摩诃婆罗多 · 章 12.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.56.1
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर ।
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः ॥ १२.५६.१ ॥
战慧啊,君王应当常怀奋发之心。缺乏奋发的君王不受称赞,犹如女子。
12.56.2
भगवानुशना चाह श्लोकमत्र विशांपते ।
तदिहैकमना राजन्गदतस्तं निबोध मे ॥ १२.५६.२ ॥
众民之主啊,尊贵的乌尚那在此说了一首颂。君王,请专心听我诵说。
12.56.3
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ १२.५६.३ ॥
大地吞噬这两者,如同蛇蜷伏于洞穴:不抵抗的君王,以及不远行的婆罗门。
12.56.4
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि ।
सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय ॥ १२.५६.४ ॥
因此,人中之虎啊,你应当牢记于心:与可以媾和者媾和,与应当对抗者对抗。
12.56.5
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत् ।
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥ १२.५६.५ ॥
凡违背七支王国而行事者,无论是师长还是朋友,都必须予以打击。
12.56.6
मरुत्तेन हि राज्ञा वै गीतः श्लोकः पुरातनः ।
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥ १२.५६.६ ॥
诸王之王啊,往昔摩录多王依照毗诃娑波提之说,咏唱了这首关于王权的古老颂。
12.56.7
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ १२.५६.७ ॥
即使是老师,若傲慢、不知何为应做与不应做、已误入歧途,也规定应当舍弃。
12.56.8
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता ।
असमञ्जः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥ १२.५६.८ ॥
巴呼之子、智慧的国王萨加拉,因想要一位祭司,便舍弃了长子阿萨曼遮。
12.56.9
असमञ्जः सरय्वां स पौराणां बालकान्नृप ।
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥ १२.५६.९ ॥
国王啊,阿萨曼遮在萨拉尤河中淹死了城民的孩子。因此父亲责备他并将他放逐。
12.56.10
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः ।
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ॥ १२.५६.१० ॥
仙人乌达拉迦也舍弃了他心爱的儿子、大苦行者室伽多伽,因为他虚伪地侍奉婆罗门。
12.56.11
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः ।
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥ १२.५६.११ ॥
在此,帝王的永恒之法正是使民喜悦、守护真理,并在行事中正直。
12.56.12
न हिंस्यात्परवित्तानि देयं काले च दापयेत् ।
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥ १२.५६.१२ ॥
君王不应侵害他人财物,应使应给之物及时给予。勇武、诚实、忍耐的君王不会偏离正道。
12.56.13
गुप्तमन्त्रो जितक्रोधः शास्त्रार्थकृतनिश्चयः ।
धर्मे चार्थे च कामे च मोक्षे च सततं रतः ॥ १२.५६.१३ ॥
守口如瓶之君,胜过忿怒,依经典之义determined坚定,常勤于法、利、欲与解脱。
12.56.14
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति ।
वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम् ॥ १२.५६.१४ ॥
唯以三明守护其谋之君,方配为王;诸王之务,无胜于护佑者。
12.56.15
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता ।
धर्मसंकररक्षा च राज्ञां धर्मः सनातनः ॥ १२.५६.१५ ॥
君王当护持四种姓之法;防止法之混乱,乃诸王永恒之法。
12.56.16
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत् ।
षाङ्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत् ॥ १२.५६.१६ ॥
君王不可轻信,亦不可过信;当以智慧常察六策之长短。
12.56.17
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते ।
त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः ॥ १२.५६.१७ ॥
常察隙漏之君,恒被称颂;知三事之义,行正直之道者。
12.56.18
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः ।
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥ १२.५६.१८ ॥
乐于积聚府库,如阎摩与毗沙门(俱毗罗);通晓十类之人,明察地位之升降者。
12.56.19
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः ।
नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥ १२.५६.१९ ॥
国王应当扶养无依无靠者,并监督那些受他供养者;他应面容和悦,说话时先带微笑。
12.56.20
उपासिता … जिततन्द्रिरलोलुपः ।
सतां वृत्ते स्थितमतिः सतां ह्याचारदर्शनः ॥ १२.५६.२० ॥
应当侍奉那战胜了懈怠、不贪婪、心志坚定于善人之行、并观察善人之德行的人……
12.56.21
न चाददीत वित्तानि सतां हस्तात्कदाचन ।
असभ्द्यश्च समादाय सभ्द्यस्तु प्रतिपादयेत् ॥ १२.५६.२१ ॥
切不可从善人手中取财;取之于不善之人,应当施予善人。
12.56.22
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः ।
काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥ १२.५६.२२ ॥
他自己应当是勇敢出击者,也是施予者;自我克制,并能驾驭手段;适时布施,也善于享用,同样品行纯洁。
12.56.23
