Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.59.1

ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् ।
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥ १२.५९.१ ॥

于是坚战再次向恒河之子、祖父致敬,合掌而立,克制自己,问道:

12.59.2

के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् ।
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः ॥ १२.५९.२ ॥

各种姓的法是什么?四种姓各自的法是什么?四种姓与四行期的法,以及王法,又被认为是什么?

12.59.3

केन वै वर्धते राष्ट्रं राजा केन विवर्धते ।
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥ १२.५९.३ ॥

婆罗多族的雄牛啊,国家因何而兴盛?国王因何而昌隆?百姓与臣仆又因何而繁盛?

12.59.4

कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा ।
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥ १२.५९.४ ॥

国王在财库、军队、城堡、盟友、大臣,以及祭司、家庭祭司和师长之中,应当避开哪一类人?

12.59.5

केषु विश्वसितव्यं स्याद्राज्ञा कस्यांचिदापदि ।
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह ॥ १२.५९.५ ॥

国王在任何危难中应当信任何人?又应当从谁那里坚定地守护自己?祖父啊,请告诉我。

12.59.6

द्वैधीभावे च भृत्यानां शपथः कीदृशो भवेत् ।
अधर्मस्य फलं यच्च शपथस्य विलङ्घने ॥ १२.५९.६ ॥

当仆人的忠诚有所分裂时,他们的誓言应当如何?违背誓言所带来的非法之果又是什么?

12.59.7

सर्वमेतद्यथातत्वं व्यवहारं च तादृशम् ।
समासव्यासयोगेन कथयस्व पितामह ॥ १२.५९.७ ॥

请将这一切如实、并将such行为,以概要与详述两种方式讲述,祖父啊。

12.59.8

नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ १२.५९.८ ॥

敬礼伟大的法;敬礼创造者克里希纳。向婆罗门致敬之后,我将讲述永恒的法。

12.59.9

अक्रोधः सत्यवचनं संविभागश्च सर्वशः ।
प्रजनं स्वेषु दारेषु शौचमद्रोह एव च ॥ १२.५९.९ ॥

不怒、说真话、各方面分享、与自己的妻子生育、清净、不害人。

12.59.10

आर्जवं भृत्यभरणं त एते सार्ववर्णिकाः ।
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥ १२.५९.१० ॥

正直与供养依附者——这些属于所有种姓。但婆罗门的法,我只向你单独讲述。

12.59.11

दममेव महाराज धर्ममाहुः पुरातनम् ।
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥ १२.५९.११ ॥

大王啊,节制被称为古老的法;诵习吠陀与教授吠陀——在其中,业得以完成。

12.59.12

तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि ।
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥ १२.५९.१२ ॥

若有人接近那位专注于自身业务、不行禁止之事、心境寂静并以智慧满足的再生者……

12.59.13

कुर्वीतापत्यसंतानमथो दद्याद्यजेत च ।
संविभज्य च भोक्तव्यं धनं सद्भिरीतीष्यते ॥ १२.५९.१३ ॥

他应当生育子嗣、布施并祭祀;财富应分享之后再享用,善人如此教导。

12.59.14

परिनिष्ठितकार्यस्तु स्वाध्यायेनैव वै द्विजः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १२.५९.१४ ॥

职责已尽的再生者应只专心于自学吟诵;无论是否另行作事,他都被称为仁慈的婆罗门。

12.59.15

क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत ।
दद्याद्राजा न याचेत यजेत न च याजयेत् ॥ १२.५९.१५ ॥

婆罗多之子啊,我也要告诉你刹帝利的法:国王应当布施而不乞求;应当自己祭祀,不应让他人为自己祭祀。

12.59.16

नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।
नित्योद्युक्तो दस्युवदे रणे कुर्यात्पराक्रमम् ॥ १२.५९.१६ ॥

他不应教授,而应学习;应保护臣民;常常准备好,在战斗中像强盗一样显示勇气。

12.59.17

ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः ।
य एवाहवजेतारस्त एषां लोकजित्तमाः ॥ १२.५९.१७ ॥

那些以祭祀供养、精通经典的国王,以及在战斗中获胜的人——他们是这些征服诸界者中最优秀的。

12.59.18

अविक्षतेन देहेन समराद्यो निवर्तते ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ १२.५९.१८ ॥

古代知者并不称赞那位从战场上毫发无损归来的刹帝利的这一行为。

12.59.19

एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः ।
नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात् ॥ १२.५९.१९ ॥

如此说来,刹帝利同族的首要之法便是如此;对他们而言,没有比诛杀盗贼更应做的事了。

12.59.20

दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते ।
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ॥ १२.५९.२० ॥

