摩诃婆罗多 · 章 12.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.68.1
पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः ॥ १२.६८.१ ॥
国王在此之外还特别应尽何种职责?应如何守护国土,又应如何诛杀敌人?
12.68.2
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥ १२.६८.२ ॥
应如何任用密探?应如何赢得各种姓的信任?应如何对待仆人、妻子和儿子,婆罗多之子啊?
12.68.3
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् ।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥ १२.६८.३ ॥
大王啊,请专心听完整的王道之说:国王或国王的自然大臣首先应当做什么。
12.68.4
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ १२.६८.४ ॥
国王应当始终战胜自己,然后才能战胜敌人。自我未被征服的人主,怎能战胜敌人?
12.68.5
एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन् ॥ १२.६८.५ ॥
自我的征服不过如此:约束五类。唯有克制感官的人主,才能够打击敌人。
12.68.6
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन ।
नगरोपवने चैव पुरोद्याने तथैव च ॥ १२.६८.६ ॥
库鲁之喜啊,应在要塞、和约所定之处,以及城外园林与城中花园中设置守卫部队。
12.68.7
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च ।
मध्ये च नरशार्दूल तथा राजनिवेशने ॥ १२.६८.७ ॥
在所有岗位、城中各区,以及城市中央,人中之虎啊,同样也在王宫之中。
12.68.8
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान् ॥ १२.६८.८ ॥
然后他应派遣间谍,伪装成愚笨、盲人或聋人,经过考验、有智慧、能忍受饥渴与疲劳的人。
12.68.9
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥ १२.६८.९ ॥
大王啊,他应谨慎地在大臣、三类友人之中,以及儿子之中派遣间谍。
12.68.10
पुरे जनपदे चैव तथा सामन्तराजसु ।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥ १२.६८.१० ॥
在城市和乡村,以及邻国的君王之中,应当这样安置间谍,使他们彼此互不相识;因为他们正应如此安置。
12.68.11
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।
आपणेषु विहारेषु समवायेषु वीथिषु ॥ १२.६८.११ ॥
婆罗多族之雄牛啊,还应辨认敌人派来的间谍——在市场、游乐之地、集会和街巷之中。
12.68.12
आरामेषु तथोद्याने पण्डितानां समागमे ।
वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥ १२.६८.१२ ॥
在花园和园林中,在博学者的聚会中,在妓院中,在十字路口,在议事厅和旅舍中。
12.68.13
एवं विहन्याच्चारेण परचारं विचक्षणः ।
चारे च विहते सर्वं हतं भवति भारत ॥ १२.६८.१३ ॥
智者应以自己的间谍消灭敌方间谍。间谍网络一旦被毁,一切便都失去了,婆罗多之子啊。
12.68.14
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा ॥ १२.६८.१४ ॥
国王若知自己比对方弱,应与大臣商议,与强者结盟议和。
12.68.15
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः ।
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते ॥ १२.६८.१५ ॥
地之主啊,精通治国之术、博学的刹帝利、吠舍与婆罗门,才是应当担任大臣的人。
12.68.16
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित् ।
पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम्।
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ ॥ १२.६८.१६ ॥
国王应先询问通晓治国之道本质的婆罗门;然后询问精通政策的刹帝利,再同样询问通晓典籍、有益的吠舍与首陀罗。
12.68.17
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै ।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः ॥ १२.६८.१७ ॥
