Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.67.1

किमाहुर्दैवतं विप्रा राजानं भरतर्षभ ।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥ १२.६७.१ ॥

婆罗多族之牛啊,婆罗门说,作为人之主宰的国王是哪位神明?祖父,请告诉我。

12.67.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥ १२.६७.२ ॥

在这里人们也讲述这个古老的故事,婆罗多啊:瓦苏曼那如何询问布里哈斯帕蒂。

12.67.3

राजा वसुमना नाम कौसल्यो धीमतां वरः ।
महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम् ॥ १२.६७.३ ॥

憍萨罗族的瓦苏曼那王,是智者中最杰出的,他确实向智慧圆满的大仙布里哈斯帕蒂发问。

12.67.4

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम् ।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥ १२.६७.४ ॥

他完成了一切礼节,深知礼仪,站在布里哈斯帕蒂的右侧,依照仪轨行礼。

12.67.5

विधिं पप्रच्छ राजस्य सर्वलोकहिते रतः ।
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम् ॥ १२.६७.५ ॥

他致力于一切世界的福祉,寻求臣民的幸福,向品性正直的布里哈斯帕蒂询问王政的法度。

12.67.6

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा ।
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः
एतन्मे शंस देवर्षे धर्मकामार्थसंशयम् ॥ १२.६७.६ ॥

众生因何而兴盛,又因何而衰败?大智者啊,人们崇拜谁才能获得不灭的幸福?天仙啊,请为我说明这关于法、欲与利的疑问。

12.67.7

एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा ।
राजसत्कारमव्यग्रो राज्यस्य च विवर्धनम्।
दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः ॥ १२.६७.७ ॥

无量威力的考夏利耶如此发问,大智的brihaspati从容地为他讲述尊敬君王与增益国家之道,依据刑罚治理之学(daṇḍanīti)加以阐述。

12.67.8

राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते ।
प्रजा राजभयादेव न खादन्ति परस्परम् ॥ १२.६७.८ ॥

大智者啊,世间法(dharma)的根本见于君王;正因畏惧君王,百姓才不相互吞食。

12.67.9

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।
प्रसादयति धर्मेण प्रसाद्य च विराजते ॥ १२.६७.९ ॥

君王以法(dharma)安抚整个世界——它激动而急切;安抚之后,他便光辉显耀。

12.67.10

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः ।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ १२.६७.१० ॥

国王啊,正如日月不升起之时,众生将沉入深暗的黑暗,彼此不能相见。

12.67.11

यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः ।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥ १२.६७.११ ॥

正如无水之处的鱼,以及无人呼喊可闻之处的鸟,任意游荡,彼此伤害,一次又一次。

12.67.12

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ १२.६७.१२ ॥

彼此搅扰,逾越界限,相互压制,他们不久便将走向毁灭,此事毫无疑问。

12.67.13

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ १२.६७.१३ ॥

同样,若无国王,这些臣民将毁灭,如无牧人的牲畜般沉入盲目的黑暗。

12.67.14

हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् ।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ १२.६७.१४ ॥

若国王不保护,即便强者也会夺取弱者的财物,并杀害反抗者。

12.67.15

ममेदमिति लोकेऽस्मिन्न भवेत्स्वपरिग्रहः ।
न दारा न च पुत्रः स्यान्न धनं न परिग्रहः।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत् ॥ १२.६७.१५ ॥

在这世上将不再有“这是我的”之说;不再有妻子、儿子、财富和所有权。若国王不保护,各处都将陷入彻底的混乱与毁灭。

12.67.16

यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च ।
हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ १२.६७.१६ ॥

若国王不保护,恶人将突然夺走车驾、衣服、饰物和各种宝石。

12.67.17

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १२.६७.१७ ॥

若国王不保护,各式兵器将落在奉行法的人身上,不义便会盛行。

12.67.18

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥ १२.६७.१८ ॥

若国王不保护,人们将连母亲、父亲、长者、老师、客人和上师也加以折磨,甚至加以伤害。

12.67.19

अन्यांश्च क्रोशतो हिंस्युर्लोकोऽयं दस्युवद्भवेत् ।
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥ १२.६७.१९ ॥

他们会伤害呼喊的其他人,这个世界将变得如同盗贼之地。富人将永远遭受杀戮、捆绑和折磨,若国王不加保护,他们甚至找不到任何可称为自己的东西。

12.67.20

अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत् ।
पतेद्बहुविधं राज्यं यदि राजा न पालयेत् ॥ १२.६७.२० ॥

终结会在不当的时候降临,这个世界将落入盗贼之手。若国王不加保护,王国将以多种方式崩溃。

12.67.21

न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः ।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥ १२.६७.२१ ॥

不会有种姓混乱,也不会有耕作与商路;若国王不加保护,三明之法将沉没而不复存在。

12.67.22

न यज्ञाः संप्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः ।
न विवाहाः समाजो वा यदि राजा न पालयेत् ॥ १२.६७.२२ ॥

