摩诃婆罗多 · 章 12.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.57.1
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर ।
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥ १२.५७.१ ॥
坚战啊,这便是王法的精华;因为尊贵的布哈斯帕蒂从不称赞别的法。
12.57.2
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः ।
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ॥ १२.५७.२ ॥
广眼(湿婆)、尊贵的迦维(乌尚那斯)、大苦行者、千眼大因陀罗,以及普拉切塔斯之子摩奴。
12.57.3
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः ।
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः ॥ १२.५७.३ ॥
尊贵的婆罗堕遮、牟尼高罗希罗,以及著述王术的梵言者婆罗门。
12.57.4
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर ।
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु ॥ १२.५७.४ ॥
持法者中最优者,红莲眼者啊,他们在王法中只称赞保护;其方法,请听我说。
12.57.5
चारश्च प्रणिधिश्चैव काले दानममत्सरः ।
युक्त्या दानं न चादानमयोगेन युधिष्ठिर ॥ १२.५७.५ ॥
坚战啊,设立密探与暗使;适时无嫉妒地施舍;依正道施予,不以非道取得。
12.57.6
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् ।
अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम् ॥ १२.५७.६ ॥
聚拢善人、勇武、才干、诚实、利益民众;以曲直两种手段,使敌方之势不得增长。
12.57.7
केतनानां च जीर्णानामवेक्षा चैव सीदताम् ।
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः ॥ १२.५७.७ ॥
检视破旧的旗帜与旧物,关照困苦之人,并依时宜施行两种刑罚。
12.57.8
साधूनामपरित्यागः कुलीनानां च धारणम् ।
निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥ १२.५७.८ ॥
不舍弃善人,扶持贵族,积聚财富,并侍奉值得尊敬之人与智者。
12.57.9
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् ।
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ॥ १२.५७.९ ॥
常使军队欢喜,时时关照民众,处理事务不知疲倦,并增益国库。
12.57.10
पुरगुप्तिरविश्वासः पौरसंघातभेदनम् ।
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥ १२.५७.१० ॥
守护城池,保持戒备,离间城中民众的集会,并妥善察看处于敌人之间的朋友。
12.57.11
उपजापश्च भृत्यानामात्मनः पुरदर्शनम् ।
अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥ १२.५७.११ ॥
在仆从之间挑拨离间,察看自己的城池,自己保持不信任,同时使他人安心。
12.57.12
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च ।
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ॥ १२.५७.१२ ॥
遵循明智治国之道,时刻准备行动,从不轻视敌人,并始终远离卑劣之人。
12.57.13
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥ १२.५७.१३ ॥
brihaspati 曾说,积极行动是君王之法的根本。现在请听我讲述关于此事的诗颂。
12.57.14
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः ।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ १२.५७.१४ ॥
借由努力获得了甘露;借由努力杀死了阿修罗。借由努力,伟大的因陀罗在天上与此世都获得了至上地位。
12.57.15
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।
उत्थानवीरान्वाग्वीरा रमयन्त उपासते ॥ १२.५७.१५ ॥