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः ।
शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः ॥ १२.५६.२३ ॥
勇士、忠诚者、坚定者,出身于良好家族,无疾病,有教养,与有教养者交往,有自尊而不轻慢他人的人。
12.56.24
विद्याविदो लोकविदः परलोकान्ववेक्षकान् ।
धर्मे च निरतान्साधूनचलानचलानिव। ॥ १२.५६.२४ ॥
精通学问者、通晓世事者、关注来世者、专心于法者——善人,如山岳般不动摇。
12.56.25
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान् ।
तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः ॥ १२.५६.२५ ॥
君王应当常常任用以富贵装饰的辅佐者。在享受上他可以与他们相同,但只在华盖与号令上应高于他们。
12.56.26
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्समा ।
एवं कुर्वन्नरेन्द्रो हि न खेदमिह विन्दति ॥ १२.५६.२६ ॥
他的行为在明处与暗处应当一致。如此行事的君王在此不会遭受烦忧。
12.56.27
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत् ।
स क्षिप्रमनृर्जुर्लुब्धः स्वजनेनैव बाध्यते ॥ १२.५६.२७ ॥
疑忌所有人、夺取一切、狡诈贪婪的君王,很快便会被自己的臣民所迫害。
12.56.28
शुचिस्तु पृथिवीपालो लोकस्यानुग्रहे रतः ।
न पतत्यरिभिर्ग्रस्तः पतितश्चाधितिष्ठति ॥ १२.५६.२८ ॥
纯洁而致力于民众福祉的地上守护者,即使被敌人擒获也不会倒下;即便倒下,也会重新站起。
12.56.29
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः ।
राजा भवति भूतानां विश्वास्यो हिमवानिव ॥ १२.५६.२९ ॥
不怀怒气、不沉溺恶习、刑罚宽和、克制感官的君王,对众生而言便如喜马拉雅一般可以信赖。
12.56.30
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः ।
सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥ १२.५६.३० ॥
君王应当有智慧,具备公正的美德,留心敌人的薄弱之处,对各个种姓都易于接近,并且懂得正确与错误的政策。
12.56.31
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः ।
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ॥ १२.५६.३१ ॥
行动敏捷、战胜愤怒、极为和善、心胸宽广、体质健康、克己自持、勤于职守而不自夸的人。
12.56.32
आरब्धान्येव कार्याणि न पर्यवसितान्यपि ।
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥ १२.५६.३२ ॥
其所开始之事业,虽未完成,却已显现者,此王便是诸王中最优秀的。
12.56.33
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः ।
निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥ १२.५६.३३ ॥
其国中之民如子在父家中般无所畏惧地往来,此王便是诸王中最优秀的。
12.56.34
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः ।
नयापनयवेत्तारः स राजा राजसत्तमः ॥ १२.५६.३४ ॥
其城中之民与国中居民,财富不隐,通晓善政与恶政,此王便是诸王中最优秀的。
12.56.35
स्वधर्मनिरता यस्य जना विषयवासिनः ।
असङ्घातरता दान्ताः पाल्यमाना यथाविधि ॥ १२.५६.३५ ॥
其国中之民安守本分,不结党营私,克己自持,依法受护,此王便是诸王中最优秀的。
12.56.36
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः ।
विषये दानरुचयो नरा यस्य स पार्थिवः ॥ १२.५६.३६ ॥
其国中之民顺从、警觉、谦逊,本性不好争斗,乐于布施,此王便是真正的君主。
12.56.37
न यस्य कूटं कपटं न माया न च मत्सरः ।
विषये भूमिपालस्य तस्य धर्मः सनातनः ॥ १२.५६.३७ ॥
凡地上之王,其国中无欺诈、无诡计、无幻术、无嫉妒,其法(达摩)永恒。
12.56.38
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः ।
सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति ॥ १२.५६.३८ ॥
尊敬智者、德行超群、乐于利他、遵循善人之道且慷慨的国王,应得天界。
12.56.39
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः ।
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति ॥ १२.५६.३९ ॥
其间谍与谋略,所做与未做,敌人永不得知,此王方配治国。
12.56.40
श्लोकद्वयं पुरा गीतं भार्गवेण महात्मना ।
आख्याते राजचरिते नृपतिं प्रति भारत ॥ १२.५६.४० ॥
婆罗多啊,往昔大德婆利古在叙述王者行迹时,为君王吟唱了这两首颂。
12.56.41
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनं ॥ १२.५६.४१ ॥
应先得王,次得妻,次得财。若世间无王,妻从何来,财从何来?
12.56.42
तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः ।
ऋते रक्षां तु विस्पष्टां रक्षा लोकस्य धारिणी ॥ १२.५६.४२ ॥
在那个国家里,对于欲求王权者,除了保护,别无永恒之法。明确的保护才是支撑世界之本。
12.56.43
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ ।
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥ १२.५६.४३ ॥
普拉切塔斯之子摩奴宣说了关于王法的这两颂。王中之王啊,请专心听来。
12.56.44
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ १२.५६.४४ ॥
人应当舍弃这六者,如同在海中舍弃破损的船:不教导的老师,不学习的祭司。
12.56.45
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ १२.५६.४५ ॥
不保护臣民的国王,说话不悦耳的妻子,想住村落的牧人,以及想住森林的理发师——