Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.52.1

ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः ।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥ १२.५२.१ ॥

随后,摩图苏陀那进入宫殿,在夜里只剩一更时醒来。

12.52.2

स ध्यानपथमाविश्य सर्वज्ञानानि माधवः ।
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥ १२.५२.२ ॥

摩陀婆进入禅定之道,遍观一切知识之后,随即沉思永恒的梵。

12.52.3

सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः ।
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥ १२.५२.३ ॥

精通赞颂与往世书、喉音嘹亮的善训诸苏多,赞颂创造宇宙的生主婆苏提婆。

12.52.4

पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः ।
शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः ॥ १२.५२.४ ॥

击掌者诵念,歌者歌唱;成千的海螺与鼓齐声吹奏。

12.52.5

वीणापणववेणूनां स्वनश्चातिमनोरमः ।
सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि ॥ १२.५२.५ ॥

琵琶、鼓与笛的极其悦耳之声,在他的宫中弥漫开来,仿佛充满了欢笑。

12.52.6

ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः ।
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः ॥ १२.५२.६ ॥

随后,为国王坚战也高声诵出吉祥而悦耳的言辞,歌声与乐器之声交织回荡。

12.52.7

तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः ।
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥ १२.५२.७ ॥

于是达沙尔哈的后裔沐浴起身,合掌,不倒者念诵秘密真言,大臂者走近圣火而立。

12.52.8

ततः सहस्रं विप्राणां चतुर्वेदविदां तथा ।
गवां सहस्रेणैकैकं वाचयामास माधवः ॥ १२.५२.८ ॥

随后摩陀婆让一千位通晓四吠陀的婆罗门诵读祝福,并且每人赠予一千头牛。

12.52.9

मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च ।
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥ १२.५२.९ ॥

触摸吉祥之物,并在明亮的镜中照见自己后,克里希那便对萨提亚基说道。

12.52.10

गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् ।
अपि सञ्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः ॥ १२.५२.१० ॥

去吧,舍尼之子,到王宫去打听,大光辉的桑闍耶与坚战是否去探望毗湿摩了。

12.52.11

ततः कृष्णस्य वचनात्सात्यंकिस्त्वरितो ययौ ।
उपगम्य च राजानं युधिष्ठिरमभाषत ॥ १२.५२.११ ॥

于是依克里希那之言,萨提亚基急忙前去,走近国王坚战,向他说道。

12.52.12

युक्तो रथवरो राजन्वासुदेवस्य धीमतः ।
समीपमापगेयस्य प्रयास्यति जनार्दनः ॥ १२.५२.१२ ॥

大王啊,智慧的婆苏提婆之良车已驾好;遮那陀那将前往阿波伽耶(毗湿摩)身边。

12.52.13

भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते ।
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥ १२.५२.१३ ॥

法王啊,大光明者啊,克里希那正在等候您。此处接下来应尽的职责,您应当去做。

12.52.14

एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः ।
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ॥ १२.५२.१४ ॥

被如此告知后,法之子坚战答道:“套上我最好的战车吧,你的光彩与法勒古纳无可比拟。”

12.52.15

न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ।
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः ॥ १२.५२.१५ ॥

不应带着士兵前往;只有我们自己去。法的守护者中最优秀的毗湿摩,也不应因我而受到打扰。

12.52.16

अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय ।
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति।
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥ १२.५२.१६ ॥

因此,财富征服者啊,让先行的人回去吧。从今天起,甘伽之子(毗湿摩)将宣说至高的秘密;因此,贡蒂之子啊,我不愿与普通人相见。

12.52.17

स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः ।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः ॥ १२.५२.१७ ॥

领会了那番话后,贡蒂之子财富征服者,人中雄牛,便告诉他,最好的战车已经套好了。

12.52.18

ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि ।
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥ १२.५२.१८ ॥

于是国王坚战、双生子,以及毗摩与阿周那,如同一切众生一般,前往克里希那的住处。

12.52.19

आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु ।
शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥ १२.५२.१९ ॥

当大德的般度之子们到来时,智慧的黑天也与施尼耶一同登上了战车。

12.52.20

रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् ।
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः ॥ १२.५२.२० ॥

他们站在战车上,相互商定,并友好地问候了夜晚,那些人中雄牛乘着如雷鸣般的上好战车出发了。

12.52.21

बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेवच ।
दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥ १२.५२.२१ ॥

达鲁卡驱策着婆苏提婆的马:辩拉哈迦、云花、施毗耶与须羯哩婆。

12.52.22

ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥ १२.५२.२२ ॥

被达鲁卡驱策的婆苏提婆之马,啊国王,当时便出发了,用蹄尖刨着大地。

12.52.23

ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः ।
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥ १२.५२.२३ ॥

他们迅捷而极有力量,仿佛吞噬天空,降临于库鲁田——整个法之田野。

12.52.24

ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः ।
आस्ते महर्षिभिः सार्ध्रं ब्रह्मा देवगणैर्यथा ॥ १२.५२.२४ ॥

于是他们前往主君毗湿摩所在之处——他躺在箭床上,与大仙们同在,如梵天与诸神众同在。

12.52.25

ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः ।
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥ १२.५२.२५ ॥

于是戈文达与坚战下车,怖军、持甘狄拔弓的阿周那、双生子与萨谛奇亦下车。他们举起右手,向仙人致敬。

12.52.26

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥ १२.५२.२६ ॥

国王被他们簇拥,如星辰环绕的月亮,如因陀罗前往梵天,走向恒河之子。

12.52.27

शरतल्पे शयानं तमादित्यं पतितं यथा ।
स ददर्श महाबाहुं भयाच्चागतसाध्वसः ॥ १२.५२.२७ ॥

他看见那大臂者躺在箭床上,如同坠落的太阳;他满怀恐惧与战栗,望着他。