为王者规定了布施、学习、祭祀与守护国土;因此,欲求法者的国王尤其应当作战。

12.59.21

स्वेषु धर्मेष्ववस्थाप्यः प्रजाः सर्वा महीपतिः ।
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् ॥ १२.५९.२१ ॥

地上之主应使全体臣民各守其本分;并依法使一切事务皆以寂静为归,令其完成。

12.59.22

परिनिष्ठितकार्यस्तु नृपतिः परिपालनात् ।
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥ १२.५९.२२ ॥

以保护臣民而完成其职责的国王,无论他是否另有所为,都称为因陀罗之刹帝利王。

12.59.23

वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् ।
दानमध्ययनं यज्ञः शौचेन धनसंचयः ॥ १२.५९.२३ ॥

吠舍的法也是永恒的,我将告诉你:布施、学习、祭祀,以及以清净之道积聚财富。

12.59.24

पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह ।
विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत् ॥ १२.५९.२४ ॥

吠舍应当勤勉地像父亲照料子女那样护养这里的一切牲畜;他若做其他之事,便是恶业(非法之行)。

12.59.25

रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥ १२.५९.२५ ॥

保护它们,他必定获得大幸福。造主创造了吠舍之后,将牲畜交付给他。

12.59.26

ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ १२.५९.२६ ॥

他又将所有众生交付给婆罗门和国王。现在我要讲述他的职业与生计。

12.59.27

पण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ।
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे ॥ १२.५९.२७ ॥

六头中可取一头母牛,一百头中可取一对;在衰减时取第七份,同样在角上和蹄上取一份。

12.59.28

सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः ॥ १२.५९.२८ ॥

这就是各种种子所产作物的年度报酬。

12.59.29

न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ १२.५९.२९ ॥

吠舍不应有这样的念头:“我不会守护牲畜。”吠舍若有意愿,则决不可由他人以任何方式守护它们。

12.59.30

शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत ।
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥ १२.५९.३० ॥

婆罗多之子啊,我也要告诉你首陀罗的法。造主为各种姓设立首陀罗作为仆役。

12.59.31

तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते ।
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥ १२.५९.३१ ॥

因此,首陀罗被规定服侍各种姓,通过侍奉他们,他便获得巨大的幸福。

12.59.32

शूद्र एतान्परिचरेत्रीन्वर्णाननसूयकः ।
संचयांश्च न कुर्वीत जातु शूद्रः कथंचन ॥ १२.५९.३२ ॥

首陀罗应当无嫉妒地侍奉这三种姓,首陀罗绝不可以任何方式积聚财物。

12.59.33

पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः ।
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥ १२.५९.३३ ॥

若得财物,罪重者应将其置于尊长的掌控之下;或者,经国王许可,有德之人可随意而为。

12.59.34

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥ १२.५९.३४ ॥

我将说明他的生计与维持生活的方式;在各种姓中被称为首陀罗者,必须得到供养。

12.59.35

छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।
यातयामानि देयानि शूद्राय परिचारिणे ॥ १२.५९.३५ ॥

伞、头巾、香根草扇、鞋和扇子——即使已经用旧——都应给予服侍的首陀罗。

12.59.36

अधार्याणि विशीर्णानि वसनानि द्विजातिभिः ।
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत् ॥ १२.५९.३६ ॥

二生族不能再穿的破旧衣物,应只给予首陀罗;这便是他的法财。

12.59.37

यंच कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।
कल्प्यां तेन तु तस्याहुर्वृत्तिं धर्मविदो जनाः ॥ १२.५९.३७ ॥

凡首陀罗怀着侍奉再生族的愿望前来者,知法之人说,应由他们为其提供适当的生计。

12.59.38

देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ ।
शूद्रेण तु न हातव्यो भर्ता कस्यांचिदापदि ॥ १२.५९.३८ ॥

应向无子者奉献祭饼;应扶养老人和弱者;首陀罗在任何灾难中都不应舍弃其赡养者。

12.59.39

अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ।
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हि सः ॥ १२.५९.३९ ॥

即使财富耗尽,也应更加供养赡养者,因为首陀罗没有自己的财产;其财富可被主人夺去。

12.59.40

उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्येव भारत ।
स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ॥ १२.५९.४० ॥

婆罗多啊,三个种姓的祭祀按三明所说;首陀罗中没有娑婆诃、婆沙咄之声,也没有咒语。

12.59.41

तस्माच्छूद्रः पाकयज्ञैयजेताव्रतवान्स्वयम् ।
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ १२.५९.४१ ॥