即使自己的弱点尚未显露,或智者急于谋求某一目标时,也应与敌人议和。
12.68.18
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥ १२.६८.१८ ॥
国王应与有德、极富进取心、通晓法道的善人结盟,依法治理并守护国家。
12.68.19
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥ १२.६८.१९ ॥
明智的君王知道自己正在被毁灭时,应当杀掉先前伤害过他的人,以及一切为民众所憎恨的人。
12.68.20
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥ १२.६८.२० ॥
一个既不能施恩、也不能加害,既不易被制服也不易被推翻的国王,这样的人应当被忽视。
12.68.21
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥ १२.६८.२१ ॥
明智的君王应当在对方未察觉、来不及呼救之时立即出兵,攻击那些心有旁骛、疏忽大意而又软弱的敌人。
12.68.22
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी ।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ १२.६८.२२ ॥
勇敢的君王,身体健康、兵力强盛、心情安适,应当下令出征;但须先在出征和都城两方面做好安排。
12.68.23
न च पश्यो भवेदस्य नृपो यश्चातिवीर्यवान् ।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत् ॥ १२.६८.२३ ॥
对于极其强大的君王,不应有缺乏远见的君主与之对立;而那些力量和勇气不足、却一心想拖垮他的人,也应当如此看待。
12.68.24
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः ।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥ १२.६८.२४ ॥
应当以武器、火、毒药和使人昏厥的手段骚扰他的国家,并在大臣所宠爱的人之间挑起关于他的争执。
12.68.25
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ॥ १२.६८.२५ ॥
志在王位的智者应当永远避免战争;布利哈斯帕蒂说,财富应以三种方法获取。
12.68.26
सान्त्वेन तु प्रदानेन भेदेन च नराधिप ।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः ॥ १२.६८.२६ ॥
人主啊,智者应当满足于能以怀柔、赠予和离间所达成的目标。
12.68.27
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन ।
षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥ १२.६८.२७ ॥
库鲁的喜悦啊,智慧无限的君王应从臣民那里取六分之一作为赋税,而且只为保护他们。
12.68.28
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा ।
तन्नाददीत सहसा पौराणां रक्षणाय वै ॥ १२.६८.२८ ॥
对于堕入十种不法之人,无论财富多寡,不可突然没收;这是为了保护城中的百姓。
12.68.29
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने ॥ १२.६८.२९ ॥
如同对待儿子一样,应当看待城中的百姓,这毫无疑问。在审理案件时,不可对他们有所偏袒。
12.68.30
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः ।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम् ॥ १२.६८.३० ॥
君王应任命洞察一切事理的智者来倾听并辅佐;在审理诉讼时,国家始终依赖于他们。
12.68.31
आकरे लवणे शुल्के तरे नागबले तथा ।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥ १२.६८.३१ ॥
国王应在矿场、盐场、关税、渡口及象军中,任命他信任的大臣或忠诚可靠之人。
12.68.32
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते ॥ १२.६८.३२ ॥
常能正确执掌刑杖的国王将获得法。对国王而言,持续而适当的刑罚被称颂为正法。
12.68.33
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।
दानशीलश्च सततं यज्ञशीलश्च भारत ॥ १२.६८.३३ ॥
国王应是通晓吠陀及其支分、有智慧、苦行精深之人。婆罗多啊,他应当始终乐于布施,并热衷祭祀。
12.68.34
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः ॥ १२.६८.३४ ॥
这些德性都应始终稳固地存于国王之中。若废弛裁判与治理,又怎能得到天界,怎能得到名声?
