Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.73.1

राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् ।
पुरोधा यादृशः कार्यः कथयस्व पितामह ॥ १२.७३.१ ॥

国王应当任命什么样的家族祭司?就种姓肤色而言,他应当是怎样的人?祖父啊,请告诉我,应当任命怎样的祭司。

12.73.2

गौरो वा लोहितो वाऽपि श्यामो वा नीरुजः सुखी ।
अक्रोधनो ह्यचपलः सर्वतश्च जितेन्द्रियः ॥ १२.७३.२ ॥

无论肤色白、红或黑,他都应无病、安乐,无怒、沉稳,并且在各方面都能克制自己的感官。

12.73.3

राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः ।
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥ १२.७३.३ ॥

国王应任命博学多闻的祭司,他能审慎考量法与利,并依次权衡那些无量的事务。

12.73.4

धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्पुरोहितः ।
तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः ॥ १२.७३.४ ॥

大王啊,品性正直、精通谋略的祭司,才是这些国王的祭司;他们的利、欲与法,就这样被确定。

12.73.5

श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर ।
उच्छिष्टः स भवेद्राजा यस्य नास्ति पुरोहितः ॥ १२.७३.५ ॥

युधिष्ठिर啊,请听那乌舍那所歌的诗句:没有祭司的国王,便成了残余之辈。

12.73.6

रक्षसामसुराणां च पिशाचोरगपक्षिणाम् ।
शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः ॥ १२.७३.६ ॥

没有祭司的国王,会成为罗刹、阿修罗、毕舍遮、蛇、飞鸟及敌人所要杀害的对象。

12.73.7

ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः ।
राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत् ॥ १२.७३.७ ॥

在一切祭祀中,阿闼婆一系的再生者应担任梵师之职,并以《阿闼婆吠陀》主持国王的一切仪式。

12.73.8

ब्रूयाद्गर्ह्याणि सततं महोत्पातान्यघानि च ।
इष्टमङ्गलयुक्तानि तथाऽन्तः पुरिकाणि च ॥ १२.७३.८ ॥

他应经常禀告可责之事、大的凶兆与灾祸,以及与吉祥仪式相关之事,同样也应禀告后宫之事。

12.73.9

गीतनृत्ताधिकारेषु संमतेषु महीपतेः ।
कर्तव्यं करणीयं वै वैश्वदेवबलिस्तथा ॥ १२.७३.९ ॥

在国王所许可的歌舞事务中,应做当做之事;同样,也应行毗湿伐提婆供养。

12.73.10

पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः ।
रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् ॥ १२.७३.१० ॥

在结盟之际,祭司应举行大平安仪式,并行千次猛烈的火供,以使自己之王得到所爱与有益之福。

12.73.11

राज्ञः पापमलाः सप्त यानृच्छति पुरोहितः ।
अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः ॥ १२.७३.११ ॥

国王有七种罪恶之垢,祭司会遇到它们:行恶的大臣,以及疏忽的谋臣。

12.73.12

चौर्यमव्यवहारश्च व्यवहारोपसेविनाम् ।
अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम् ॥ १२.७३.१२ ॥

盗窃,以及诉讼之人中的无法律程序;惩罚不应受罚者,而不惩罚应受罚者。

12.73.13

हिंसा चान्यत्र संग्रामाद्राज्ञश्च मल उच्यते ।
कुभृत्यैस्तु प्रजानाशः सप्तमस्तु महामलः ॥ १२.७३.१३ ॥

战争之外的暴力和君王的污点被称为污秽。恶劣的臣仆导致百姓灭亡,是第七大污秽。

12.73.14

रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा ।
भृग्वङ्गिरोविधिज्ञो वै पुरोधा निर्णुदे मलात् ॥ १२.७३.१४ ॥

以猛烈的供奉、大平息仪式以及酥油与毯子之作,通晓婆利古与安吉罗之仪轨的祭司便可去除污秽。

12.73.15

एतान्हित्वा दिवं याति राजा सप्त महामलान् ।
सामात्यः सपुरोधाश्च प्रजानां पालने रतः ॥ १२.७३.१५ ॥

舍弃这七大污秽后,君王与大臣、祭司一起,喜于保护百姓,便升往天界。

12.73.16

एतस्मिन्नेव कौरव्य पौरोहित्ये महामते ।
श्लोकानाह महेन्द्रस्य गुरुर्देवो बृहस्पतिः ॥ १२.७३.१६ ॥

俱卢子孙啊,大智者啊,关于这祭司之职,因陀罗的老师天神歌唱者(布里哈斯帕蒂)说了这些颂。

12.73.17

तान्निबोध महीपाल महाभाग हिताञ्शुभान् ।
ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् ॥ १२.७३.१७ ॥

