Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.58

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.58.1

ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः ।
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः ॥ १२.५८.१ ॥

随后,他们清晨起身,完成午前的仪式,般度子与耶达瓦族人乘坐如城市般宏大的战车出发。

12.58.2

प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम् ।
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥ १२.५८.२ ॥

他们抵达俱卢之野,走近无瑕的毗湿摩,问候夜间是否安适,然后在车战者中最优秀的恒河之子身旁坐下。

12.58.3

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः ।
निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥ १२.५८.३ ॥

他们向以毗耶娑为首的仙人致敬,受到众人欢迎后,从四面环绕毗湿摩坐下。

12.58.4

ततो राजा महातेजा धर्मपुत्रो युधिष्ठिरः ।
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि ॥ १२.५८.४ ॥

随后,大光辉的法之子国王坚战依礼敬奉毗湿摩,合掌对他说道。

12.58.5

य एष राजन्राजेति शब्दश्चरति भारत ।
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ॥ १२.५८.५ ॥

婆罗多之子啊,祖父啊,这个流传的“王”字,是如何产生的?请告诉我。

12.58.6

तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः ।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः ॥ १२.५८.६ ॥

双手、双臂与颈项相等,智慧与诸根相同,苦乐一致,背部、面部与腹部亦皆相等的人。

12.58.7

तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च ।
नेःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥ १२.५८.७ ॥

在精液、骨骼和骨髓上相同,在肌肉和血液上相同,在吸气和呼气上相同,拥有与生命气息相同的身体。

12.58.8

समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम् ।
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥ १२.५८.८ ॥

一人与众人在生死和一切德性上相同,如何统治智慧超群的人和英雄?

12.58.9

कथमेको महीं कृत्स्नां शूरवीरार्यसंकुलम् ।
रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति ॥ १२.५८.९ ॥

一人如何守护满是勇士与贵人的整个大地,又如何希望获得世间的恩宠?

12.58.10

एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति ।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः ॥ १२.५८.१० ॥

一人的恩惠使整个世界喜悦,一人若烦乱,所有人便都烦乱,这是确定的结论。

12.58.11

एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ ।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ॥ १२.५८.११ ॥

婆罗多族的雄牛啊,我想从你这里听到这些。善言者中最优秀的,请将它的全部真相如实地告诉我。

12.58.12

नैतत्कारणमत्यल्पं भविष्यति विशांपते ।
यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम् ॥ १२.५८.१२ ॥

民之主啊,世界全体如神一般向一人臣服,这其中的原因绝非微小。

12.58.13

नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः ।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥ १२.५८.१३ ॥

人中之虎啊,你要坚定地完整聆听:王权如何在最初的克里塔时代产生。

12.58.14

नैव राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः ।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम् ॥ १२.५८.१४ ॥

那时既无王国也无国王,既无刑罚也无施刑者;所有百姓仅凭法(达摩)彼此守护。

12.58.15

पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत ।
दैन्यं परमुपाजग्मुस्ततस्तान्मोह आविशत् ॥ १२.५८.१५ ॥

婆罗多之子啊,人们虽然凭法彼此守护,却陷入极大的困境;于是迷惑(痴,moha)侵入了他们。

12.58.16

ते मोहवशमापन्ना मनुजा मनुजर्षभ ।
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ॥ १२.५८.१६ ॥

人中之牛啊,那些人陷入迷惑的掌控;由于判断力的迷乱,他们的法(达摩)消亡了。

12.58.17

नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा ।
लोभस्य वशमापन्नाः सर्वे भरतसत्तम ॥ १२.५८.१७ ॥

判断力既已毁坏,受迷惑所役使的人们便都落入贪欲的掌控之中,婆罗多中最优秀者啊。

12.58.18

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः ।
कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो ॥ १२.५८.१८ ॥

那时,当人们试图抓取尚未获得之物,他们之中又产生了另一种名为欲望(欲,kāma)的弊病,主啊。

12.58.19

तांस्तु कामवशं प्राप्तान्रागो नामाभिसंस्पृशत् ।
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर ॥ १२.५८.१९ ॥

名为爱著(rāga)的情欲抓住了那些受欲望支配的人;他们执着其中,已不能分辨应做与不应做之事,坚战。

12.58.20

अगम्यागमनं चैव वाच्यावाच्यं तथैव च ।
भक्ष्याभक्ष्यं चराजेन्द्र दोषादोषं च नात्यजन् ॥ १२.५८.२० ॥

他们不曾舍弃与禁忌之人交合、可说与不可说、可食与不可食,以及有过与无过之分,王中之王啊。

12.58.21

विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह ।
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ॥ १२.५८.२१ ॥

