Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.71.1

कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते ।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥ १२.७१.१ ॥

国王在保护臣民时,如何不被心的羁绊所缚,也不违背法?祖父,请告诉我。

12.71.2

समासेनैव ते राजन्धर्मान्वक्ष्यामि शाश्वतान् ।
विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात् ॥ १२.७१.२ ॥

国王啊,我只简要地向你讲述永恒的法,因为即使详细阐述,也无人能穷尽诸法。

12.71.3

धर्मनिष्ठाञ्श्रुतवतो देवव्रतसमाहितान् ।
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥ १२.७१.३ ॥

你应当尊敬那些坚守法、博学、专心于提婆跋罗多、具有德行的婆罗门,并让他们住在你的家中。

12.71.4

प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥ १२.७१.४ ॥

起身迎接他们,走近,握住他们的双足并向他们行礼,然后你应与你的祭司一同完成所有事务。

12.71.5

धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥ १२.७१.५ ॥

完成宗教职责、举行吉祥仪式之后,你应让婆罗门诵念为事业成就与胜利而祝福的祝词。

12.71.6

आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत ।
धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥ १२.७१.६ ॥

婆罗多之子啊,具备正直、坚忍与智慧的人,应当持守法与利,而摒弃欲望与愤怒。

12.71.7

कामक्रोधौ पुरस्कृत्य योऽर्थं राजाऽनुतिष्ठति ।
न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः ॥ १२.७१.७ ॥

若王以欲与怒为先而追求财利,此愚人既不得法,也不得财。

12.71.8

मा स्म लुब्धांश्च मूर्खांश्च कामार्थे च प्रयूयुजः ।
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥ १२.७१.८ ॥

勿以贪婪愚昧之人任欲与财之事;当以不贪而有智之人任诸般职事。

12.71.9

मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः ।
प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः ॥ १२.७१.९ ॥

愚人若被任于财务之事,于职事不通,充满欲与怒,便以不当之法困扰百姓。

12.71.10

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् ।
शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम् ॥ १२.७१.१० ॥

当以六一之税、关税、罚没有罪者之财,以及依典章所定之俸禄,求取财利之入。

12.71.11

दापयित्वा करं धर्म्यं राष्ट्रं नीत्या यथाविधि ।
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः ॥ १२.७१.११ ॥

既依法以智从国中征取正当之税,王当不懈,如此安排所得与所守。

12.71.12

गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥ १२.७१.१२ ॥

民众依恋一位护持而施与、恒守法、不懈且离欲恶之王。

12.71.13

तस्माद्धर्मेण लाभेन लिप्सेथास्त्वं धनागमम् ।
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत् ॥ १२.७१.१३ ॥

因此你应当以合法的收益来求取财富。对于不专心于经典的人而言,法与利都是不稳固的。

12.71.14

अपशास्त्रधनो राजा संचयं नाधिगच्छति ।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ १२.७१.१४ ॥

财富依违背经典之法而获得的国王,无法积聚财富。而他的那些财富若用于不当之处,便会全部毁灭。

12.71.15

अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः ।
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥ १२.७१.१५ ॥

即使以财富为根本,他仍会为自己招致暴力,因为他出于迷惑,以经典所不认可的赋税压迫臣民。

12.71.16

ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्पयः ।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥ १२.७१.१६ ॥

想要牛奶的人若割断母牛的乳房,便得不到牛奶。同样,被不当手段压榨的国家也不会繁荣。

12.71.17

यवसोदकमादाय सान्त्वेन विनयेन च ।
यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥ १२.७१.१७ ॥

若以草料和水供养,并以温和谦恭对待奶牛的人,总能得到牛奶。同样,以正当手段享用国土的人,便会得到其果实。

12.71.18

अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् ।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥ १२.७१.१८ ॥

再者,尤地施提罗啊,以正当手段享用并善加守护的国家,总会带来无与伦比的府库增长。

12.71.19

दोग्ध्री धान्यं हिरण्यं च मही राजा सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ १२.७१.१९ ॥

由善于守护的君王统治的大地,是产出谷物与黄金的母牛;如同母亲总以乳汁养育自己的孩子和别人的孩子,大地也总是满足的。

12.71.20

मालाकारोपमो राजन्भव माऽऽङ्गारिकोपमः ।
तथायुक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पालयन् ॥ १२.७१.२० ॥

国王啊,要像编花环的人,不要像烧炭的人;这样勤于治理、守护,你便能长久地享有王国。

12.71.21

परचक्राभियानेन यदि ते स्याद्धनक्षयः ।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥ १२.७१.२१ ॥

若因敌军进犯而使你的财富受损,那就只以怀柔之道去索取非婆罗门手中的财富。

12.71.22

मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः ।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥ १२.७१.२२ ॥

见到婆罗门处于富足之中,你的心不要动摇;即使在最困窘的境地也不应如此,更何况,婆罗多啊,对于富有的人呢。

12.71.23

धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः ।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥ १२.७१.२३ ॥

你应当依照你的能力和他们的应得之分给予他们财富;安抚并守护他们,你将获得不可征服的天界。

12.71.24

एवं धर्म्येण वृत्तेन प्रजास्त्वं परिपालय ।
स्वर्ग्यं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन ॥ १२.७१.२४ ॥

如此以正法的行为守护你的臣民;库鲁之喜,你将永远获得天界的、有功德的荣誉。

12.71.25

धर्मेण व्यवहारेण प्रजाः पालय पाण्डव ।
युधिष्ठिर यथायुक्तो नाधिबन्धेन योक्ष्यसे ॥ १२.७१.२५ ॥

以法与正直之道护佑你的臣民,般度之子坚战。行事应当得宜,不要以强制的枷锁束缚他们。

12.71.26

एष एव परो धर्मो यद्राजा रक्षति प्रजाः ।
भूतानां हि यदा धर्मो रक्षणं परमा दया ॥ १२.७१.२६ ॥

这才是至高的法:君王守护其民。对众生的法即是守护,那便是至高的慈悲。

12.71.27

तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः ।
यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥ १२.७१.२७ ॥

因此精通法者视此为至高之法:那位专注于守护、对众生怀有慈悲的君王。

12.71.28

यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः ।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥ १२.७१.२८ ॥

若君王不护佑臣民,因恐惧而在一日之内作恶,他要经过千年才会走到其结局。

12.71.29

यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन् ।
दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥ १२.७१.२९ ॥

若君王以法守护臣民,哪怕一日行法,他在天界享受其果报一万年。

12.71.30

स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः ।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥ १२.७१.३० ॥

以善祭、善读诵与善苦行所赢得的诸世界,以法护佑臣民的君王则在刹那间获得全部。

12.71.31

एवं धर्मं प्रयत्नेन कौन्तेय परिपालय ।
ततः पुण्यफलं लब्ध्वा नानुबन्धेन योक्ष्यसे ॥ १२.७१.३१ ॥

因此,贡蒂之子啊,应当努力守护法。然后,得到福德之果,你不会被执着所束缚。

12.71.32

स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव ।
असंभवश्च धर्माणामीदृशानामराजसु ॥ १२.७१.३२ ॥

般度之子啊,你将在天界获得极大的荣耀。这样的法对非王者而言几乎不可能。

12.71.33

तस्माद्राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात् ।
स राज्यं धृतिमान्प्राप्य धर्मेण परिपालय।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥ १२.७१.३३ ॥

因此,只有国王能获得法的果报,别无他人。你坚定的人啊,得到王国后,应依法守护它。用苏摩使因陀罗满足,用所欲之物使朋友和民众欢喜。