地上的守护者啊,大福之人啊,请领会那些有益吉祥的颂,它们在《梨俱》《娑摩》《夜柔》三吠陀中是为行祭者而设的。

12.73.18

न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् ।
शान्तिकं पौष्टिकं चैव अरिष्टानां च शातनम् ॥ १२.७३.१८ ॥

对于君王,在三处地方并未规定仪式:平息之仪、增益之仪,以及消除凶兆之仪,亦是如此。

12.73.19

शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता ।
ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः ॥ १२.७३.१९ ॥

耶若纳瓦尔基亚为祭祀之利益着想,作为梵智者中的最优者,经遍在的梵天同意,诅咒了他们。

12.73.20

बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् ।
बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः।
अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः ॥ १२.७३.२० ॥

应当回避Bahvṛca、Sāmaga和Vājin。Bahvṛca导致国家覆亡,Sāmaga导致国王覆亡,而作为Adhvaryu的Vājasaneyaka,据说导致力量的毁灭。

12.73.21

अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान् ।
शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् ॥ १२.७३.२१ ॥

在非婆罗门种姓中,于息灾和增益之仪式中应始终避免使用婆阇修那伊耶迦的咒语。

12.73.22

ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः ।
वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः ॥ १२.७३.२२ ॥

婆罗门与国王绝不相互对立;这便是四吠陀,知晓它们的婆罗门也正是如此。

12.73.23

पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपतेः ।
जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः ॥ १२.७३.२३ ॥

在王室祭司之职,婆罗门即是权威,国王也是如此。并非因出生而被称为刹帝利;能保护人免受伤害者,才是刹帝利。

12.73.24

चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियः स्मृतः ।
भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते ॥ १२.७३.२४ ॥

即便处于四种姓之外的人,也被视为刹帝利;为他们,应以婆里古与安吉罗的咒语规定其仪轨。

12.73.25

वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम् ।
द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते ॥ १२.७३.२५ ॥

吠陀大祭(vaitāna)与所传的家祭:为三类再生族,规定一切祭仪。

12.73.26

राजधर्मप्रवृत्तानां हितार्थं त्रीमि कारयेत् ।
शान्तिकं पौष्टिकं चैव तथाऽभिचरणं च यत् ॥ १२.७३.२६ ॥

为从事王法者的福祉,应举行三种仪式:安息之仪、增益之仪,以及降伏之仪。

12.73.27

अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः ।
न सम्यक्फलमृच्छन्ति ये यजन्ति द्विजातयः ॥ १२.७३.२७ ॥

以阿耆尼稳托摩为首的诸祭,若为王者之事所污而由再生族行之,便不能得到正当的果报。

12.73.28

पौरोहित्यं तु कुर्वाणा नाशं यास्यन्ति भूभृताम् ।
यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः ॥ १२.७३.२८ ॥

担任王室家祭司者将导致诸王的败亡;而主持祭祀仪式的祭司,实为对立者。

12.73.29

ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः ।
तदभावे च पारक्यं निर्दिष्टं राजकर्मसु ॥ १२.७३.२९ ॥

婆罗门、刹帝利、吠舍皆被排除于祭司之职;若无其人,则王者之事中当指定他人(祭司)。

12.73.30

ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा ।
भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् ॥ १२.७३.३० ॥

圣者耶若瓦尔迪亚如此宣说,并非他说;他曾在婆利古与安吉罗斯之吠陀中学成,通晓六吠陀支。

12.73.31

यज्ञकर्मविधिज्ञस्तु विधिज्ञः पौष्टिकेषु च ।
अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् ॥ १२.७३.३१ ॥

通晓祭祀仪轨之规则者,通晓增益仪式之规则者,通晓十八种息灾仪式之规则者。

12.73.32

सर्वरोगविहीनश्च संयतः संयतेन्द्रियः ।
श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः ॥ १२.७३.३२ ॥

应无一切疾病,自制、制伏诸根;不可为白癜、麻风、痨病所消瘦者,亦不可为鬼魅附体与癫痫所污染者。

12.73.33

अशस्तैर्वातदुष्टैश्च दूरस्थैः संवदेन्नृपः ।
रोगिणं ऋत्विजं चैव वर्जयेच्च पुरोहितम् ॥ १२.७३.३३ ॥

君王应只与恶兆之人、风病所害者及远方之人交谈;也应避开患病的祭司与家族司祭(purohita)。

12.73.34

नचान्यस्य कृतं येन पौरोहित्यं कदाचन ।
यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितो यथा ॥ १२.७३.३४ ॥