当这人间世界陷入混乱时,梵(吠陀)便消失了;王啊,随着梵的消亡,法也走向了灭亡。

12.58.22

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ।
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥ १२.५८.२२ ॥

梵与法消失之后,诸神感到恐惧;人中之虎啊,他们惊惧地前往梵天寻求庇护。

12.58.23

प्रपद्य भगवन्तं ते देवं लोकपितामहम् ।
ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः ॥ १२.५८.२३ ॥

他们前往那位世尊、世界的祖父神,皆被苦痛的力量所击,合掌说道。

12.58.24

भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम् ।
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥ १२.५८.२४ ॥

世尊啊,居于人间的永恒之梵(吠陀)已被贪欲、迷惑等心念所吞没;因此恐惧已侵入我们之中。

12.58.25

ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्चर ।
ततस्तु समतां याता मर्त्यैस्त्रिभुवनेश्वराः ॥ १२.५८.२५ ॥

梵既毁灭,法亦随之消亡,诸主啊。于是三界之主与凡人等同。

12.58.26

अधोर्भिवर्षास्तु वयं भौमास्तूर्ध्वप्रवर्षिणः ।
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥ १२.५८.२६ ॥

我们是地上之人,向下降雨,向上降雨。其祭礼停止后,我们陷入了疑惑。

12.58.27

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह ।
त्वत्प्रसादात्समुत्थोसौ प्रभावो नो भवत्वयम् ॥ १२.५८.२७ ॥

祖父啊,请思考对我们而言的至善;愿因您的恩典而生起的这股力量归于我们。

12.58.28

तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः ।
श्रेयोऽहं चिन्तयिष्यामिव्येतु वो भीः सुरोत्तमाः ॥ १२.५८.२८ ॥

于是自生的世尊对诸天说:「我将思虑你们的福祉;诸天之最,愿你们的恐惧消散。」

12.58.29

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् ।
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥ १२.५८.२९ ॥

于是他从自身智慧中造出十万章,其中也叙述了法、利与欲。

12.58.30

त्रिवर्ग इति विख्यातो गण एव स्वयंभुवा ।
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥ १२.५८.३० ॥

自生者所立的一组,名为「三事」;第四为解脱,各有其目的与性质。

12.58.31

मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः ।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ १२.५८.३१ ॥

解脱另有一组三者,已如此宣说:善性、激性与暗性;安住、增长与衰减,以及由刑罚所生的三者亦然。

12.58.32

आत्मादेशश्च कालश्चाप्युपायाः कृत्यमेव च ।
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥ १२.५८.३२ ॥

自我指引、时机、方略、职责、助力与因由,此六类被传承为从政治术中所生。

12.58.33

त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ ।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ १२.५८.३३ ॥

三明(吠陀)、论理之学、生计之学与刑罚之学,婆罗多之雄,以及广大的诸学,皆在其中宣示。

12.58.34

अमात्यलिप्सा प्रणिधी राजपुत्रस्य लक्षणम् ।
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥ १२.५८.३४ ॥

求得大臣之心与密探,乃王子之相;间谍有种种方略,而暗探亦有各种不同。

12.58.35

सामभेदः प्रदानं च ततो दण्डश्च पार्थिव ।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥ १२.५८.३५ ॥

和、离间、布施,继而刑罚,国王啊,第五为舍置;此处已全面宣说。

12.58.36

मन्त्रश्च वर्णितः कृत्स्नो मन्त्रभेदार्थ एव च ।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥ १२.५८.३६ ॥

谋略已全部论述,破谋之义亦然;谋之迷乱,以及成就与不成就之果报,皆已宣说。

12.58.37

संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः ।
भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥ १२.५८.३७ ॥

盟约也分为三类:下等、中等与上等。它以畏惧、尊敬与财物之名被完整地论述过。

12.58.38

यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥ १२.५८.३८ ॥

出征的四个时机与三种人生目标的详细阐述都已讲述;与法相合的胜利,以及以财富获得的胜利,也都已讲述。

12.58.39

आसुरश्चैव विजयः कार्त्स्न्येन परिवर्णितः ।
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥ १२.५८.३९ ॥

阿修罗式的胜利也已被完整地描述,而五类之相在此分为三种加以说明。

12.58.40

प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥ १२.५८.४० ॥

明显的刑罚与隐秘的刑罚也已被提及;明显的刑罚有八种,而隐秘的刑罚范围广泛。

12.58.41

रथा नागा हयाश्चैव पादाताश्चैव पाण्डव ।
विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमः।
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु ॥ १२.५८.४१ ॥

战车、象、马与步兵,啊般度之子;徭役之人、船只、间谍与向导,是第八种。啊俱卢之后,军队的这些肢体是显露的。

12.58.42

जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ।
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः ॥ १२.५८.४२ ॥