祭祀不会依规程、以应有的酬金而举行;也不会有婚礼与集会,若国王不加保护。

12.67.23

न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः ।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥ १२.६७.२३ ॥

公牛不再繁衍,乳桶不再搅动;牧人的村落将毁灭,若国王不加保护。

12.67.24

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥ १२.६७.२४ ॥

恐惧、心神惊乱,哀呼“哎呀哎呀”,失去知觉,若国王不加保护,一切将在瞬间毁灭。

12.67.25

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥ १२.६७.२५ ॥

若国王不护持,依仪轨、以丰厚布施举行的经年祭祀便无法无畏地持续。

12.67.26

ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः ।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत् ॥ १२.६७.२६ ॥

若国王不护持,以学问和誓戒洗净自身的苦行婆罗门便不再诵习四吠陀。

12.67.27

न भवेद्धर्मसंसेवी मोहविप्रहतो जनः ।
हर्ता स्वच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥ १२.६७.२७ ॥

若国王不护持,民众便不再奉行法;被迷惑与昏乱所击,放任诸根,便会沦为盗贼。

12.67.28

हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः ।
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥ १२.६७.२८ ॥

若国王不护持,从一手传到另一手的财物都会被偷;所有堤坝都会决裂;为恐惧所苦的众人都会逃散。

12.67.29

अनयाः संप्रवपर्तेरन्भवेद्वै वर्णसङ्करः ।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥ १२.६७.२९ ॥

若国王不护持,不义便会蔓延,必然出现种姓混乱,饥荒也会侵入国土。

12.67.30

विवृत्य हि यथाकामं गृहद्वाराणि शेरते ।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥ १२.६७.३० ॥

受国王护佑的人们,依自己的意愿敞开家门而眠,四方皆无所畏惧。

12.67.31

नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम् ।
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः ॥ १२.६७.३१ ॥

若即使正法之王也不妥善守护大地,谁能忍受辱骂或手上的巧窃呢?

12.67.32

स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः ।
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः ॥ १२.६७.३२ ॥

国王守护之时,佩戴一切饰物的妇女即使无男子陪伴,也能无畏地行于道路。

12.67.33

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् ।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥ १२.६७.३३ ॥

国王守护大地之时,人们唯依正法而行,不相互伤害,彼此施以恩惠。

12.67.34

यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः ।
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः ॥ १२.६७.३४ ॥

国王守护大地之时,三种种姓举行各种大祭,并专心学习知识。

12.67.35

वार्तामूलो ह्ययं लोकस्तया वै धार्यते सदा ।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥ १२.६७.३५ ॥

此世界以生计(婆尔塔)为根本,依靠它而常得维持。国王守护之时,一切都运行得当。

12.67.36

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः ।
महता बलयोगेन तदा लोकः प्रसीदयि ॥ १२.६७.३६ ॥

国王担起最重的责任,以大力与威权承载臣民之时,世界便得以安乐。

12.67.37

यस्याभावेन भूतानामभावः स्यात्समन्ततः ।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत् ॥ १२.६७.३७ ॥

谁能不尊敬他呢?没有他,众生便会四处毁灭;有他,众生便常得兴盛。

12.67.38

तस्य यो वहते भारं सर्वलोकसुखावहम् ।
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत् ॥ १२.६७.३८ ॥

能承担他那为一切世界带来安乐之重任、并安住于君王所珍视之利益中者,便能征服这两个世界。

12.67.39

यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत् ।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत् ॥ १२.६७.३९ ॥

若有人即使在心中也对他思谋恶事,此人无疑在今世受苦,死后也将堕入地狱。

12.67.40

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥ १२.६७.४० ॥

切不可因认为‘他不过是个人’而轻慢君王;这位伟大的神明正以人的形态存在。

12.67.41

कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा ।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः ॥ १२.६७.४१ ॥

始终以五种与时间相连的形态出现者,化为火,也化为太阳、死神、毗沙罗婆那(俱毗罗)与阎摩。

12.67.42

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा ।
मिथ्योपचरितो राजा तदा भवति पावकः ॥ १२.६७.४२ ॥

当君王以其猛烈的光辉焚烧罪人时,若他遭受虚伪的对待,他便化为火。

12.67.43

यदा पश्यति चारेण सर्वभूतानि भूमिपः ।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥ १२.६७.४३ ॥

当君王借助密探观察一切众生,确保他们的安康后再行进时,他便成为太阳。

12.67.44

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् ।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः ॥ १२.६७.४४ ॥

当君王震怒,将数百名不净之人连同其子孙与大臣一并消灭时,他便成为终结者——死神。

12.67.45

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति ।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥ १२.६७.४५ ॥

当君王以严厉的刑罚制服一切不义之人,并施恩于行正法者时,他便成为阎摩。

12.67.46

यदा तु धनधाराभिस्तर्पयत्युपकारिणः ।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणां ॥ १२.६७.४६ ॥

