摩诃婆罗多 · 章 12.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.7.1
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः ।
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् ॥ १२.७.१ ॥
正法之魂的坚战心神因悲痛而混乱,为痛苦所煎熬,追念大车将卡尔纳而哀叹。
12.7.2
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः ।
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ॥ १२.७.२ ॥
被痛苦与悲伤所笼罩,一再叹息,因悲痛而消瘦,他看着阿周那,说出了这番话。
12.7.3
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम् ।
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥ १२.७.३ ॥
若我们在婆利什尼与安达卡之城乞食度日,岂不是使亲族失去男丁,从而陷入这般困境吗?
12.7.4
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल ।
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥ १२.७.४ ॥
我们的敌人俱卢族已享有兴盛之利,达成了目的。我们若亲手自杀,又能得到什么法的果报呢?
12.7.5
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ।
धिगस्तु चार्थं येनेमामापदं गमिता वयम् ॥ १२.७.५ ॥
羞辱刹帝利的行为!羞辱天生的力量!也羞辱那财富,因它我们陷入了这般灾难!
12.7.6
साधु क्षमा दमः शौचमविरोधो विमत्सरः ।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥ १२.७.६ ॥
忍耐、克制、清净、不对抗、无嫉妒、不杀生与说真话——这些是林居者的常行之法,它们是善的。
12.7.7
वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः ।
इमामवस्थां संप्राप्ता राज्यक्लेशबुभुक्षया ॥ १२.७.७ ॥
我们因贪婪与迷惑,依附虚伪与傲慢,出于想要承受王权苦难的欲望,才落到了这般境地。
12.7.8
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् ।
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥ १२.७.८ ॥
即便拥有三界的王权,也无法使我们高兴,因为我们见到了亲族在大地上被杀,而我们曾是追逐猎物的人。
12.7.9
ते वयं पृथिवीहेतोरवध्यान्पृथिवीतले ।
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः ॥ १२.७.९ ॥
为了大地,我们在大地上杀害了不该被杀的人;如今将他们全然舍弃,我们失去意义地活着,亲族已被杀尽。
12.7.10
आमिषे गृध्यमानानामशुभं वै शुनामिव ।
आमिषं चैव नो नष्टमामिषस्य च भोजिनाम् ॥ १२.७.१० ॥
我们像贪求腐肉的不祥之犬一般;自身的血肉也丧失了,我们竟成了食肉之徒。
12.7.11
न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।
न गजाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥ १२.७.११ ॥
即使以整个大地、成堆的黄金,或全部象马,也无法换回这些在此被杀的人。
12.7.12
काममन्युपरीतास्ते क्रोधामर्षसमन्विताः ।
मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥ १२.७.१२ ॥
他们被欲望与愤怒所笼罩,充满怒火与怨恨,登上死亡之车,前往毗婆娑(阎摩)之处。
12.7.13
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥ १२.७.१३ ॥
父亲们渴望儿子获得大福,便以苦行、梵行、礼敬和忍耐而努力。
12.7.14
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः ।
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥ १२.७.१४ ॥
母亲们以斋戒、祭祀、誓愿和吉祥仪式获得受孕,并怀胎十月。
12.7.15
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि ।
संभाघिता जातबला विदध्युर्यदि नः सुखम्।
इह चामुत्र चैवेति कृपणाः फलहेतवः ॥ १२.७.१५ ॥
若他们平安出生、存活、受到养育而变得强壮,并在今世与来世给我们带来快乐——怀着这样想法的可怜人追求果报。
12.7.16
तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः ।
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ॥ १२.७.१६ ॥
当她们那些佩戴光亮耳环的年轻儿子被杀时,她们所有的努力便成了徒劳而无果。
12.7.17
अभुक्त्वा पार्थिवान्भोगानृणान्यनपहाय च ।
पितृभ्यो देवताभ्यश्च गता वैयस्वतक्षयम् ॥ १२.७.१७ ॥
他们未享受王家的欢乐,也未偿还对祖先与诸神的债务,便前往毗婆娑多(阎摩)之境。
12.7.18
यदैषामम्ब पितरौ जातकर्मकराविह ।
संजातबालरूपेषु तदैव निहता नृषाः ॥ १२.७.१८ ॥
母亲啊,正当他们的父母在此举行生育之礼,而他们以孩童之身成长之时,这些王子便被杀害了。
12.7.19
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः ।
न ते जयफलं किंचिद्भोक्तारो जातु कर्हिचित् ॥ १२.७.१९ ॥
他们被欲望与愤怒束缚,充满怒火与怨恨,从未享受过胜利的任何果实。
12.7.20
पाञ्चालानां कुरूणां च हता एव हि ये हताः ।
न सकामा वयं ते च न चास्माभिर्न तैर्जितम् ॥ १२.७.२० ॥
在般遮罗与俱卢之中被杀者,确实已被杀死。我们与他们的愿望都未能实现;胜利既不是我们赢得的,也不是他们赢得的。
12.7.21
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ।
नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम्।
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥ १२.७.२१ ॥
这片大地未被他们享受,女子与歌乐也未被他们享用;大臣与朋友的劝告未被听从,学者的教诲也未被听闻。既无极其珍贵的宝石,也无土地,更无财富到来。