在行动上坚定的人高于在言辞上坚定的人;言辞之雄欣然侍奉行动之雄。
12.57.16
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः ॥ १२.५७.१६ ॥
缺乏行动的君王,即使有智慧,也总是容易受到敌人攻击,如同没有毒液的蛇。
12.57.17
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ १२.५७.१७ ॥
即使敌人弱小,强者也不可轻视;小火也能焚烧,少量毒药也能致死。
12.57.18
एकाङ्गेनापि संभूतः शत्रुर्दुर्गमुपाश्रितः ।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः ॥ १२.५७.१८ ॥
即使由一肢而生的敌人,若依托坚固的城堡,也能烤焦繁荣君王的整个国土。
12.57.19
राज्ञो रहस्यं यद्वाक्यं जयार्थे लोकसंग्रहः ।
हृदि यच्चास्य जिह्नं स्यात्कारणार्थं च यद्भवेत् ॥ १२.५७.१९ ॥
君王的秘密言辞,是为了胜利和聚集民众;他心中若有狡诈,以及为某种原因而有的一切。
12.57.20
यच्चास्य कार्यं वृजिनं मार्दवेनैव धार्यते ।
रञ्जनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥ १२.५७.२० ॥
他那些曲折的行为,也只能以温和来维持;为了使民众喜悦,他应只行最合乎正法的事。
12.57.21
राज्यं हि सुमहत्तत्र दुर्धार्यमकृतात्मभिः ।
न शक्यं मृदुना वोदुमाघातस्थानमुल्वणम् ॥ १२.५७.२१ ॥
王位确实极为重大,对于不能自制的人来说难以承担;温和之人不能忍受那剧烈打击之处。
12.57.22
राज्यं सर्वामिषं नित्यमार्जवेनैव धार्यते ।
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥ १२.५७.२२ ॥
吞噬一切的王权总是依靠正直来维持;因此,般度之子啊,应当始终以混合之道行事。
12.57.23
यद्यप्यस्य विपक्तिः स्याद्रक्षमाणस्य वै प्रजाः ।
सोप्यस्य विपुलो धर्म एवं वृत्ता हि भूमिपाः ॥ १२.५७.२३ ॥
即使他在保护臣民时遭受痛苦,他的法也是广大的;因为君王们正是这样行事的。
12.57.24
एष ते राजधर्माणां लेशः समनुवर्णितः ।
भूयस्ते यत्र संदेहस्तद्ब्रूहि कुरुसत्तम ॥ १२.५७.२४ ॥
这只是为你叙述的君王法的一部分;若你仍有疑惑之处,请说出来,库鲁族中最优秀的人啊。
12.57.25
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च ।
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ॥ १२.५७.२५ ॥
随后,尊贵的毗耶娑、天住、阿输摩、婆苏提婆、克里跋、萨提亚基,以及桑嘉耶也在那里。
12.57.26
साधुसाध्विति संहृष्टा घुष्यमाणैरिवाननैः ।
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥ १२.५७.२६ ॥
他们欢喜地高声说:“善哉,善哉!”仿佛以面容宣告一般,赞叹了人中虎、持法者中最尊贵的毗湿摩。
12.57.27
ततो दीनमना भीष्ममुवाच कुरुनन्दनः ।
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥ १२.५७.२७ ॥
于是心情低落的俱卢之子,含泪凝望,轻轻触碰其足,对毗湿摩说道。
12.57.28
श्व इदानीं स्वसंदेहं प्रवक्ष्यामि पितामह ।
उपैति सविता ह्यस्तं रसमापीय पार्थिवम् ॥ १२.५७.२८ ॥
祖父啊,明日(不,现在)我将陈述自己的疑惑:太阳饮尽大地的精华,正向落山而去。
12.57.29
ततो द्विजातीनभिवाद्य केशवः ।
कृपश्च ते चैव युधिष्ठिरादयः।
प्रदक्षिणीकृत्य महानदीसुतं ।
ततो रथानारुरुहुर्मुदान्विताः ॥ १२.५७.२९ ॥
随后,克舍婆向再生者致礼;克里跋、坚战等人也如此。他们绕行大河之子,欢欣地登上战车。
12.57.30
दृषद्वतीं चाप्यवगाह्य सुव्रताः ।
कृतोदकार्थाः कृतजप्यमङ्गलाः।
उपास्य संध्यां विधिवत्परंतपा ।
स्ततः पुरं ते विविशुर्गजाह्वयम् ॥ १२.५७.३० ॥
他们在德里沙德瓦蒂河中沐浴,持守誓愿,行了水供与吉祥诵咒,依法行晚间礼敬,那些焚灭敌人的人便进入了象城(Gajāhvaya)。