动物之毒与非动物之毒也有所说明,粉剂合成与毒药等亦被提及;以接触,以及以饮食之物,秘密之法被记载为多种多样。

12.58.43

क्रीडापूर्वे रणे द्यूते विस्रम्भणसमन्वितम् ।
उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः ॥ १२.५८.४३ ॥

在游戏之前、战场之上或赌博之中,在赢得信任的同时所行之欺诈,智者称之为“欺诈”(kaitavya);这是第九种方便。

12.58.44

उपेक्षा सर्वकार्येषु कर्मणां करणेषु च ।
अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया ॥ १२.५८.४४ ॥

在一切事务和行动的执行中疏忽怠慢,当不利之事发生时,由此三善(法、利、欲)便会毁灭。

12.58.45

इन्द्रजालादिका माया वाजीवनकुशीलवैः ।
सुनिमित्तैदुर्निमित्तैरुत्पातैश्च समन्वितम् ॥ १२.५८.४५ ॥

如因陀罗网之类的幻术,由马商、伶人和歌者施行,并伴有吉凶之兆与异象。

12.58.46

डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते ।
शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका ॥ १२.५८.४६ ॥

在敌人一方,假扮外貌以行欺伪;狡诈与无所作为被称为,它们以心念之过而败坏人心。

12.58.47

अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः ।
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह।
आत्मरक्षणमाश्वासः स्पर्शानां चान्ववेक्षणम् ॥ १२.५८.४७ ॥

敌、友、中立者也已被述说;道路的一切德性以及土地的德性;自卫、安抚,以及对间谍的密切观察。

12.58.48

कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥ १२.५८.४८ ॥

士兵、象、车、马的种种编排,各有其名的阵形,以及战争中奇妙的技巧。

12.58.49

उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम् ।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ ॥ १२.५८.४९ ॥

征兆与突袭,善战与巧妙撤退,兵器的保养与知识,同样,婆罗多中的雄牛啊。

12.58.50

बलव्यसनयुक्तं च तथैव बलहर्षणम् ।
पीडा चापदकालश्च भयकालश्च पाण्डव ॥ १२.५८.५० ॥

与军队损失相关,同样也能鼓舞军队,还有痛苦、危难之时与恐惧之时,般度之子啊。

12.58.51

तथाख्यातविधानं च योगः संचार एव च ।
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥ १२.५८.५१ ॥

同样所说的方法与运用,间谍的往来,以及凶悍的盗贼和林居者对敌国的侵扰。

12.58.52

अग्निदैर्गरदैश्चेव प्रतिरूपककारकैः ।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥ १२.५८.५२ ॥

借纵火者与投毒者,借制造赝品者,在行会首领间挑拨离间,并砍伐草木。

12.58.53

दूषणेन च नागानामातङ्कजननेन च ।
आराधनेन भक्तस्य पत्युश्चोपग्रहेण च ॥ १२.५८.५३ ॥

通过败坏象群并使其恐惧,通过笼络仆从,通过控制主人。

12.58.54

सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमीक्षणम् ।
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥ १२.५८.५४ ॥

观察七支王国的衰弱与兴盛,运用使者的能力,以及壮大国家。

12.58.55

अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् ।
अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥ १२.५८.५५ ॥

正确论述的对敌人、中立者与朋友的考察,以及同样地对强者的压制与反击。

12.58.56

व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।
श्रमो व्यायामयोगश्च योगद्रव्यस्य सञ्चयः ॥ १२.५८.५६ ॥

治理之道极为精微;同样,清除荆棘(除去扰乱者)、勤勉、从事锻炼,以及积蓄所得之财。

12.58.57

अभृतानां च भरणं भृतानां चान्ववेक्षणम् ।
अन्तकाले प्रदानं च व्यसने चाप्रसङ्गिता ॥ १२.५८.५७ ॥

供养尚未受任者,细心督察已受任者;服务期满时给予报酬,在灾难中不陷于执着。

12.58.58

तथा राजगुणाश्चैव सेनापतिगुणाश्च ह ।
करणस्य च कर्तुश्च गुणदोषास्तथैव च ॥ १२.५८.५८ ॥

同样,国王之德与将帅之德,以及作为工具的官员与行事之人的优劣。

12.58.59

दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुवर्तिनाम् ।
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥ १२.५८.५९ ॥

奸恶之人的神色与种种行迹,随从的举止;对所有人保持警惕,避免疏忽。

12.58.60

अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् ।
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥ १२.५८.६० ॥

求取未得之物,增益已得之物;同样,依法将增长之财施予有德之人。

12.58.61

विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुकम् ।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम् ॥ १२.५८.६१ ॥