当君王以财富的洪流使有功者满足,并夺取作恶者的各种珍宝时,

12.67.47

श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति ।
तदा वैश्रवणो राजा लोके भवति भूमिपः ॥ १२.६७.४७ ॥

当君王给予某人福运,又从另一人身上夺去时,他便在世间成为如毗沙罗婆那(俱毗罗)般的大地之主。

12.67.48

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा ।
धर्ममाकाङ्क्षता लोके ईश्वरस्यानसूयता ॥ १२.६७.४८ ॥

渴求正法、精明且行事无染的君王,不应陷入诽谤;在世间也不应嫉妒君主。

12.67.49

न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥ १२.६७.४९ ॥

违逆国王的人不能获得幸福,即使他是儿子、兄弟或朋友,即使与自己同样亲近。

12.67.50

कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः ।
न तु राज्ञाऽभिपन्नस्य शेषं क्वचन विद्यते ॥ १२.६७.५० ॥

以风为御者的熊熊烈火不留任何残余;落入国王之手的人,其一切也无处可存。

12.67.51

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् ।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥ १२.६७.५१ ॥

他的一切都应加以守护,并应远远避开。人应当像躲避死亡一样,厌恶夺取国王财富的行为。

12.67.52

वध्येतभिमृशन्सद्यो मृगः कूटमिव स्पृशन् ।
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥ १२.६७.५२ ॥

如同鹿触碰陷阱立即被杀,触碰国王财富者也会立即毁灭。智者应当像守护自己的财物一样守护国王的财富。

12.67.53

महान्तं नरकं घोरमप्रतिष्ठमचेतसः ।
पतन्ति चिररात्राय राजवित्तापहारिणः ॥ १२.६७.५३ ॥

盗窃国王财富的无知之人,将长久地堕入无所依托的巨大可怖地狱。

12.67.54

राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ १२.६७.५४ ॥

被这些称号——王、Bhoja、Virāṭ、Samrāṭ、刹帝利、Bhūpati、Nṛpa——所赞颂的人,谁会不配尊敬他呢?

12.67.55

तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः ।
मेधावी धृतिमान्दक्षः संश्रयेत् महीपतिम् ॥ १२.६७.५५ ॥

因此,欲求兴盛者,应当克制自己、战胜自我、控制感官、聪明、坚定而能干,并依靠国王。

12.67.56

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
धर्मनित्यं स्थितं स्थाने मन्त्रिणं पूजयेन्नृपः ॥ १२.६७.५६ ॥

国王应尊敬那位感恩、有智慧、宽厚、忠诚坚定、控制感官、常住于法、并安守其位的大臣。

12.67.57

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् ।
शूरमक्षुद्रकर्माणं प्रसिद्धं जनमाश्रयेत् ॥ १२.६७.५७ ॥

应当依靠那位忠诚坚定、智慧成熟、通晓法、控制感官、勇敢、行事高尚而有名望的人。

12.67.58

राजा प्रगल्भं पुरुषं करोति ।
राजा भृशं बृंहयते मनुष्यम्।
राजाभिपन्नस्य कुतः सुखानि ।
राजाऽभ्युपेतं सुखिनं करोति ॥ १२.६७.५८ ॥

国王使人勇敢。国王使人大大提升。落入国王控制之下的人,哪里还有幸福?国王使投靠于他的人快乐。

12.67.59

राजा प्रजानां प्रथमं शरीरं ।
प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा ।
देशैर्विहीना न नृपा भवन्ति ॥ १२.६७.५९ ॥

国王是民众的首要之身,民众是国王无与伦比之身。没有国王便没有国土;没有国土便没有国王。

12.67.60

राजा प्रजानां हृदयं गरीयो ।
गतिः प्रतिष्ठा सुखमुत्तमं च।
समाश्रिता लोकमिमं परं च ।
जयन्ति सम्यक्पुरुषा नरेन्द्र ॥ १२.६७.६० ॥

国王是臣民的心脏,最为重要。他是他们的归宿、根基与至高幸福。依靠他的人能够妥善地征服此世与彼世,啊,人主。

12.67.61

नराधिपश्चाप्यनुशिष्य मेदिनीं ।
दमेन सत्येन च सौहृदेन।
महद्भिरिष्ट्वा क्रतुभिर्महायशा ।
स्त्रिविष्टपे स्थानमुपैति शाश्वतम् ॥ १२.६७.६१ ॥

人主也在统治大地,以克制、真实与善意行事,并以大祭祀供奉之后,获得大名,在天界获得永恒之位。

12.67.62

स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः ।
प्रयत्नात्कृतवान्वीरः प्रजापालनमुत्तमम् ॥ १२.६७.६२ ॥

阿耆罗如此告诫之后,英雄、诸王之最的憍舍罗努力履行了保护臣民的最高之责。