摩诃婆罗多 · 章 12.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.64.1
एवंवीर्यः सर्वधर्मोपपन्नः ।
क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः।
पाल्यो युष्माभिर्लोकपालैरुदारै ।
र्विपर्यये स्यादभवः प्रजानाम्। ॥ १२.६४.१ ॥
具有如此勇力、具备一切法者:刹帝利之法在一切法中最为殊胜。你们这些高贵的世界守护者应当守护它;若遭颠倒,百姓便会毁灭。
12.64.2
भूसस्कारं धर्मसंस्कारयोग्यं ।
दीक्षाचर्यां पालनं च प्रजानाम्।
विद्याद्राज्ञः सर्वभूतानुकम्पा ।
देहत्यागं चाहवे धर्ममग्र्यम् ॥ १२.६४.२ ॥
土地的净化、适合法之净化的誓愿与行为、保护百姓;对君王而言,怜悯一切众生,以及在战场上舍弃身体——应当知道这是最上之法。
12.64.3
त्यागं श्रेष्ठं मुनयो वै वदन्ति ।
सर्वश्रेष्ठं यच्छरीरं त्यजन्ति।
नित्यं व्यक्तं राजधर्मेषु सर्वे ।
प्रत्यक्षं ते भूमिपाला यथैते ॥ १२.६४.३ ॥
诸仙人说,舍弃最为殊胜,甚至舍弃身体。在王法中这总是显而易见的;诸位地上的守护者,这就明明白白地摆在你们面前。
12.64.4
बहुश्रुत्या गुरुशुश्रूषया वा ।
परस्पराः संहननाद्वदन्ति।
नित्यं धर्मं क्षत्रियो ब्रह्मचारी ।
चरेदेको ह्याश्रमं धर्मकामः ॥ १२.६४.४ ॥
他们说,或由于博学,或由于侍奉师长,或由于彼此牢固的结合;刹帝利应当常行法,作为梵行者、求法者,独自修行一个生活阶段。
12.64.5
सामान्यार्थे व्यवहारे प्रवृत्ते ।
प्रियाप्रिये वर्जयन्नैव यत्नात्।
चातुर्वर्ण्यं स्थापनात्पालनाच्च ।
तैस्तैर्योगैर्नियमैरौषधैश्च ॥ १२.६४.५ ॥
当人从事寻常事务时,努力避免喜与厌,通过建立和守护四种姓,借助种种方法、戒律与药剂。
12.64.6
सर्वोद्योगैराश्रमं धर्ममाहुः ।
क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्।
वंस्वं धर्मं येन चरन्ति वर्णा ।
स्तांस्तान्धर्मानन्यथार्थान्वदन्ति ॥ १२.६४.६ ॥
以一切努力,人们称为四行期之法;刹帝利之法最为殊胜,具备一切法。世袭之法即种姓据以行事者;他们为别的目的而宣说这些那些法。
12.64.7
नेर्मर्यादान्नित्यमर्थे निविष्टा ।
नाहुस्तान्वै पशुभूतान्मनुष्यान्।
यथा नीतिं गमयत्यर्थयोगा ।
च्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः ॥ १२.६४.७ ॥
那些始终从事财富之事却不越出界限的人,他们不称之为如兽般的人;正如与财富相连引导人走向正道,故刹帝利之法胜过四行期之法。
12.64.8
त्रैविद्यानां या गतिर्ब्राह्मणानां ।
ये चैवोक्ताः स्वाश्रमा ब्राह्मणानाम्।
एतत्कर्म क्षत्रियस्याहुरग्र्य ।
मन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः ॥ १२.६४.८ ॥
三吠陀的修习者之道,以及为婆罗门所宣说的各自行期——他们说,这是刹帝利最高的行为;行他事者如首陀罗,应以兵器诛之。
12.64.9
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव ।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन ॥ १२.६४.९ ॥
国王啊,四行期的义务与吠陀的教说,唯有婆罗门可以遵循;其他人绝不应当去知晓。
12.64.10
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते ।
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः ॥ १२.६४.१० ॥
对于行为不同的人,那种生计并不被规定;法因业而增长,法如何,它亦如何。
12.64.11
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति ।
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः ॥ १२.६४.११ ॥
安住于禁忌行为的婆罗门不配受尊敬;不行自己本分的人,人们认为他不可信赖。
12.64.12
एते वर्णाः सर्वधर्मैश्च हीना ।
उत्क्रष्टव्याः क्षत्रियैरेव धर्माः।
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये ।
वीर्यश्रेष्ठा राजधर्मा मता मे ॥ १२.६४.१२ ॥
这些种姓皆失去一切法;应由刹帝利舍弃的,只是某些法。因此王法最为殊胜,而非其他;依我看,以勇力为最胜的王法,才被认为是如此。
12.64.13
मान्धातोवाच ।
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः।
शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः ॥ १२.६४.१३ ॥
摩providhātṛ说:耶婆那、鸠罗多、乾陀罗、支那、舍跋罗与蛮族、塞种、驮罗、羯迦、帕拉瓦、安陀罗与摩德罗迦。
12.64.14
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः ।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥ १२.६४.१४ ॥
乌斯特罗、补林陀、阿罗吒、迦支以及一切弥里车;生于婆罗门与刹帝利者、吠舍、首陀罗与众人。
12.64.15
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः ।
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः ॥ १२.६४.१५ ॥
王国中的所有居民如何履行他们的法?像我这样的人又如何能使所有以劫掠为生的人安定下来?