12.7.22
न च धर्म्यानिमाँल्लोकान्प्रपद्याम स्वकर्मभिः ।
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः।
धृतराष्ट्रस्य पुत्रेण निकृतिप्रीतिसंयुताः ॥ १२.७.२२ ॥
凭着我们自己的行为,我们未能得到这些正法之界。我们被视为毁灭此世界的根源,与持国之子交织着欺诈与依恋。
12.7.23
सदैव निकृतिप्रज्ञो द्वेष्टा विद्वेषजीवनः ।
मिथ्यावृत्तश्च सततमस्मास्वनपराधिषु ॥ १२.७.२३ ॥
他总是心怀欺诈,怀有憎恨,靠敌意而活,行事虚伪,对我们这些无过之人一直如此。
12.7.24
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः ।
धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः ॥ १२.७.२४ ॥
看到我们身上的那份兴盛,哈里面色苍白、身形消瘦;而国王持国则由苏跋罗(沙恭尼)向他报告了此事。
12.7.25
तं पिता पुत्रगृध्नुत्वादनुमेनेऽनये स्थितम् ।
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ॥ १२.७.२५ ॥
父亲因贪恋诸子,认可了那站在非法之中的人,也不顾父亲、甘伽之子(毗湿摩)以及毗杜罗。
12.7.26
असंशयं त्वयं राजा यथैवाहं तथा गतः ।
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् ॥ १२.७.२६ ॥
毫无疑问,这位国王也和我一样走到了这一步,因为他没有约束那个不净、贪婪、受欲望支配而行的儿子。
12.7.27
यशसः पतितो दीप्ताद्धातयित्वा सहोदरान् ।
इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः।
अस्मत्प्रद्वेषसंतप्तः पापबुद्धिः सदैव ह ॥ १२.७.२७ ॥
他失去了名望与光辉,又使兄弟们遭杀害,那心怀恶念的苏约陀那,把这两位老人投入了忧愁之火;他因对我们的憎恨而时时受煎熬。
12.7.28
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने ।
यथाऽसाववदद्वाक्यं युयुत्सुः कृष्णसन्निधौ ॥ १२.७.२८ ॥
哪位出身高贵的亲族会像在克利须那面前的优尤特苏那样对朋友说这样的话呢?
12.7.29
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः ।
प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा ॥ १२.७.२९ ॥
我们因自身的过失而毁灭了无尽的岁月,犹如以光辉燃烧四方的璀璨之物。
12.7.30
सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः ।
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ॥ १२.७.३० ॥
那个与我们为敌、心智昏乱的人已经失去了一切约束;正因为难敌,我们这个家族才被摧毁。
12.7.31
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यतां ॥ १२.७.३१ ॥
杀害了不应被杀之人,我们在世间成为了被谴责的对象。
12.7.32
कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम् ।
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ॥ १२.७.३२ ॥
Dhṛtarāṣṭra 立这毁灭本族、心术不正的罪人为王与国主,如今却在悲叹。
12.7.33
हताः शूराः कृतं पापं विषयोऽसौ विनाशितः ।
हत्वा नो विगतो मन्युः शोको मां दारयत्ययम् ॥ १२.७.३३ ॥
英雄们被杀,罪孽已经造成,那个国家已被毁灭。杀了他们,我们的愤怒已经消退,然而这悲痛撕裂着我。
12.7.34
धनञ्जय कृतं पापं कल्याणेनोपहन्यते ।
ख्यापनेनानुतापेन दानेन तपसाऽपि वा।
निवृत्त्या तीर्थगमनाच्छुतिस्मृतिजपेन वा ॥ १२.७.३४ ॥
德那阳遮啊,所造之罪可以由善行消除:通过忏悔、悔恨、布施、苦行、弃离、朝拜圣地,或诵习天启与传承经典。
12.7.35
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ।
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यतः।
प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा ॥ १२.७.३५ ॥
舍离者不能再造罪,天启如是说;舍离者不再经历生死,天启亦如是说。那时,得到正道而心意坚定的人,便证得梵。
12.7.36
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः ।
वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप ॥ १२.७.३६ ॥
德那阳遮啊,我将成为那超越二元、具足智慧的圣人,焚敌者啊,向你们诸位告别之后,我将进入森林。
12.7.37
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः ।
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥ १२.७.३७ ॥
天启说,执着于财物者不可能获得圆满的法。敌人的摧毁者啊,这对我来说是显而易见的。
12.7.38
मया निसृष्टं पापं हि परिग्रहमभीप्सता ।
जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः ॥ १२.७.३८ ॥
我曾贪求财物,因而舍弃了这罪业,它是生死的根源。天启说,这是可以获得的。
12.7.39
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं सुखानि च ।
गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित्।
प्रशासध्वमिमामुर्वी क्षेमां निहतकण्टकाम् ।
न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन ॥ १२.७.३९ ॥
舍弃财物、全部王国与欢乐,我将解脱而去,无忧无执,不知何往。你们治理这片安宁、荆棘已除的大地吧。库鲁之喜啊,我对王国和享乐毫无所求。
12.7.40
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः ।
उपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ॥ १२.७.४० ॥
说完这些话,库鲁王坚战便沉默了;随后,年幼的般度之子答道。