财富的支出有为法、为利、由欲望引起者;第四种在灾难打击中,此处同样有所叙述。

12.58.62

क्रोधजानि ततोग्राणि कामजानि तथैव च ।
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥ १२.५८.६२ ॥

库鲁之最,由忿怒所生的凶恶恶习与由欲望所生的恶习,据说共有十种;此处即是对它们的叙述。

12.58.63

मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।
कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा ॥ १२.५८.६३ ॥

婆罗多族的雄牛啊,狩猎、赌博、饮酒与女色——师长称之为由欲望所生的恶习;此处由自生者(梵天)所宣说。

12.58.64

वाक्पारुष्यं तथोग्रत्व दण्डपारुष्यमेव च ।
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च ॥ १२.५८.६४ ॥

言语粗暴、凶猛、刑罚严酷、不能克制自己、舍弃,以及败坏财富,亦在其中。

12.58.65

यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः ।
अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥ १२.५८.६५ ॥

各种器械及其操作亦有叙述;碾压、反击与摧折旌旗,亦在其中。

12.58.66

चैत्यद्रुमावमर्दश्च रोधः कर्मान्तनाशनम् ।
अपस्करोऽथ वमनं तथोपास्या च वर्णिता ॥ १२.५८.६६ ॥

践踏圣树、围困、毁坏工场、倾倒秽物、呕吐,以及供奉之礼,亦有叙述。

12.58.67

पणवानकशङ्खानां भेरीणां च युधिष्ठिर ।
उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥ १२.५८.६७ ॥

击鼓(paṇava与ānaka)、吹螺与战鼓之声,俱利建,阿颜处; 获取财物,以及敌人的要害——这六者。

12.58.68

लब्धस्य च प्रशमनं सतां चैवाभिपूजनम् ।
विद्वद्भिरेकीभावश्च जपहोमविधिज्ञता ॥ १२.५८.६८ ॥

守护所得,敬重善人,与智者同心,通晓念诵与火祭之仪轨。

12.58.69

मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया ।
आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥ १२.५८.६९ ॥

触摸吉祥之物,照料身体与疗养,安排饮食,以及恒常的信仰(āstikya)——这些亦然。

12.58.70

एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः ।
उत्तमानां समाजानां क्रियाः केतनजास्तथा ॥ १२.५८.७० ॥

一人当如何起身行事、诚实、言语柔和、在尊贵集会中的行止,以及与旗幡相关的仪式——这些亦然。

12.58.71

प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ ।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ १२.५८.७१ ॥

在一切政务部门中进行直接与间接的察访,以及对民生生计的经常细致观察,哦,婆罗多中的虎王。

12.58.72

अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् ।
अनुजीवि स्वजातिभ्यो गुणेभ्यश्च समुद्भवः ॥ १२.५८.७२ ॥

婆罗门免于刑罚,依理施罚,以及由本族的附属之人与德行而兴起的昌盛。

12.58.73

रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम् ।
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ॥ १२.५८.७३ ॥

保护民众与增益国家,以及关注处于同心圆中的诸王——此乃,王啊,十二王之圈。

12.58.74

द्विसप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा ।
देशजातिकुलानां च धर्माः समनुवर्णिताः ॥ १२.५८.७४ ॥

自存者所宣说的七十二种智慧,以及地域、种姓与家族之法,皆已详尽叙述。

12.58.75

धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः ।
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिणः ॥ १२.५८.७५ ॥

此中叙述了法、利、欲与解脱;还有方便、求财之念与种种手段——啊,施予丰厚者。

12.58.76

मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः ।
दूषणं स्रोतसां चैव वर्णितं च स्थिराम्भसाम् ॥ १२.५८.७६ ॥

此中叙述根本之行与其施行,以及幻术的运用;也叙述了流水之污染与静水之污染。

12.58.77

यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः ।
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम् ॥ १२.५८.७७ ॥

凡是能使世人不偏离雅利安之道的种种方法,王中之虎啊,皆已在政治之书中详细叙述。

12.58.78

एतत्कृत्वा सुभं शास्त्रं ततः स भगवान्प्रभुः ।
देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान् ॥ १२.५८.७८ ॥

此吉祥之书既成,彼世尊主宰大喜,对以因陀罗为首的诸天说道。

12.58.79

उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाषिता ॥ १२.५८.७९ ॥

为利益世界、确立三目标,此智慧——萨拉斯瓦蒂的精华——已被宣说。

12.58.80

दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।
निग्रहानुग्रहरता लोकाननुचरिष्यति ॥ १२.५८.८० ॥

