Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.70.1

केन वृत्तेन वृत्तज्ञः वर्तमानो महीपतिः ।
सुखेनार्थान् सुखोदर्कानिह च प्रेत्य चाश्नुते ॥ १२.७०.१ ॥

知晓善行的君王以何种行为生活,便能轻易地获得此世与身后皆有乐报的利益?

12.70.2

इत्थं गुणानां षट्त्रिंशी षट्त्रिंशद्गुणसंयुता ।
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥ १२.७०.२ ॥

如此,这是三十六种德性的列表,其本身具备三十六种德性。具备这些德性并加以践行者,应当获得利益。

12.70.3

चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः ।
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥ १२.७०.३ ॥

应当不苛刻地行法;不舍弃恩爱,并保持信仰。以仁慈追求财富,以不傲慢追求欲乐。

12.70.4

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ १२.७०.४ ॥

应当说好话而不吝啬;应当勇敢而不夸耀。应当乐施,但不向不配之人施舍;应当干练,但不残酷。

12.70.5

संदधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः ।
नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया ॥ १२.७०.५ ॥

不与卑劣之人结盟,不与敌人争斗;不通过不可信之人派遣间谍;事情即使要做,也不应造成伤害。

12.70.6

अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ १२.७०.६ ॥

不在恶人面前说出自己的目的,也不夸耀自己的德行;只从善人那里接受,不依附不善之人。

12.70.7

नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ १२.७०.७ ॥

未经审察,不可施加刑罚,也不可泄露秘密谋略。不可放纵贪婪之人,也不可信任作恶之人。

12.70.8

अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।
स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥ १२.७०.८ ॥

君王应无嫉妒,守护自己的妻子,清净而不残忍。不可过度亲近女人,不可吃美味却有害的食物。

12.70.9

अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया ।
अर्चेद्देवानदम्भेन श्रियमिच्छेदकृत्सिताम् ॥ १२.७०.९ ॥

不傲慢,敬重尊者与长辈,无欺诈地侍奉他们。不自大地礼敬诸神,并追求无可非议的富足。

12.70.10

सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् ।
सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत् ॥ १२.७०.१० ॥

应舍弃私情而侍奉;要精明,却不可不知时机。不可为求解脱而安慰,施恩时也不可责备。

12.70.11

प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ।
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ १२.७०.११ ॥

不可不察而出击;杀死敌人后,不可使人悲痛。不可突然发怒,也不可对作恶者心软。

12.70.12

एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि ।
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥ १२.७०.१२ ॥

若你在此世求得福祉,便应身居王位而如此行事。若反其道而行,君王将遭遇极大的恐惧。

12.70.13

इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते ।
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ १२.७०.१३ ॥

如此所说的一切德行,若有人遵循,在此享受福报,死后便在天界受到尊崇。

12.70.14

इदं वचः शान्तनवस्य शुश्रुवा ।
न्युधिष्ठिरः पार्थिवमुख्यसंवृतः।
तदा ववन्दे च पितामहं नृपो ।
यथोक्तमेतच्च चकार बुद्धिमान् ॥ १२.७०.१४ ॥

般度之子坚战闻听山度之子此言,身边环绕着诸位尊贵的国王,便向祖父顶礼;这位智慧的君王照所说的去做了。