摩诃婆罗多 · 章 12.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.61.1
पुनः शिवान्महोदर्कानहिंस्रांल्लोकसंमतान् ।
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ॥ १२.६१.१ ॥
请再次告诉我那些吉祥、果报丰厚、不伤害生灵、为世人所认可的法,那些能带给我这样的人快乐的幸福之道。
12.61.2
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो ।
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम ॥ १२.६१.२ ॥
主啊,婆罗门被规定有四个生活阶段;然而,婆罗多中最优秀的人啊,其余三种姓并不遵循它们。
12.61.3
उक्तानि कर्माणि बहूनि राज ।
न्स्वर्ग्याणि राजन्यपरायणानि।
शास्त्रस्य सर्वस्य विधौ स्मृतानि ।
क्षात्रे हि सर्वं विहितं यथावत् ॥ १२.६१.३ ॥
大王啊,许多通往天界、属于刹帝利的业已被宣说;它们在整部经典的规定中被记载。对于刹帝利而言,一切确实都已如法规定。
12.61.4
क्षात्राणि वैश्यानि च सेवमानः ।
शौद्राणि कर्माणि च ब्राह्मणः सत्।
अस्मिँल्लोके निन्दितो मन्दचेताः ।
परे च लोके निरयं प्रयाति ॥ १२.६१.४ ॥
心智愚钝的婆罗门若修习刹帝利、吠舍乃至首陀罗的职务,此世会受谴责,来世会堕入地狱。
12.61.5
या संज्ञा विहिता लोके दासे शुनि वृके पशौ ।
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव ॥ १२.६१.५ ॥
般度之子啊,对于从事非法行为的婆罗门,应当使用世上为奴隶、狗、狼或牲畜所规定的那个称谓。
12.61.6
षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि ।
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः ॥ १२.६१.६ ॥
对于投身六种职责、安立于四种生活阶段、具备一切法,并由此成为自我调御之人的人而言。
12.61.7
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च ।
निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः ॥ १२.६१.७ ॥
清净、专注苦行、无求于报、慷慨的婆罗门之界,确实被称为不灭的。
12.61.8
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च ।
तादृशं तादृशेनैव सगुणं प्रतिपद्यते ॥ १२.६१.८ ॥
无论谁在何处以何种方式行何种之业,便会得到同样种类、同样品质的果报。
12.61.9
वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च ।
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च ॥ १२.६१.९ ॥
王中之王啊,你应当通过增长、耕作与商贸、养育生命,以及自知的品德来领会此理。
12.61.10
कालसंचोदितः काले कालपर्यायनिश्चितः ।
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ॥ १२.६१.१० ॥
受时间驱使,由时节轮转所决定,他无奈地行下最上、最下与中等之业。
12.61.11
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च ।
स्वकर्मविहितो लोको ह्यक्षरः सर्वतोमुखः ॥ १२.६१.११ ॥
布施有尽,却能带来至上之善;然而依自身之业所定的世界不灭,并面向一切方向。