摩诃婆罗多 · 章 12.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.74.1
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह ।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः ॥ १२.७४.१ ॥
祖父啊,您已经向我讲述了婆罗门与刹帝利的力量,以及国师的影响和祭司的特征。
12.74.2
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् ।
ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम्।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च ॥ १२.७४.२ ॥
现在我想听听关于婆罗门与刹帝利的确定论断。婆罗门与刹帝利确实是世界的最高根源,国家的安危正取决于这两者。
12.74.3
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते ॥ १२.७४.३ ॥
据说国家的安危依赖于国王,而国王的安危则完全依赖于国师。
12.74.4
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते ॥ १२.७४.४ ॥
婆罗门为百姓平息看不见的恐惧,国王以臂膀平息看得见的恐惧,那样的王国便在安乐中兴盛。
12.74.5
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥ १२.७४.५ ॥
关于此事,人们讲述这段古老的传说——穆楚昆达与国王毗沙罗婆那(俱毗罗)之间的对话。
12.74.6
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः ।
जिज्ञासमानः स बलमभ्ययादलकाधिपम् ॥ १२.७४.६ ॥
穆楚昆达征服了这片大地,成为地上之主。他想要知道自己的力量,便率军前去攻打阿罗迦城的主人。
12.74.7
ततो वैश्रवणो राजा राक्षसानसृजत्तदा ।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः ॥ १२.७४.७ ॥
那时,毗沙罗摩王(财神)创造了罗刹;那些涅利底(nairṛta)是来碾碎穆楚昆陀军队的。
12.74.8
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः ॥ १२.७४.८ ॥
在自己的军队被击杀之时,制敌的人主穆楚昆陀责备了那位博学的家庭祭司。
12.74.9
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः ।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत ॥ १२.७४.९ ॥
于是,最精通法的婆私吒修持猛烈苦行,在那里杀死了罗刹,也找到了道路。
12.74.10
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत् ।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥ १२.७४.१० ॥
于是毗沙罗摩王责备穆楚昆陀,并在军队被击杀之时说了这些话。
12.74.11
बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः ।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे ॥ १२.७४.११ ॥
从前像你这样强大的君王与他们的祭司在一起,并不像你这样行事。
12.74.12
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः ।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥ १२.७४.१२ ॥
那些精通武艺、强大的君王也来到我面前侍奉我——我是苦乐的主宰。
12.74.13
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥ १२.७४.१३ ॥
若你的臂膀有力,就应当展示出来。你为何仰仗婆罗门的力量如此肆意妄为?
12.74.14
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।
न्यायपूर्वमसंलब्धमसंभ्रान्तमिदं वचः ॥ १२.७४.१४ ॥
于是愤怒的穆楚昆陀回答财神说:这番话合乎正理,毫不犹豫,也不慌乱。
12.74.15
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा ।
पृथग्बलविधानं च तल्लोकं परिपालयेत् ॥ १२.७४.१५ ॥
自生者由同一个源头创造了婆罗门与刹帝利;二者的力量各有其规定;他们应当守护世界。
12.74.16
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥ १२.७४.१६ ॥
苦行与咒语之力永远存于婆罗门之中;执兵的臂膀之力永远存于刹帝利之中。
12.74.17
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् ।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप ॥ १२.७४.१७ ॥
这二者应当合力保护民众。那么你为何指责我所做的事,阿罗迦的主人啊?
12.74.18
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् ।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥ १२.७४.१८ ॥
于是毗沙罗婆那对国王及其祭司说:“未经指定的王国,我不会授予任何人。”
12.74.19
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव ।
प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम्।
एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः ॥ १२.७४.१९ ॥
“我不夺取未被指定之物,国王,你应知道。请统治我所赐予的整个大地。”如此被告知后,大地之主穆楚昆陀回答。
12.74.20
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥ १२.७४.२० ॥
“国王,我不愿享受你所赐予的王国。我希望享受凭借我臂膀之力所获得的王国。”
12.74.21
ततो वैश्रवणो राजा विस्मयं परमं ययौ ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम् ॥ १२.७४.२१ ॥
于是国王毗沙罗那(俱毗罗)见到征服敌人的穆楚昆陀坚守刹帝利之法,心中极为惊异。
12.74.22
ततो राजा मुचुकुन्दः सोन्वशासद्वसुंधराम् ।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥ १२.७४.२२ ॥
于是国王穆楚昆陀忠实地遵循刹帝利之法,统治了凭借臂膀之力所征服的大地。
12.74.23
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते ।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते ॥ १२.७४.२३ ॥
如此,通晓吠陀、以婆罗门为先而行事的国王,能享有所征服的大地,并获得盛大的声名。
12.74.24
नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् ॥ १२.७४.२४ ॥
婆罗门应当常行水中之礼,刹帝利应当常持兵器;因为世间存在的一切,都依赖于这两者。
12.74.25
यशश्च तेजश्व महीं च कृत्स्नां ।
प्राप्नोति राजन्विपुलां च कीर्तिम्।
प्रधानधर्मं नृपते नियच्छ ।
तथा च धर्मस्य चतुर्थमंशम् ॥ १२.७४.२५ ॥
他获得名声与威光、整个大地以及广大的声誉。国王啊,请坚守首要的法,也请坚守法的四分之一。