从未为他人担任家族司祭之职者;其所祭之人已死、堕落或已出家者,皆不可用。

12.73.35

युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः ।
नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः ॥ १२.७३.३५ ॥

君王应避开一切在战斗中败北者;而生于吉宿(星宿)之下的人主,也应加以考察。

12.73.36

राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः ।
अधन्यानां निमित्तानामुत्पातानामथार्थवित् ॥ १२.७३.३६ ॥

受过王政之学训练者,方是君王之上佳家族司祭;亦须通晓不吉之征兆与灾异之义。

12.73.37

शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः ।
वाजिनं तदभावे च चरकाध्वर्यवानपि ॥ १२.७३.३७ ॥

为消灭敌方而行祭祀的国王祭司最为优越;若无此人,则由马祭的祭司、遮罗迦与阿ध्वर्यु祭司(亦为优越)。

12.73.38

बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् ।
कृतिनोऽथर्वणो वेदे स्थापयेत्तु पुरोहितान् ॥ १२.७३.३८ ॥

应任命精通《梨俱》、歌诵《娑摩》、勤习政治学,并且精通吠陀的阿色婆吠陀(阿他婆)祭司为国师。

12.73.39

हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः ।
न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः ॥ १२.७३.३९ ॥

祭祀的再生者(婆罗门)已规定了带有暴力标记的咒语;但智者不应诵念那些违背刹帝利之法的咒语。

12.73.40

प्रजागुणाः पुरोधाश्च पुरोहितगुणाः प्रजाः ।
राजा वै सगुणो येषां कुशलं तेषु सर्वशः ॥ १२.७३.४० ॥

民众的美德存在于祭司之中,祭司的美德存在于民众之中;君主有德之民,万事皆得安康。

12.73.41

उभौ प्रजा वर्धयतो देवान्पूर्वापरान्पितॄन् ।
यौ भवेतां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥ १२.७३.४१ ॥

那两者安住于法,值得信赖,且极为苦行,能够增益民众、先后诸神与祖先。

12.73.42

परस्परस्य सुहृदौ विहितौ समचेतसौ ।
ब्रह्मक्षत्रस्य समानात्प्रजा सुखमवाप्नुयात् ॥ १२.७३.४२ ॥

愿民众从二者处获得安乐:二者被任命为彼此的朋友、心意相同,婆罗门与刹帝利地位平等。

12.73.43

विमाननात्तयोरेव प्रजा नश्येयुरेव हि ।
ब्रह्मक्षत्रं हि सर्वासां प्रजानां मूलमुच्यते ॥ १२.७३.४३ ॥

若轻慢他们,臣民必将灭亡,因为婆罗门与刹帝利被称为一切民众的根本。

12.73.44

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥ १२.७३.४४ ॥

关于此事,人们也引述这段古老的历史——埃拉与迦叶波的对话。युधिष्ठिर,你要听取它。

12.73.45

यदा हि ब्रह्म प्रजहाति क्षत्रं ।
क्षत्रं यदा वा प्रजहाति ब्रह्म।
अन्वग्बलं कतमेऽस्मिन्भजन्ते ।
तथा बलं कतमेऽस्मिन्ध्रियन्ते ॥ १२.७३.४५ ॥

当婆罗门舍弃刹帝利,或刹帝利舍弃婆罗门时,在此世间,随之而来的力量归于何人,力量又托付于何人?

12.73.46

द्विधा हि राष्ट्रं भवति क्षत्रियस्य ।
ब्रह्म क्षत्रं यत्र विरुध्यतीह।
अन्वग्बलं दस्यवस्तद्भजन्ते ।
तथा वर्णं तत्र विदन्ति सन्तः ॥ १२.७३.४६ ॥

当婆罗门与刹帝利在此相互对立时,刹帝利的王国便一分为二。盗贼随即依附随之而来的力量,而在那里,贤者们仍能辨识种姓。

12.73.47

नैषां ब्रह्म च वर्धते नोत पुत्रा ।
न गर्गरो मथ्यते नो जयन्ते।
नैषां पुत्रा देवमधीयते च ।
यदा ब्रह्म क्षत्रियाः संत्यजन्ति ॥ १२.७३.४७ ॥

当刹帝利完全舍弃婆罗门时,他们的婆罗门不再增长,他们的子孙也不再增长;不再搅动“伽伽罗”,也没有胜利;他们的子孙不再研习诸神。

12.73.48

नैषामर्थो वर्धते जातु गेहे ।
नाधीयते तत्प्रजा नो यजन्ते।
अपध्वस्ता दस्युभूता भवन्ति ।
ये ब्राह्मणान्क्षत्रियाः संत्यजन्ति ॥ १२.७३.४८ ॥