因此,首陀罗即使未受誓戒,也可自己以熟食祭祀;熟食祭的布施据说是满盛之器。

12.59.42

शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ।
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥ १२.५९.४२ ॥

据我们所闻,名为拜闍婆那的一位首陀罗依照因陀罗-火之仪轨,以娑那一百千为布施。

12.59.43

यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत ॥ १२.५९.४३ ॥

婆罗多之裔啊,因为一切种姓的祭祀都依赖于此。

12.59.44

अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते ।
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत्।
दैवतं हि परं विप्राः स्वेनस्वेन परस्परम् ॥ १२.५९.४४ ॥

在一切祭祀之中,首先规定的是信仰之祭;信仰是伟大的神,也是祭祀者的净化者。婆罗门们啊,信仰是至高的神,各人依其本分,彼此相互。

12.59.45

अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः ।
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ॥ १२.५९.४५ ॥

他们在此以长期的萨特拉祭祀,专注于各种欲望。唯有与婆罗门相融,三种姓之中才有了世系的产生。

12.59.46

देवानामपि ये देवा यद्ब्रूयुस्ते परं हितम् ।
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥ १२.५९.४६ ॥

那些在诸神之中也是神的人所说的,乃是至上的利益。因此,一切祭祀都由各种姓共同举行,而非出于欲望。

12.59.47

ऋग्यजुः सामवित्पूज्यो नित्यं स्याद्देववद्द्विजः ।
अनृग्यजुरसामा च प्राजापत्य उपद्रवः।
यज्ञो मनीषया तात सर्ववर्णेषु भारत ॥ १२.५९.४७ ॥

通晓《梨俱》《夜柔》《娑摩》的再生者,应当永远像神一样受到尊敬。缺少《梨俱》《夜柔》《娑摩》者,是属于生主的障碍。亲爱的,婆罗多之裔啊,一切种姓中的祭祀皆由智慧所主导。

12.59.48

नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः ।
ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥ १२.५९.४८ ॥

对于行祭之人,诸神也不求,他人也不求。因此,在一切种姓中都规定了信仰之祭。

12.59.49

स्वं दैवतं ब्राह्मणः स्वेन नित्यं ।
परान्वर्णानयजन्नैवमासीत्।
अधरो वितानस्त्वथ तत्र सृष्टो ।
न ब्राह्मणस्त्रिषु वर्णेषु राजन् ॥ १२.५९.४९ ॥

婆罗门总是只为自己的神明祭祀,而不为其他种姓。于是产生了低等的祭祀仪式;大王啊,婆罗门并非在三个种姓中被创造出来的。

12.59.50

तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः ।
संसृज्यन्ते तस्य विकार एव।
एकं साम यजुरेकमृगेका ।
विप्रश्वैको निश्चये तेषु सृष्टः ॥ १२.५९.५० ॥

因此,正直的种姓与同族种姓,皆是他的变异而相互结合。一为《娑摩》,一为《夜柔》,一为《梨俱》,一为婆罗门——其中,依确定之理,只创造了一个。

12.59.51

अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः ।
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥ १२.५९.५१ ॥

此处,通晓古事者诵唱名为《祭歌》的伽陀,大王之主啊,讲的是韦迦纳萨与欲行祭祀的诸仙人。

12.59.52

उदितेऽनुदिते वाऽपि श्रद्दधानो जितेन्द्रियः ।
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥ १२.५९.५२ ॥

无论日出与否,有信心且调伏诸根的人依法向火中献祭;实在说,信心才是大因。

12.59.53

यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् ।
बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥ १२.५९.५३ ॥

其中先前有所缺失者,与后来未曾缺失者——这些便是祭祀的种种形式,以及各种业报之果。

12.59.54

तानि यः संप्रजानाति ज्ञाननिश्चयनिश्चितः ।
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥ १२.५९.५४ ॥

能够完全了知这些、坚定于智慧之确信、再生族且具足信心的人,才有资格行祭祀。

12.59.55

स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः ।
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ॥ १२.५९.५५ ॥

即使一个人是小偷,或是罪人,或是作恶最甚者,只要他想举行祭祀,人们仍称他为善人。

12.59.56

ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् ।
सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः ॥ १२.५९.५६ ॥

诸仙人称赞他,这无疑是正确的。定论是:一切种姓无论何时何地都应当举行祭祀。

12.59.57

न हि यज्ञसमं किंचित्रिषु लोकेषु विद्यते ।
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता।
श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया ॥ १२.५९.५७ ॥

三界之中,没有任何东西可与祭祀相比。因此人们说,无嫉妒之人应当祭祀,以信心使自己清净,依自己的能力,随自己的意愿而行。