Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.62.1

ज्याकर्षणं शत्रुनिवर्हणं च ।
कृपिर्वणिज्या पशुपालनं च।
शुश्रूषणं चापि तथाऽर्थहेतो ।
रकार्यमेतत्परमं द्विजस्य ॥ १२.६२.१ ॥

拉弓与杀敌,耕作、经商、牧畜,以及为财富而服务——这是再生者最高的王事。

12.62.2

सेव्यं तु ब्रह्म षट्कर्म गृहस्थेन मनीषिणा ।
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥ १२.६२.२ ॥

智慧的居家者应当修习吠陀与六种职责;对于已完成本分的婆罗门,居住于森林被赞许。

12.62.3

राजप्रेष्यं कृषिधनं जीवनं च वणिज्यया ।
कौटिल्यं कौलटेयं च ब्राह्मणस्य विगर्हितम् ॥ १२.६२.३ ॥

为君王服役、以耕作致富、以经商谋生、狡诈与卑劣行为,对婆罗门都是可耻的。

12.62.4

शूद्रो राजन्भवति ब्रह्मबन्धु ।
र्दुश्चारित्रो यश्च धर्मादपेतः।
वृपलीपतिः पिशुनो नर्तनश्च ।
ग्रामप्रेष्यो यश्च भवेद्विकर्मा ॥ १२.६२.४ ॥

大王啊,名为婆罗门之弟、品行恶劣、背离法道、与首陀罗女子结合者、搬弄是非者、舞者、村中之仆,或行事违逆者,便成为首陀罗。

12.62.5

राजन्नेतान्वर्जयेद्देवकृत्ये ॥ १२.६२.५ ॥

大王啊,这些人应当被排除在神祇的祭祀之外。

12.62.6

निर्मर्यादे वाक्छठे क्रूरवृत्तौ ।
हिंसाकामे त्यक्तवृत्तस्वधर्मो।
हव्यं कव्यं यानि चान्यानि राजन् ।
देयान्यदेयानि भवन्ति तस्मिन् ॥ १२.६२.६ ॥

对于那些不守规矩、言语欺诈、行为残暴、好勇斗狠、抛弃品行与自身法道的人,大王啊,献给神的祭品、献给祖先的供物以及其他应施之物,对他都成了不可施予之物。

12.62.7

तस्माद्धर्मो विहितो ब्राह्मणस्य ।
दमः शौचं चार्जवं चापि राजन्।
तथा विप्रस्याश्रमाः सर्व एव ।
पुरा राजन्ब्रह्मणा संनिसृष्टाः ॥ १२.६२.७ ॥

因此,婆罗门的法被规定为:克制、清净与正直。国王啊,同样,婆罗门的所有生活阶段在往昔都由梵天所制定。

12.62.8

यः स्याद्दान्तः सोमपाश्चार्यशीलः ।
सानुक्रोशः सर्वसहो निराशीः।
ऋजुर्मृदुरनृशंसः क्षमावान् ।
स वै विप्रो नेतरः पापकर्मा ॥ १२.६२.८ ॥

能自制、饮苏摩、行为高尚、富于慈悲、忍受一切、无求报之心、正直、温和、不残忍且能宽恕的人,才是婆罗门,其他作恶之人则不是。

12.62.9

विप्रं वैश्यं राजपुत्रं च राजन् ।
लोकाः सर्वे संश्रिता धर्मकामाः।
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता ।
ञ्जेतुं विष्णुर्नेच्छति पाण्डुपुत्र ॥ १२.६२.९ ॥

国王啊,所有渴求法的世界都依托于婆罗门、吠舍和刹帝利。因此,般度之子啊,毗湿奴不愿征服那些执着于种姓与出生之本分的人。

12.62.10

लोकश्चायं सर्वलोकस्य न स्या ।
च्चातुर्वर्ण्यं वेदवादाश्च न स्युः।
सर्वाश्चेज्याः सर्वलोकक्रियाश्च ।
सद्यः सर्वे चाश्रमाश्चैव न स्युः ॥ १२.६२.१० ॥

此世界对于整个世界将不复存在;四种姓不复存在,吠陀学说也不复存在;一切祭祀与世间之仪轨也不复存在;而且一切生活阶段也将立即不复存在。

12.62.11

यच्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् ।
कर्तुमाश्रमदृष्टांश्च धर्मास्ताञ्शृणु पाण्डव ॥ १२.६२.११ ॥

三种姓中若有人想修习生活阶段,并履行为各阶段所规定的法,那么,般度之子啊,请听这些法。

12.62.12

शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः ।
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ १२.६२.१२ ॥

地上之主啊,对于已完成侍奉、履行职责并尽了传嗣之责的首陀罗,在获得国王许可之后(可以进入修行期)。

12.62.13

अल्पान्तरगतस्यापि देशधर्मगतस्य वा ।
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ॥ १२.६२.१३ ॥

对于已稍行于修行阶段之路,或安住于本地习俗之人,所有修行期都已规定,唯独无求报之修行除外。

12.62.14

भैक्षचर्यां नचैवाहुस्तस्य तद्धर्मवादिनः ।
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥ १२.६२.१४ ॥

诸王之最啊,宣说法理者不为他规定乞食之行;对吠舍及王子也是如此。

12.62.15

कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः ।
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम् ॥ १२.६२.१५ ॥

吠舍已完成职责、年岁已过,并为国王效力,经国王允许后,应当前往修行处寻求庇护。

12.62.16

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ ।
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥ १२.६२.१६ ॥

无垢者啊,依法学习吠陀与王道论典,完成传嗣等仪式,并饮用苏摩之后,(便有资格进入修行期)。

12.62.17

पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर ।
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥ १२.६२.१७ ॥

言辞之最啊,依法护佑一切臣民,并举行拉贾苏耶、马祭等大祭及其他祭祀之后,(便有资格进入修行期)。

12.62.18

आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः ।
संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु ॥ १२.६२.१८ ॥

依法举行祭祀,向婆罗门布施祭礼之资,在战斗中获得胜利——无论大小。

12.62.19

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव ।
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥ १२.६२.१९ ॥

在王国中立起保护臣民的儿子,或另一族系的杰出刹帝利——啊,般度之子,刹帝利中的雄牛!