在他们的家中财富永不增长;他们的子孙既不学习,也不祭祀。背弃婆罗门的刹帝利堕落后会成为盗贼。

12.73.49

एतौ हि नित्यं संयुक्तावितरेतरधारणे ।
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजः ॥ १२.७३.४९ ॥

这二者永远相互依存、彼此扶持:刹帝利是婆罗门之源,再生者是刹帝利之源。

12.73.50

उभावेतौ नित्यमभिप्रपन्नौ ।
संप्रापतुर्महतीं संप्रतिष्ठाम्।
तयोः सन्धिर्भिद्यते चेत्पुराण ।
स्ततः सर्वं भवति हि संप्रमूढम् ॥ १२.७३.५० ॥

这二者始终相互依托,获得了巨大的稳固根基。古老者啊,若他们的联盟破裂,一切便会彻底陷入混乱。

12.73.51

नात्र पारं लभते पारगामी ।
महोदधौ नौरिव संप्रभिन्ना।
चातुर्वण्यं भवति हि संप्रमूढं ।
प्रजास्ततः क्षयसंस्था भवन्ति ॥ १२.७३.५१ ॥

在这里,即便寻求彼岸的人也到不了彼岸,就像大海中破碎的船只。四种姓彻底混乱,于是民众陷入衰败与毁灭。

12.73.52

ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति ।
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥ १२.७३.५२ ॥

吠陀之树受到守护时,便降下蜜与金;若无人守护,便时时降下泪与罪。

12.73.53

अब्रह्मचारी चरणादपेतो ।
यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत्।
आश्चर्यतो वर्षति तत्र देव ।
स्तत्राभीक्ष्णं दुष्प्रभाश्चाविशन्ति ॥ १२.७३.५३ ॥

背离梵行者,若欲在梵中求得庇护,则天神在彼处惊奇地降雨;恶光也时常侵入那里。

12.73.54

स्त्रियं हत्वा ब्राह्मणं वाऽपि पापः ।
सभायां यत्र लभते साधुवादम्।
राज्ञः सकाशे न विभेति चापि ।
ततो भयं विद्यते क्षत्रियस्य ॥ १२.७३.५४ ॥

即便杀害女子或婆罗门的罪人,在集会中获得善人的称赞,甚至在国王面前也不畏惧——因此刹帝利便生恐惧。

12.73.55

पापैः पापे क्रियमाणेऽतिवेलं ।
ततो रुद्रो जायते देव एषः।
पापैः पापाः संजनयन्ति रुद्रं ।
ततः सर्वान्साध्वसाधून्हिनस्ति ॥ १२.७३.५५ ॥

当罪人过度地作恶时,此神楼陀罗便诞生;罪人以罪业生出楼陀罗,于是他杀戮一切,善人与恶人皆不放过。

12.73.56

कुतो रुद्रः कीदृशो वाऽपि रुद्रः ।
सत्वैः सत्वं दृश्यते वध्यमानम्।
एतत्सर्वं कश्यप मे प्रचक्ष्व ।
यतो रुद्रो जायते देव एषः ॥ १२.७३.५६ ॥

楼陀罗从何而来?他是何种模样?可见众生被众生所杀。迦叶啊,请将这一切告诉我——此神楼陀罗从何而生。

12.73.57

आत्मा रुद्रो हृदये मानवानां ।
स्वं स्वं देहं परदेहं च हन्ति।
वातोत्पातैः सदृशं रुद्रमाहु ।
र्देवं जीमूतैः सदृशं रूपमस्य ॥ १२.७३.५७ ॥

自我即是楼陀罗,居于人心之中。它摧毁自身之身与他人之身。那与风暴和征兆相似的楼陀罗被称为神;其形相如同云团。

12.73.58

न वै वातः परिवृणोति कश्चि ।
न्न जीमूतो वर्षति तत्र देवः।
तथा युक्तो दृश्यते मानुषेषु ।
कामद्वेषाद्वध्यते मुह्यते च ॥ १२.७३.५८ ॥

风在那里不遮蔽任何东西,云在那里也不降雨,那里也没有神。在人类之中,它就这样相连而现;因贪欲与憎恶而受伤,并陷入迷惑。

12.73.59

यथैकगेहाज्जातवेदाः प्रदीप्तः ।
कृत्स्नं ग्रामं दहते च त्वरावान्।
विमोहनं कुरुते देव एप ।
ततः सर्वं स्पृश्यते पुण्यपापैः ॥ १२.७३.५९ ॥

犹如从一间屋子燃起的火焰迅速烧毁整个村庄,此神也如此产生迷惑;然后一切便被功德与罪恶所触及。

12.73.60

यदि दण्डः स्पृशतेऽपुण्यपापं ।
पापं पापे क्रियमाणे विशेषात्।
कस्य हेतोः सुकृतं नाम कुर्या ।
द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥ १२.७३.६० ॥

若刑罚触及无功德与罪恶,且作恶时尤其是罪过,那么人应为了什么而行善,或为了什么而不作恶?

