

किंचाहमभिधास्यामि वाक्पते तव सन्निधौ ।
यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥ १२.५१.३ ॥

在你面前,我所要说的,凡是出于言辞的一切,都已汇集在你的言辞之中,言语之主啊。

12.51.4

यच्च किंचित्कृतं लोके कर्तव्यं क्रियते च यत् ।
त्वत्तस्तन्निः सृतं देव लोके बुद्धिमतो हिते ॥ १२.५१.४ ॥

天神啊,世间已做之事、应做之事与正在做之事,皆出于你,为了世间智者的利益。

12.51.5

कथयेद्देवलोकं यो देवराजसमीपतः ।
धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः ॥ १२.५१.५ ॥

若在天王身旁讲述天界,那人应当在你面前讲说法、欲、利、解脱之义。

12.51.6

शराभितापाद्व्यथितं मनो मे मधुसूदन ।
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥ १२.५१.६ ॥

摩图苏陀那啊,箭的痛苦使我的心烦乱;我的肢体渐渐衰弱,我的智慧也不得清明。

12.51.7

न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम् ।
पीड्यमानस्य गोविन्द विपानलसमैः शरैः ॥ १२.५१.७ ॥

哥文达啊,我被如毒火般的箭所折磨,已无丝毫言说的能力。

12.51.8

बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च ।
मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम् ॥ १२.५१.८ ॥

我的力量仿佛正离我而去,生命之气急速消散,要害之处炽热燃烧,我的心神也已迷乱。

12.51.9

दौर्बल्यात्सज्जते वाङ्भे स कथं वक्तुमुत्सहे ।
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन ॥ १२.५१.९ ॥

因为虚弱,我的言语滞涩,我怎敢开口?达沙尔哈族的增益者啊,请对我施以恩惠。

12.51.10

तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत ।
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन् ॥ १२.५१.१० ॥

因此,大臂者啊,请宽恕我;阿周那啊,我什么也不说,因为在你面前,即使言语之主也会在说话时踉跄。

12.51.11

न दिशः संप्रजानामि नाकाशं न च मेदिनीम् ।
केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥ १२.५१.११ ॥

我已分辨不出四方,也分辨不出天空与大地;摩图苏陀那啊,我只靠你的威力才能站立。

12.51.12

स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम् ।
तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः ॥ १२.५१.१२ ॥

因此,请你亲自迅速宣说对法王有益之事,因为你正是一切典籍的权威。

12.51.13

कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि ।
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥ १२.५१.१३ ॥

黑天啊,当永恒的世界创造者你立于此处时,像我这样的人怎能开口,如同弟子站在师尊面前?

12.51.14

उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे ।
महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि ॥ १२.५१.१४ ॥

你的这番话恰当,哦,俱卢族的支柱,大勇、大德、坚定、洞见一切目标者。

12.51.15

यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति ।
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो ॥ १२.५१.१५ ॥

恒河之子啊,关于箭伤之痛你对我所说的,哦,毗湿摩,哦,主人,请接受我以恩典所赐的一个恩惠。

12.51.16

न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा ।
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥ १२.५१.१६ ॥

恒河之子啊,疲倦、昏迷与发热都不会降临于你,你的痛苦也不会压倒你;饥渴也不会困扰你。

12.51.17

ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ ।
न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति ॥ १२.५१.१७ ॥

无罪者啊,完整的智慧将为你显现,你的智力中也不会生起任何执着。

12.51.18

सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति ।
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट् ॥ १२.५१.१८ ॥

毗湿摩啊,你的心将永远安住于善性之中,脱离激情与暗昧,犹如摆脱云层的月亮。

12.51.19

यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च ।
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥ १२.५१.१९ ॥

凡与法相应、与利相关者,或你所思虑的任何事,你的智慧在其中都将至高无上。

12.51.20

इमं च राजशार्दूल भूतग्रामं चतुर्विधम् ।
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥ १२.५१.२० ॥

王中之虎啊,依凭天眼,你将看见这四种众生之群,无量勇力者啊。

12.51.21

चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा ।
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥ १२.५१.२१ ॥