与刑罚相结合,此(智慧)将护卫世界;专注于惩戒与恩惠,它将伴随诸世界。

12.58.81

दण्डेन नीयते चेदं दण्डं नयति वा पुनः ।
दण्डनीतिरितिख्याता त्रीँल्लोकानवपत्स्यते ॥ १२.५८.८१ ॥

若此由刑罚引导,或又引导刑罚,则将以“刑罚之道”(daṇḍanīti)闻名,并得三界。

12.58.82

पाङ्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु ।
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥ १२.५८.८२ ॥

六策之德的精华将在大德者中居于首位;其中所说的一切——法、利、欲、解脱——皆已宣明。

12.58.83

ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः ।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥ १२.५८.८३ ॥

于是世尊湿婆(Śaṅkara)首先取用了那一政策——多形、广目、湿婆、不动者、乌玛之主。

12.58.84

अनादिनिधनो देवश्चैतन्यादिसमन्वितः ।
ज्ञानानि च वशे यस्य तारकादीन्यशेषतः ॥ १२.५८.८४ ॥

无始无终之神,具足觉性等德,诸智——星宿之智等——悉皆在其掌控之中。

12.58.85

अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम् ।
तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः ॥ १२.५८.८५ ॥

具备阿尼玛等德性,其主权并非人为。为了使梵天欢喜,梵天之子主宰从额头中升起。

12.58.86

अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः ।
जायमानः पिता पुत्रे पुत्रः पितरि चैव हि ॥ १२.५८.८६ ॥

世界不灭的主宰出生时发出可怕的哭声;父在子中,子在父中。

12.58.87

बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् ।
यस्मिन्हिरण्मयो हंसः शकुनिः समपद्यत ॥ १२.५८.८७ ॥

将智慧赐予世界创造者,由其创造了宇宙卵,其中出现了一只鸟,金色天鹅。

12.58.88

कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः ।
स देवः सर्वभूतानां महादेवः सनातनः।
असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम् ॥ १२.५८.८८ ॥

梵天是一切世界的创造者,世界的祖父——那位神便是一切众生的大天(摩诃提婆),永恒者;他是无数千位楼陀罗不灭的居所。

12.58.89

युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः ।
संचिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम् ॥ १२.५८.८९ ॥

湿婆得知诸时代寿命的衰减,便将梵天所作的大兵器论典加以删略。

12.58.90

वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥ १२.५८.९० ॥

此书名为“吠舍拉刹”,因陀罗获得了它;大苦行者苏婆罗摩尼亚获得了一万章。

12.58.91

मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात् ।
प्रजानां हितमन्विच्छन्संचिक्षेप पुरंदरः ॥ १२.५८.९१ ॥

因陀罗亦从天神摩醯首罗处得此论,为求众生之利,将其简略。

12.58.92

सहस्त्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ।
अध्यायानां सहस्त्रैस्तु त्रिभिरेव बृहस्पतिः।
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते ॥ १२.५८.९२ ॥

亲爱的,被称为《巴呼檀陀迦》的五千章之论,由仪轨主毗诃斯缔以智慧简为三千章,此即所谓《巴尔诃斯帕提亚》。

12.58.93

अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ॥ १२.५८.९३ ॥

迦婆(乌尚那斯)将此论简为一千章而说之;他智慧无量,为瑜伽导师,名声显赫。

12.58.94

एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः ।
संक्षिप्तमायुर्विज्ञाय लोकानां ह्रासि पाण्डव ॥ १२.५८.९४ ॥

如是,为顺应世间,诸大仙将此论简略,知众生寿命日减,般度之子啊。

12.58.95

अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् ।
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्य वै तं समादिश ॥ १२.५८.९५ ॥

于是诸天聚会,对毗湿奴、生主说:请任命一位能在凡人中居于至上者。

12.58.96

ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः ।
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥ १२.५८.९६ ॥

于是世尊天神那罗延,主宰者,思虑之后,生出一位光明、离于激情的心生之子。

12.58.97

विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत ।
न्यासायैवाभवद्वुद्धिः प्रणीता तस्य पाण्डव ॥ १२.५८.९७ ॥

然而,大福之人毗罗阇不愿在世间执掌权力;他的心念唯专于出离,般度之子啊。

12.58.98

कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि मर्त्याधिकोऽभवत् ।
कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत्तपः ॥ १२.५८.९८ ॥

他的儿子是名为毗尔提曼的著名之人,他也成为凡人中最杰出者。他的儿子是迦尔达玛,同样修持了大苦行。

12.58.99

प्रजापतेः कर्दमस्य त्वनङ्गो नाम वीर्यवान् ।
प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः ॥ १२.५८.९९ ॥

