Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.6.1

एतावदुक्त्वा देवर्षिर्विरराम स नारदः ।
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ॥ १२.६.१ ॥

天仙那罗陀说完这些便停了下来。而王仙坚战被忧愁淹没,陷入沉思。

12.6.2

तं दीनमनसं वीरमधोवदनमातुरम् ।
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥ १२.६.२ ॥

那位英雄心情沮丧、低头苦恼,像大象一样叹息,泪水盈满双眼。

12.6.3

कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना ।
अब्रवीन्मधुराभाषा काले वचनमर्थवत् ॥ १२.६.३ ॥

贡蒂身心被忧愁笼罩,神志被悲伤所伤,她在适当的时候以温柔的言语说出了有意义的话。

12.6.4

युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि ।
जहि शोकं महाप्राज्ञ श्रृणु चेदं वचो मम ॥ १२.६.४ ॥

大臂的坚战啊,你不该为他悲伤。大智者啊,舍弃忧愁,听我这些话吧。

12.6.5

याचितः स मया पूर्वं भ्राता ज्ञापयितुं तव ।
भास्करेण च देवेन पित्रा धर्मभृतां वरः ॥ १२.६.५ ॥

此前我曾请求那位兄弟将此告诉你;而你的父亲,法的守护者中最杰出的天神薄伽罗(太阳),也是如此。

12.6.6

यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता ।
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ॥ १२.६.६ ॥

凡希望朋友兴盛、心怀善意者所应说的话,日神(Divākara)在梦境结束时,就在我面前如此说过。

12.6.7

न चैनमशकद्भानुरहं वा स्नेहकारणैः ।
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया ॥ १२.६.७ ॥

无论太阳还是我,凭着亲情,都未能事先安抚他,或使他与你合为一体。

12.6.8

ततः कालपरीतः स वैरस्योद्धरणे रतः ।
प्रतीपकारी युष्माकमिति चोपेक्षितो मया ॥ १२.६.८ ॥

于是他被时间所困,专心于消除仇怨,成为你们的对手;我因此而忽视了他。

12.6.9

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः ।
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः ॥ १२.६.९ ॥

母亲这样说后,法王(正法之王)心怀正法,双眼被泪水模糊,被忧伤扰乱,说出了这些话。

12.6.10

भवत्या गूढमन्त्रत्वाद्वञ्चिताः स्म तदा भृशम् ॥ १२.६.१० ॥

因你秘密的谋划,那时我们被深深欺骗了。

12.6.11

शशाप च महातेजाः सर्वलोकेषु योषितः ।
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः ॥ १२.६.११ ॥

这位大光明者满怀悲伤,诅咒一切世界的女子:她们不能守住秘密。

12.6.12

स राजा पुत्रपौत्राणां संबन्धिसुहृदां तदा ।
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः ॥ १२.६.१२ ॥

那位国王想起子孙、亲属与朋友,心中不安,神志纷乱。

12.6.13

ततः शोकपरीतात्मा सधूम इव पावकः ।
निर्वेदमगमद्धीमान्राज्ये संतापपीडितः ॥ १२.६.१३ ॥

那时,心被悲伤所笼罩的智慧之王,如同被烟雾笼罩的火焰,在王国中饱受煎熬,陷入了厌离。