12.68.35
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः ॥ १२.६८.३५ ॥
当国王被更强大的国王欺压时,明智的地上之主应当退守堡垒。
12.68.36
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत् ।
सामभेदान्विरोधार्थं विधानमुपकल्पयेत् ॥ १२.६८.३६ ॥
在谋略中亲近盟友之后,应当筹划计策。为了对抗,应当以怀柔(sāma)与离间(bheda)来筹划计策。
12.68.37
त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत् ।
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥ १२.६८.३७ ॥
将盟友分为三类后,应制定计划。应在道路上安置牧人聚落,并煽动村庄;也应把他们全部派入各分支城镇。
12.68.38
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥ १२.६८.३८ ॥
应将他们派入那些受保护、有城防的地区;并且一再安抚富人和军中要人……
12.68.39
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः ।
असंभवे प्रवेशस्य दाहयेदग्निना भृशम् ॥ १२.६८.३९ ॥
国王自己应夺取庄稼;若无法进入,则应以火彻底烧毁。
12.68.40
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै ॥ १२.६८.४० ॥
对于田中生长的庄稼,应秘密煽动敌人的人;或以自己的军队之力将其全部毁灭。
12.68.41
नदीमार्गेषु च तथा संक्रमानवसादयेत् ।
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत् ॥ १२.६८.४१ ॥
在河道和渡口也应如此行事:应摧毁堤岸,放干一切水;无法放干的,则应将其污染。
12.68.42
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम् ।
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते ॥ १२.६८.४२ ॥
凭借当前与未来的手段,应定居于邻近之地;即使战争时机已到,也应在战斗中还击敌人的打击。
12.68.43
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥ १२.६८.४३ ॥
国王应在城堡四周命人砍除树根;所有小树都可砍去,但应避开圣树(支提树)。
12.68.44
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा ।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम् ॥ १२.६८.४४ ॥
同样,应砍去长大树木的枝条;但即使打落圣树(支提树)的树叶,也必须完全避免。
12.68.45
देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम् ।
पिशाचपन्नगानां च गन्धर्वाप्सरसामपि।
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत् ॥ १२.६८.४५ ॥
支提树是诸神、夜叉、罗刹、蛇类、毕舍遮、龙类、乾闼婆、阿普萨拉斯以及凶猛鬼怪的居所;因此应当避开它们。
12.68.46
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् ।
महेश्वरगणेशेन वाराणस्यां नराधिप ॥ १२.६८.४६ ॥
据闻,人主啊,在婆罗奈城,萨乌陀娑的军队被尼昆跋所毁,尼昆跋借助的是摩醯首罗众神之长伽涅舍。
12.68.47
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा ।
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम् ॥ १२.६८.४७ ॥
此时,他应当妥善建造面向天空开口的堡垒(pragaṇḍī),并将壕沟注满桩木、鳄鱼和鱼类。
12.68.48
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च ।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥ १२.६८.४८ ॥
城中应有狭窄的门以供通风;这些门的防护也应如同正门一样,全面周到。
12.68.49
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥ १२.६८.४९ ॥
他应当始终在城门处设置沉重的器械,架起百杀器,并使之处于自己的掌控之下。
12.68.50
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् ।
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः ॥ १२.६८.५० ॥
还应当让人运来木柴,并让人挖掘水井;已经挖好的井,应由需要水的人加以清理。
12.68.51
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत् ।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा ॥ १२.६८.५१ ॥
以草覆盖的房屋应当涂上泥浆;在吉特拉月,为防火患,应事先清除草料。
12.68.52
नक्तमेव च भक्तानि पाचयेत नराधिपः ।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम् ॥ १२.६८.५२ ॥
君王应只在夜间煮食,白天不得生火,唯有阿格尼霍特拉祭火除外。
12.68.53
यथासंभवशैलानि चैष्टकानि च कारयेत् ।
मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम् ॥ १२.६८.५३ ॥
尽可能地让人制作石块和砖块,也应制作陶器,并且要了解本地的强弱之势。
12.68.54
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः ।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः ॥ १२.६८.५४ ॥
在铁匠作坊中,火应在妥善看守下点燃;也应将火引入屋内,并加以控制。
12.68.55