造物主迦尔达玛之子名为阿南伽,他勇武有力,是百姓的守护者,为人善良,精通刑罚与政治之道。

12.58.100

अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै ।
प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत् ॥ १२.५८.१०० ॥

阿南伽之子非常强大,精通政治。他接受了大王权,之后却为感官所支配。

12.58.101

प्राप्य नारीं महाभागां रूपिणीं काममोहितः ।
सौभाग्येन च संपन्नां गुणैश्चानुत्तमां सतीम् ॥ १२.५८.१०१ ॥

他被欲望所迷惑,得到了一位极具福分、容貌美丽的女子,她幸运圆满、德行无双,是一位贞洁的女子。

12.58.102

मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः ।
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ॥ १२.५८.१०२ ॥

大王啊,名叫苏尼陀的死神之女,名扬三界,正是她生下了毗那。

12.58.103

तं प्रजासु विधर्माणं रागद्वेषवशानुगम् ।
मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः ॥ १२.५८.१०३ ॥

他在民众中违背法度,受贪爱与憎恨支配,那时梵言者诸仙以经咒净化的吉祥草击打了他。

12.58.104

ममन्थुर्दक्षिणं चोरुमृषयस्तस्य भारत ।
ततोऽस्य विकृतो जज्ञे ह्रस्वकः पुरुषोऽशुचिः ॥ १२.५८.१०४ ॥

婆罗多啊,诸仙搅动他的右股,于是从中生出一个丑陋、矮小、不洁的人。

12.58.105

दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः ।
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥ १२.५८.१०५ ॥

对那个形如烧焦木桩、红眼黑发的人,梵言诸仙这样说道:「坐下!」

12.58.106

तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः ।
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥ १२.५८.१०६ ॥

从他那里生出了居于山林、残暴的尼沙陀人,以及居于毗陀山的成千上万的蛮夷。

12.58.107

भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।
ततः पुरुष उत्पन्नो रुपेणेन्द्र इवापरः ॥ १२.५८.१०७ ॥

于是那些大仙又搅动他的右手,从中生出一人,形貌犹如另一位因陀罗。

12.58.108

कवची बद्धनिस्त्रिंशः सशरः सशरासनः ।
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥ १२.५८.१०८ ॥

他身披铠甲,佩带利剑,持有箭与弓;通晓吠陀及其支分,也精通射箭之学。

12.58.109

तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ।
ततस्तु प्राञ्जलिर्वैन्यो महर्षीस्तानुवाच ह ॥ १२.५८.१०९ ॥

大王啊,一切刑罚之道都归依于那位人中最上者。于是,毗那之子合掌对那些大仙说道。

12.58.110

सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धरर्मार्थदर्शिनी ।
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ॥ १२.५८.११० ॥

我心中生起了极其微妙的智慧,它能看见法与利。我该用它做什么?请如实告诉我。

12.58.111

यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् ।
तदहं वः करिष्यामि नात्र कार्या विचारणा ॥ १२.५८.१११ ॥

你们对我所说的有益之事,我必为你们去做;此事无需再加思量。

12.58.112

तमूचुस्तत्र देवास्ते ते चैव परमर्षयः ।
नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥ १२.५८.११२ ॥

那里的诸天与最上大仙对他说:法之所在,坚固确立之处,你应无所畏惧地去践行。

12.58.113

प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु ।
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः ॥ १२.५८.११३ ॥

舍弃可意与不可意,对一切众生平等,远远地抛弃欲望、愤怒、贪婪与傲慢。

12.58.114

यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः ।
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता ॥ १२.५८.११४ ॥

世间任何人若偏离法,你应以自己的双臂制止他,时时以法为念。

12.58.115

प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा ।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥ १२.५८.११५ ॥

以心、以行、以言受持此誓:"我将在大地上守护梵(吠陀)",并且反复宣说。

12.58.116

यश्चात्र धर्म इत्युक्तो दण्डनीतिव्यपाश्रयः ।
तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥ १२.५८.११६ ॥

此处所说的法,依于刑罚之道(daṇḍanīti),我将无疑地奉行,绝不任由己意。

12.58.117

अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो ।
लोकं च संकरात्कृत्स्नं त्राताऽस्मीति परंतप ॥ १२.५८.११७ ॥

汝当立誓,威严者:"婆罗门不受我之刑罚";又立誓,灭敌者:"我将从混乱(saṅkara)中护持整个世界。"

12.58.118

वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥ १२.५८.११८ ॥

于是,吠那之子(补利图)对以仙人为首的诸神说:"若婆罗门为我之助,便如此吧,诸神中的雄牛啊。"