12.64.16
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे ।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥ १२.६४.१६ ॥
摩伽梵啊,我想听这个,请告诉我。诸神之主啊,你已成为我们刹帝利的亲族。
12.64.17
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः ।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥ १२.६४.१७ ॥
所有以劫掠为生的人都应侍奉父母;同样应侍奉师长与导师,以及住在各个修行阶段中的人。
12.64.18
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः ।
देशधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥ १२.६४.१८ ॥
所有以劫掠为生的人也应侍奉国王;国家的法与礼仪也为他们所规定。
12.64.19
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।
दानानि च यथाकालं दातव्यानि द्विजातिषु ॥ १२.६४.१९ ॥
祭祀祖先,修建水井、施水处与歇息之所;并应在适当的时候向再生族布施。
12.64.20
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ।
भरणं पुत्रदाराणां शौचमद्रोह एव च ॥ १२.६४.२० ॥
不杀生、诚实、不发怒、遵守俸禄的赏赐、供养子女与妻室、清净,以及不怀敌意。
12.64.21
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता ।
पाकयज्ञा महार्थाश्च दातव्याः सर्वदस्युभिः ॥ १२.६४.२१ ॥
欲求法者应当为一切祭祀奉上布施(dakṣiṇā)。家祭及大有功德之祭,即便一切盗贼也应当奉行。
12.64.22
एतान्येवंप्रकाराणि विहितानि पुराऽनघ ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥ १२.६४.२२ ॥
无罪者啊,此类之事古时已有规定。国王啊,此乃世间一切众生在此应当履行的职责。
12.64.23
मान्धातोवाच ।
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः।
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च ॥ १२.६४.२३ ॥
在人类世界中,各种姓之中都可见盗贼,他们以不同的标志存在,在四行期中也是如此。
12.64.24
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते ।
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ ॥ १२.६४.२४ ॥
无罪者啊,当刑罚之学被毁、王法被废弃时,众生因国王的恶行而完全迷惑。
12.64.25
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा ।
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वैकृते युगे ॥ १२.६४.२५ ॥
在此败坏之世,将有无数乞士与持相者;四行期之中也将出现混乱与变异。
12.64.26
अशृण्वानाः पुराणानां धर्माणां शतशो नराः ।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ १२.६४.२६ ॥
数以百计之人不闻古法,为欲望与愤怒所驱使,将走上邪途。
12.64.27
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः ।
तदा धर्मो न चलते संभूतः शाश्वतः पुरा ॥ १२.६४.२७ ॥
当大德者以刑罚之道制止恶人时,自古确立的永恒法(达摩)便不会动摇。
12.64.28
सर्वलोकगुरुं चैव राजानं योऽवमन्यते ।
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित् ॥ १२.६४.२८ ॥
凡轻慢作为一切世界导师的国王者,其布施、所作之业与所闻之学,永不结果。
12.64.29
मानुषाणामधिपतिं देवभूतं महाद्युतिम् ।
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम् ॥ १२.६४.२९ ॥
诸天亦极为尊敬那位人主——如神般、大光明、求法的王者。
12.64.30
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् ।
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥ १२.६४.३० ॥
创造一切世界的世尊生主,为了行道与止道之法,愿有刹帝利(王权)。
12.64.31
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् ।
स मे मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः ॥ १२.६४.३१ ॥
若有人以智慧记住已运行之法的轨迹,他便值得我尊敬与礼拜;他也稳固立于刹帝利之道中。
12.64.32
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः ।
जगाम भवनं विष्णुरक्षरं शाश्वतं परम् ॥ १२.६४.३२ ॥
说罢,世尊主毗湿奴被诸风神(摩如特)环绕,前往他那不灭、永恒、至高的住所。
12.64.33
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ ।
कः क्षत्रमतिवर्तेत चेतनावान्बहुश्रुतः ॥ १२.६४.३३ ॥
如此,昔日法已善行确立,无罪者啊,哪位有智慧、博学的人会违背刹帝利之法?
12.64.34
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च ।
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥ १२.६४.३४ ॥
以不义发起的事,以及同样被停止的事,都会中途消亡,如同无眼之人在路上迷失。
12.64.35
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे ।
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥ १२.६४.३५ ॥
如同车轮起初被推动,并安住于其初始,你就如此行事吧,人中虎啊;无罪者啊,我深知你。