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च ॥ १२.६८.५५ ॥
若白天某人家中起火,则应给予重罚。为保护城市,应如此发布告示。
12.68.56
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान् ।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः ॥ १२.६८.५६ ॥
最好的人啊,乞丐、戏子、宦官、疯子和说唱艺人应被置于城外,因为那些骗子会成为祸害的根源。
12.68.57
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च ।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥ १२.६८.५७ ॥
在十字路口、圣渡口、议事厅和旅舍中,国王应到处安排外貌真实的密探。
12.68.58
विशालान्राजमार्गांश्च कारयेत नराधिपः ।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥ १२.६८.५८ ॥
人主应修建宽阔的御道,并指示在指定地点设置水亭与市场。
12.68.59
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।
अश्वागारान्गजागारान्बलाधिकरणानि च ॥ १२.६८.५९ ॥
国王应到处设立府库、兵器库、粮仓、马厩、象厩和军务机构。
12.68.60
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च ।
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर ॥ १२.६८.६० ॥
还应修建护城河、城门与狭窄通道,俱卢后裔啊;而这个秘密,युधिष्ठिर啊,任何人都不可窥见。
12.68.61
अर्थसंनिचयं कुर्याद्राजा परबलार्दितः ।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥ १२.६८.६१ ॥
受敌军压迫的国王应当积蓄财物与储备:油、蜜、酥油、谷物以及各种药物。
12.68.62
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् ।
यवसेन्धनदिग्धानां कारयेत च संचयान् ॥ १२.६८.६२ ॥
他还应命人储备炭、吉祥草与茅草、紫荆木及芦苇类之物,并都涂以大麦草料与燃料。
12.68.63
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम् ।
संचयानेवमादीनां कारयेत नराधिपः ॥ १२.६८.६३ ॥
国王应当储备各种兵器——矛、枪、标枪与盾牌——以及类似之物。
12.68.64
औषधानि च सर्वाणि मूलानि च फलानि च ।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषठः ॥ १२.६८.६४ ॥
他应特别聚集各种药物、根茎与果实,以及四类医师。
12.68.65
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा ।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥ १२.६८.६५ ॥
演员、舞者、摔角手与幻术师也应装点这座美好的城市,并以各种方式使人欢喜。
12.68.66
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः ।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥ १२.६८.६६ ॥
凡可能引起猜疑之人——无论是仆人、大臣、城中百姓,甚至是国王——都应置于自己的掌控之下,使其为己效力。
12.68.67
कृते कर्माणि राजा तान्पूजयेद्धनसंचयैः ।
माननेन यथार्हेण सान्त्वेन विविधेन च ॥ १२.६८.६७ ॥
事务完成后,国王应以财富之堆来尊崇他们,以应有的敬意和种种安抚之道。
12.68.68
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम् ॥ १२.६८.६८ ॥
库鲁之喜,若使敌人疲惫或将其杀死,国王便得免于债务,正如经典所示。
12.68.69
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे ।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि ॥ १२.६८.६९ ॥
国王应守护七样事物;请从我这里听清:自身、大臣、库藏、武力(军队)以及盟友。
12.68.70
तथा जनपदाश्चैव पुरं च कुरुनन्दन ।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥ १२.६८.७० ॥
同样,还有地方与城市,库鲁之喜;这由七部分组成的王国必须精心守护。
12.68.71
षाङ्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा ।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम् ॥ १२.६८.७१ ॥
知晓六策、三大目标以及高于三大目标者,人中之虎啊,此人便能享有这片大地。
12.68.72
षाङ्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।
सन्धायासनमित्येव यात्रासन्धानमेव च ॥ १२.६८.७२ ॥
所谓六策者,你要明白,坚战:和约(和)、中立(坐观)、出征(行)与结盟(联合)。
12.68.73
विगृह्यासनमित्येव यात्रां संपरिगृह्य च ।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च ॥ १२.६८.७३ ॥
与敌对峙而按兵不动,发动进军,在他人之间离间,以及寻求敌人的庇护。
12.68.74
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा ॥ १२.६८.७४ ॥
请专心聆听所说的三大目标:衰落、稳固、增长,以及至上的三者。
12.68.75
धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः ।
मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः।