12.58.119

एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥ १२.५८.११९ ॥

吠那之子说:"便如此吧。"当梵之说者这样对他说时。他的家庭祭司成为了由梵构成的宝藏——室克罗(Śukra)。

12.58.120

मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा ।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥ १२.५८.१२० ॥

婆罗结利耶(Vālakhilya)与娑罗私伐底(Sārasvata)之众成为他的大臣,而尊贵的大仙加尔伽成为他的年历官(占星师)。

12.58.121

आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृषु ।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥ १२.५८.१२१ ॥

自己为第八——这是世人关于他们的至上传说。在他之前,诞生了他的赞诵者:御者(sūta)与摩揭陀人(māgadha)。

12.58.122

तयो प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान् ।
अनूपदेशं सूताय मगधं मागधाय च ॥ १२.५८.१२२ ॥

国王——毗那之子、威严的普利图(Pṛthu)对二人感到满意,将沼泽之地赐给御者(sūta),将摩揭陀赐给摩揭陀人(māgadha)。

12.58.123

समतां वसुधायाश्च स सम्यगुदपादयत् ।
वैषम्यं हि परं भूमेरिति नः परमा श्रुतिः ॥ १२.५८.१२३ ॥

他使大地的平坦得以充分建立。我们的至上传说说,大地的首要特征正是不平。

12.58.124

मन्वन्तरेषु सर्वेषु विषमा जायते मही ।
उज्जहार ततो वैन्यः शिलाजालान्समन्ततः ॥ १२.५८.१२४ ॥

在一切曼凡塔拉中,大地变得不平。于是毗那之子从四面八方搬起了那些岩石堆。

12.58.125

धनुष्कोट्या महाराज तेन शैला विमर्दिताः ।
स विष्णुना च देवेन शक्रेण विबुधैः सह।
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥ १२.५८.१२५ ॥

大王啊,他以弓端摧碎群山。为了护持百姓,他由毗湿奴、天神因陀罗、诸天与仙人,以及梵天为他灌顶受封。

12.58.126

तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव ।
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ॥ १२.५८.१२६ ॥

般度之子啊,大地女神亲自带着珍宝来到他身边。众河之主大海,以及最殊胜的山岳喜马拉雅也来了。

12.58.127

शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर ।
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥ १२.५८.१२७ ॥

因陀罗赐予他不尽的财富,俱卢之子啊;而大须弥山,金山,亲自赐予他黄金。

12.58.128

यक्षराक्षसभर्ता च भगवान्नरवाहनः ।
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ॥ १२.५८.१२८ ॥

yakṣa与rākṣasa之主、世尊那罗婆诃那,赐予他足以支持法、利与欲的财富。

12.58.129

हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा ।
प्रादुर्बभूवुर्वैन्यस्य चिन्तयानस्य पाण्डव ॥ १२.५८.१२९ ॥

般度之子啊,王子毗那(普利图)心中一想,成千上万的马、战车、象与人便显现出来。

12.58.130

न जरा न च दुर्भिक्षं नाधयो व्याधयः कुतः ।
सरीसृपेभ्यः स्तेनेभ्यो न चान्येभ्यः कदाचन।
भयमासीत्ततस्तस्य पृथिवी सस्यमालिनी ॥ १२.५८.१३० ॥

其时无衰老,无饥荒;心病身病从何而来。他从不惧怕爬虫、盗贼或其他任何人;那时大地以庄稼装点。

12.58.131

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ १२.५८.१३१ ॥

他前往大海时,水为之停止,群山让出道路,旗帜也未曾折断。

12.58.132

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च ।
यक्षराक्षसनागानामीप्सितं यस्य यस्य यत् ॥ १२.५८.१३२ ॥

由他,此地被挤出乳汁:得十七种谷物;夜叉、罗刹与龙各自所愿,无不得偿。

12.58.133

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना ।
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥ १२.५८.१३३ ॥

这位大德使此世界以法为至上;他令所有臣民欢喜,因此被称为“王”(rājā)。

12.58.134

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते ।
प्रथिता धर्मतश्चेयं पृथिवी साधुभिः स्मृता ॥ १२.५८.१३४ ॥

因为他保护婆罗门免受伤害,所以被称为刹帝利;而这片大地因法而为善人所传颂、所铭记。

12.58.135

स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः ।
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत ॥ १२.५८.१३५ ॥

永恒的毗湿奴亲自设立了此制。国王啊,婆罗多啊,无人敢违逆你。

12.58.136

ततः स भगवान्विष्णुराविवेश च पार्थिवम् ।
देववन्नरदेवानां नमतीदं जगत्ततः ॥ १२.५८.१३६ ॥