12.62.20

अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि ।
देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः ॥ १२.६२.२० ॥

依法以施食礼与祖先祭祀供奉祖灵,以祭祀供奉诸神,以吠陀供奉仙人,并且恭敬尽力。

12.62.21

अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम् ।
सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥ १२.६२.२१ ॥

临终之时,若有人想进入另一个生命阶段,啊,国王,他应依次经历各个生命阶段,从而获得圆满成就。

12.62.22

राजर्षित्वेन राजेन्द्र भैक्ष्यचर्याद्यसेवया ।
अपेतगृहधर्मापि चरेज्जीवितकाम्यया ॥ १२.६२.२२ ॥

啊,王中之最,即使身为王族圣人,未曾修习乞食等行,舍弃了居家之法,也可出于求生之念而如此行事。

12.62.23

न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण ।
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥ १२.६२.२३ ॥

啊,布施丰厚者,此并非三者的固定职责;啊,王中之虎,人们说这是为住于四种生命阶段者所设。

12.62.24

बाह्वायत्तं क्षत्रियैर्मानवानां ।
लोकश्रेष्ठं धर्ममासेवमानैः।
सर्वे धर्माः सोपधर्मास्त्रयाणां ।
राज्ञो धर्मं नीतिशास्त्रे शृणोमि ॥ १२.६२.२४ ॥

对于践行那世间最高之法的人——即人间刹帝利所行、依靠臂力的正法——三个种姓的一切法与副法都在其中;我在政治学(nīti-śāstra)中听闻王者之法。

12.62.25

यथा राजन्हस्तिपदे पदानि ।
संलीयन्ते सर्वसत्वोद्भवानि।
एवं धर्मान्राजधर्मेषु सर्वान् ।
सर्वावस्थान्संप्रलीनान्निबोध ॥ १२.६२.२५ ॥

犹如大王,一切生物的足迹都包含在象足的足迹之中,同样,一切状态中的一切法都融入王法之中;你应当理解。

12.62.26

अल्पाश्रयानल्पफलान्वदन्ति ।
धर्मानन्यान्धर्मविदो मनुष्याः।
महाश्रयं बहुकल्याणरूपं ।
क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥ १२.६२.२६ ॥

知法之人说其他之法依托微弱、果报微小;而贤者们称刹帝利之法依托宏大、形态多善,而无他法可比。

12.62.27

सर्वे धर्मा राजधर्मप्रधानाः ।
सर्वे वर्णाः पाल्यमाना भवन्ति।
सर्वस्त्यागो राजधर्मेषु राजं ।
स्त्यागं धर्मं चाहुरग्र्यं पुराणम् ॥ १२.६२.२७ ॥

在王法之中,一切法皆居首位,诸种姓受王护持便得以存续;大王,王法之中有舍弃一切;人们也称舍弃为最上古老之法。

12.62.28

मज्जेत्रयी दण्डनीतौ हतायां ।
सर्वे धर्माः प्रक्षयेयुर्विरुद्धाः।
सर्वे धर्माश्चाश्रमाणां हताः स्युः ।
क्षात्रे नष्टे राजधर्मे पुराणे ॥ १२.६२.२८ ॥

当刑罚之术被毁灭时,三明(吠陀)沉没;诸法相互冲突而灭亡,诸住期之法也皆被毁。刹帝利之法与古老的王法丧失时,便是如此。

12.62.29

सर्वे भोगा राजधर्मेषु दृष्टाः ।
सर्वा दीक्षा राजधर्मेषु चोक्ताः।
सर्वा विद्या राजधर्मेषु युक्ताः ।
सर्वे लोका राजधर्मे प्रविष्टाः ॥ १२.६२.२९ ॥

在王法中可见一切享乐;在王法中宣说一切受戒;在王法中相连一切明术;一切世界皆入于王法之中。

12.62.30

नान्यो लोके विद्यतेऽजातशत्रो ॥ १२.६२.३० ॥

阿阇多设睦啊,世间再无其他(超过王法者)。

12.62.31

सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम ।
भवन्ति जीवलोकाश्च क्षत्रधर्मे प्रतिष्ठिताः ॥ १२.६२.३१ ॥

婆罗多族中最优秀的人啊,这一切行为都属于刹帝利;众生的世界也都建立于刹帝利之法中。

12.62.32

यथा जीवाः प्राकृतैर्वध्यमाना ।
धर्मश्रुतीनामुपपीडनाय।
एवं धर्मा राजधर्मैर्वियुक्ताः ।
संचिन्वन्तो नाद्रियन्ते स्वधर्मम् ॥ १२.६२.३२ ॥

如同众生被普通人所击打,陷入对法教的压迫之中,与王法分离的诸法虽然积聚,却不尊重自己的本分(自法)。