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् ॥ १२.६८.७५ ॥
法、利、欲,是永恒的三大目标。谋略、威权与勇气被称为治理的三种力量,它们比三大目标更为尊贵。
12.68.76
कार्यं च कारणं चैव कर्ता च परिकीर्तितः ।
एतत्परतरं विद्यान्त्रिवर्गादपि भारत।
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः ॥ १२.६८.७६ ॥
行为、原因与行为者也被宣说。婆罗多之后,应知此比三大目标更为殊胜。国王啊,即使万物衰亡,君王的三大目标依然永恒。
12.68.77
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम् ।
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते ॥ १२.६८.७७ ॥
悦性、变性、暗性被记为产生三大目标的根源。彻底脱离它们的人,被称为解脱之人。
12.68.78
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते ।
तेन मोक्षपरश्चैव देवदेवः पितामहः।
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः ॥ १२.६८.७८ ॥
行为的彻底止息被称为解脱。因此,以解脱为志的神中之神祖父,为了满足,教导了对三类目标的守护。
12.68.79
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता ।
धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः ॥ १२.६८.७९ ॥
世间的世俗之路,法、利、欲常驻其中,应当依各自的时节而行。
12.68.80
सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः ।
पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः ॥ १२.६८.८० ॥
人们应当长年累月持续地奉行法,人中之虎啊,一切行为都应以法为根本。
12.68.81
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम् ।
यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः।
अर्थकामविहीनोऽपि चिरं पालयते महीम् ॥ १२.६८.८१ ॥
君王依法长久守护大地。任何正法之王,即使陷入困境,仍是大地之主;即便失去财富与欢乐,他也能长久地护持大地。
12.68.82
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम् ।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥ १२.६८.८२ ॥
关于此事,安吉罗斯亲自吟唱了两首颂。亚达维之子啊,愿你安好;那两首你也应当听取。
12.68.83
कृत्वा कार्याणि धर्मेण सम्यक्संपाल्य मेदिनीम् ।
पालयित्वा तथा पौरान्परत्र सुखमेधते ॥ १२.६८.८३ ॥
依法履行职责,善护大地,也善护百姓,便在来世享受安乐而兴盛。
12.68.84
किं तस्य तपसा राज्ञः किंच तस्याध्वरैः कृतैः ।
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः ॥ १२.६८.८४ ॥
若君王善护臣民,自身行持一切法,又何必苦修,何须祭祀?
12.68.85
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर ।
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते ॥ १२.६८.८५ ॥
般度之子坚战啊,请听乌莎那所唱的那些颂句。它们是刑罚之学与三界目标的根本,大地之主啊。
12.68.86
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम् ।
विषं माया च दैवं च पौरुषं चात्मसिद्धये ॥ १२.६८.८६ ॥
由婆利古与安吉罗所传的十六支之策,以及力量、毒药、诡计、天命与人力——皆为成就自身之目的。
12.68.87
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः ।
त्रिवर्गत्रयसंपूर्णमुपादाय तमुद्वहेत् ॥ १२.६८.८७ ॥
国王若到达向东北倾斜的堡垒,应当取得它——充满三重目标的三部分——并加以守护。
12.68.88
षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः ।
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते ॥ १२.६८.८८ ॥
若国王战胜六与五、十与八,具备十种三重目标,即使诸天亦不能战胜他。
12.68.89
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च ।
दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः।
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्भुखी ॥ १२.६८.८९ ॥
国王不应采纳女人和愚人的意见。对于心智为天命所夺、且远离吠陀的人,国王不应听从;他们的心智是背离的。
12.68.90
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत् ॥ १२.६८.९० ॥
由女人主导的国家,被智者遗弃,并被愚蠢大臣的烈火焚烧,便如水滴一般干涸。
12.68.91
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु ।
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः ॥ १२.६८.९१ ॥
国王应当听从那些有名望、在一切事务中可信赖、其明智之举已在实践中得到检验的学者的意见。
12.68.92
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः ।
दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत् ॥ १२.६८.९२ ॥
依靠命运、人力与三种人生目标,向诸神和婆罗门致敬,便当成为胜利者。