于是那位世尊毗湿奴进入了那位君王;因此此世界如同敬拜诸神一般,向人间之神(诸王)致敬。

12.58.137

दण्डनीत्या च सततं रक्षितारं नरेश्वरम् ।
नाधर्षयेत्तथा कश्चिच्चारनिष्पन्ददर्शनात् ॥ १२.५८.१३७ ॥

以刑罚之治常护之的人主,无人敢侵犯,因为间谍的行迹是可以看见的。

12.58.138

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
आत्मना करणैश्चैव समस्येह महीक्षितः ॥ १२.५८.१३८ ॥

王中之王啊,善行有助于善果;在此,对于大地的统治者而言,自身的行为与所用的手段同样趋向于善。

12.58.139

को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥ १२.५८.१३९ ॥

除了天命与品德,世界处于一人之下的原因是什么?

12.58.140

विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा ।
श्रीः संभूता ततस्तस्मिन्देवी धर्मस्य पाण्डव ॥ १२.५८.१४० ॥

彼时,从毗湿奴的额头生出一朵金莲,而在其中,俱卢族的般度子啊,生出了法之女神吉祥天。

12.58.141

श्रियः सकाशादर्थश्च जातो धर्मस्य पाण्डव ।
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥ १२.५८.१४१ ॥

由吉祥天,般度子啊,法之财富得以产生。法与财富如是;而吉祥天安住于王国之中。

12.58.142

सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् ।
पार्थिवो जायते तात दण्डनीतिविशारदः ॥ १२.५८.१४२ ॥

亲爱的孩子,善业耗尽之时,国王便从天界来到大地,精通刑罚与治理之道。

12.58.143

माहात्म्येन च संयुक्तो वैष्णवेन नरो भुवि ।
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥ १२.५८.१४३ ॥

具足毗湿奴之威德的人在世间;具足智慧的人,便获得威德。

12.58.144

स्थापितं च ततो देवैर्न कश्चिदतिवर्तते ।
तिष्ठत्येकस्य च वशे तं चैवानुविधीयते ॥ १२.५८.१४४ ॥

诸神所立,无人能逾越;它处于一人的掌控之下,人们遵从的正是此人。

12.58.145

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
तुल्यस्यैकस्य येनायं लोको वचसि तिष्ठति ॥ १२.५८.१४५ ॥

王中之王啊,善行必然导向善果;因此这个世界依托于同等之一人的言语而安立。

12.58.146

योऽस्य वै मुखमद्राक्षीत्सोऽस्य सर्वो वशानुगः ।
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥ १२.५८.१४६ ॥

凡见过他面容的人,皆顺从他的意志;他们视他为有福、富足且俊美。

12.58.147

महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ।
नयश्चारश्च विपुलो येन सर्वमिदं ततम् ॥ १२.५८.१४७ ॥

因那刑杖的伟大,治国之策具有明显的特征;行事与侦察广大,由此这一切都被贯通。

12.58.148

आगमश्च पुराणानां महर्षीणां च संभवः ।
तीर्थवंशश्च वंशश्च क्षत्रियाणां युधिष्ठिर ॥ १२.५८.१४८ ॥

啊,坚战,诸往世书的传承、大仙人的起源、圣地的世系以及刹帝利的世系(也在其中叙述)。

12.58.149

सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ।
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तिम् ॥ १२.५८.१४९ ॥

此处亦叙述了四行期的全部规矩、四位祭官的仪轨、四种姓的秩序、四明以及名声。

12.58.150

इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ।
तपो ज्ञानमर्हिसा च सत्यं दानममत्सरः ॥ १२.५८.१५० ॥

叙述了历史传说、副吠陀以及完整的正义;苦行、智慧、不杀生、真实、布施与无嫉妒。

12.58.151

वृद्धोपसेवा दानं च शौचमुत्थानमेव च ।
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ॥ १२.५८.१५१ ॥

侍奉长者、布施、清净、努力,以及对一切众生的慈悲——这些都在此有所记述。

12.58.152

भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ।
तस्मिन्पैतामहे शास्त्रे पाण्डवेय न संशयः ॥ १२.५८.१५२ ॥

凡在大地上言语所及之物,都已托付于那部祖传的论典之中,般度之子啊,此中无疑。

12.58.153

ततो जगति राजेन्द्र सततं शब्दितं बुधैः ।
देवाश्च नरदेवाश्च तुल्या इति विशांपते ॥ १२.५८.१५३ ॥

于是,王中之王啊,世间的智者常常宣告:诸神与人间之王是平等的,民之主啊。

12.58.154

एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु ।
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तते ॥ १२.५८.१५४ ॥

关于诸王的伟大,这一切都已全部告诉你了;婆罗多中最优秀的人啊,此处还有什么未说的呢?