具足智慧之眼,婆湿摩啊,你将如实看见这四种众生之网,如同清水中的鱼。

12.51.22

ततस्ते व्याससहिताः सर्व एव महर्षयः ।
ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन् ॥ १२.५१.२२ ॥

于是,与毗耶娑同在的诸大仙人,以《梨俱》《夜柔》《娑摩》相应的颂词,礼赞黑天。

12.51.23

ततः सर्वार्तवं दिव्यं पुष्पवर्षं न भस्तलात् ।
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥ १२.५१.२३ ॥

于是,天空降下一场四时诸花的神圣花雨,落在婆湿尼耶、恒河之子与般度诸子所在之处。

12.51.24

वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः ।
न चाहितमनिष्टं च किंचित्तत्र व्यदृश्यत ॥ १२.५१.२४ ॥

一切乐器齐鸣,阿普萨拉斯的群众歌唱;那里看不见任何敌意或不祥之物。

12.51.25

ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः ।
शान्तायां दिशिशन्ताश्च प्रावदन्मृगपक्षिणः ॥ १२.५१.२५ ॥

在平静的方位吹起吉祥、宜人、带着一切香气的清风;平静下来的鹿与鸟开始鸣叫。

12.51.26

ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः ।
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥ १२.५१.२६ ॥

片刻之后,千光的尊贵日神在西方显现,仿佛在僻静处焚烧森林。

12.51.27

ततो महर्षयः सर्वे समुत्थाय जनार्दनम् ।
भीष्ममामन्त्रयांचक्रू राजानं च युधिष्ठिरम् ॥ १२.५१.२७ ॥

随后所有大仙起身,向Janārdana、Bhīṣma和国王Yudhiṣṭhira告辞。

12.51.28

ततः प्रणाममकरोत्केशवः सहपाण्डवः ।
सात्यकिः स़ञ्जयश्चैव स च शारद्वतः कृपः ॥ १२.५१.२८ ॥

随后Keśava与般度诸子一同行礼;Sātyaki、Sañjaya以及Śaradvat之子Kṛpa也行礼。

12.51.29

ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः ।
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥ १२.५१.२९ ॥

他们受到诸人的敬重,皆专心于法,说道“明日再会”,便依各自之意急速离去。

12.51.30

तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा ।
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥ १२.५१.३० ॥

同样,他们向恒河之子Bhīṣma告辞,右绕其身,然后登上华美的车驾。

12.51.31

ततो रथैः काञ्चनचित्रकूबरै ।
र्महीधराभैः समदैश्च दन्तिभिः।
हयैः सुपर्णैरिव चाशुगामिभिः ।
पदातिभिश्चात्तशरासनादिभिः ॥ १२.५१.३१ ॥

随后,有金色彩绘车辕的战车,如山的发情大象,疾如金翅鸟的骏马,以及手持弓箭等兵器的步兵。

12.51.32

ययौ रथानां पुरतो हि सा चमू ।
स्तथैव पश्चादतिमात्रसारिणी।
पुरश्च पश्चाच्च यथा महानदी ।
तमृक्षवन्तं गिरिमेत्य नर्मदा ॥ १२.५१.३२ ॥

那支军队在战车前方行进,后方同样绵延甚远,如大河前后奔流,又如纳尔马达河抵达黑叉山。

12.51.33

ततः पुरस्ताद्भगवान्निशाकरः ।
समुत्थितस्तामभिहर्षयंश्चमूम्।
दिवाकरापीतरसा महौषधीः ।
पुनः स्वकेनैव गुणेन योजयन् ॥ १२.५१.३३ ॥

于是,尊贵的月亮在东方升起,使那支军队欢欣,并以自身的力量,使被太阳吸尽汁液的大药草重新恢复生机。

12.51.34

ततः पुरं सुरपुरसंमितद्युति ।
प्रविश्य ते यदुवृषपाण्डवास्तदा।
यथोचितान्भवनवरान्समाविशन् ।
श्रमान्विता मृगपतयो गुहा इव ॥ १२.५१.३४ ॥

随后,他们进入这座光辉如天神之城的城市,雅度之雄与般度五子便进入与其身份相称的上好宅第,疲惫如狮子进入洞穴。