12.73.61

असंत्यागात्पापकृतामपापां ।
स्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्द्रं दह्यते मिश्रभावा ।
न्न मिश्रः स्यात्पापकृद्भिः कथंचित् ॥ १२.७३.६१ ॥

因为不舍弃作恶之人,无罪者也会遭受同样的惩罚;因混杂相处,湿物与干物一同被焚。因此绝不可与作恶者有任何混杂。

12.73.62

साध्वसाधून्धारयतीह भूमिः ।
साध्वसाधूंस्तापयतीह सूर्यः।
साध्वसाधूंश्चापि वातीह वायु ।
रापस्तथा साध्वसाधून्वहन्ति ॥ १२.७३.६२ ॥

此处大地承载善人与恶人;此处太阳照耀善人与恶人;此处风也吹拂善人与恶人;水也同样承载善人与恶人。

12.73.63

एवमस्मिन्वर्तते लोक एष ।
नामुत्रैवं वर्तते राजपुत्र।
प्रेत्यैतयोरन्तरावान्विशेषो ।
यो वै पुण्यं चरते यश्च पापम् ॥ १२.७३.६३ ॥

在此世间事情如此,但在彼世并非如此,王子啊。死后,这两者之间有很大的区别:行善者与作恶者。

12.73.64

पुण्यस्य लोको मधुमान्घृतार्चि ।
र्हिरण्यज्योतिरमृतस्य नाभिः।
तत्र प्रेत्य मोदते ब्रह्मचारी ।
न तत्र मृत्युर्न जरा नोत दुःखम् ॥ १२.७३.६४ ॥

功德之界甘美,有酥油之焰与金色光明,是不死的中心;在那里,死后梵行者欢喜。那里没有死亡,没有衰老,也没有痛苦。

12.73.65

पापस्य लोको निरयोऽप्रकाशो ।
नित्यं दुःखं शोकभूयिष्ठमेव।
तत्रात्मानं शोचति पापकर्मा ।
वह्वीः समाः प्रतपन्नप्रतिष्ठः ॥ १२.७३.६५ ॥

罪恶之界是地狱,没有光明,永远充满痛苦,多有忧愁。作恶者在那里为自己悲叹,经历许多年的焚烧,无所依靠。

12.73.66

मिथोभेदाद्ब्राह्मणक्षत्रियाणां ।
प्रजा दुःखं दुःसहं चाविशन्ति।
एवं ज्ञात्वा कार्य एवेह विद्वान् ।
पुरोहितो नैकविद्यो नृपेण ॥ १२.७३.६६ ॥

因婆罗门与刹帝利相互分裂,臣民便陷入难以忍受的痛苦。智者知此,应在此任命一位精通多种学问的国师。

12.73.67

तं चैव लब्ध्वाभिषिञ्चेत्तथा धर्मो विधीयते ।
अग्रं हि ब्राह्मणः प्रोक्तं सर्वस्यैवेह धर्मतः ॥ १२.७३.६७ ॥

得到他之后,应为他行灌顶;法即如此规定。依法,此处婆罗门被宣称为一切之首。

12.73.68

पूर्वं हि ब्रह्मणः सृष्टिरिति ब्रह्मविदो विदुः ।
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तमम् ॥ १२.७३.६८ ॥

梵知者知晓,最初是梵天所造。凭借其长子之出身,他最先获得的至高地位即是其所有。

12.73.69

तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् ।
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धीमतः ॥ १२.७३.६९ ॥

因此婆罗门值得尊敬与礼拜,并且是首先享用供品的人。应将一切最好、最上等之物献给这位智者。

12.73.70

अवश्यमेतत्कर्तव्यं राज्ञा बलवताऽपि हि ।
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते।
राज्ञः सर्वस्य चान्यस्य स्वामी राज्ञः पुरोहितः ॥ १२.७३.७० ॥

即便是强大的国王也必须如此。婆罗门增强刹帝利,刹帝利使婆罗门增长。国王及其他一切人的主宰,是王室国师。