摩诃婆罗多 · 章 12.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.75.1
यया वृत्त्या महीपालो विवर्धयति मानवान् ।
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥ १२.७५.१ ॥
君主以何种行为使人民兴盛,并赢得善业之界?祖父,请告诉我。
12.75.2
दानशीलो भवेद्राजा यज्ञशीलश्च भारत ।
उपवासतपः शीलः प्रजानां पालने रतः ॥ १२.७५.२ ॥
国王应当乐于布施、乐于祭祀,婆罗多之子啊,乐于禁食与苦行,并致力于保护臣民。
12.75.3
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन् ।
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान् ॥ १२.७५.३ ॥
国王应始终依法护佑一切臣民,并以提拔与布施礼敬有德之人。
12.75.4
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते ।
यद्यदाचरते राजा तत्प्रजानां स्म रोचते ॥ १२.७५.४ ॥
王所尊奉的法,便会在一切处被尊崇;国王所行之事,正是臣民所喜悦的。
12.75.5
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु ।
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा ॥ १२.७५.५ ॥
国王应当始终高举刑杖,对敌人如同死亡;应从四面八方诛杀盗贼,对盗贼不可有宽恕。
12.75.6
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति ॥ १२.७५.६ ॥
臣民在此所行之法,因国王善加护佑,国王便得其法之四分之一。
12.75.7
यदधीते यद्ददाति यञ्जुहोति यदर्चति ।
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥ १२.७५.७ ॥
凡人所诵、所施、所祭、所拜,其四分之一由以法护持臣民的君王所得。
12.75.8
यद्राष्ट्रोऽकुशलं किंचिद्राज्ञो रक्षयतः प्रजाः ।
चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ १२.७५.८ ॥
国中若有任何不善之事发生,护持臣民的君王将得其罪之四分之一,婆罗多啊。
12.75.9
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि ॥ १२.७५.९ ॥
有人说一切皆其所有,然后必定减半。护地之王啊,行为残忍且言语虚妄者亦然。
12.75.10
तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते ।
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि।
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः ॥ १२.७५.१० ॥
听我说,君王如何能从这样的过失中解脱。若被盗之财无法追回,则应从自己的府库中给予那依靠他生活的无能之人。
12.75.11
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा ।
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु ॥ १२.७५.११ ॥
一切种姓都应始终守护婆罗门的财产。伤害再生者的人,不应留在国中。
12.75.12
ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम् ।
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥ १२.७५.१२ ॥
婆罗门的财产得到守护,则一切都得到守护。若得其恩宠,君王便成就其所应成之事。
12.75.13
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ।
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥ १२.७५.१३ ॥
如同众生依赖云雨,群鸟依赖大树,人们也依赖那能成就一切事务的国王。
12.75.14
न हि कामात्मना राज्ञा सततं शठबुद्धिना ।
नृशंनेनातिलुब्धेन शक्यं पालयितुं प्रजाः ॥ १२.७५.१४ ॥
被欲望支配、心怀欺诈、残忍且极其贪婪的国王,确实不能长久护佑臣民。
12.75.15
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् ।
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥ १२.७५.१५ ॥
我不追求王权的享乐,连片刻也不愿想要王位。为了法(达磨)我才会接受王位,但这里却不见法。
12.75.16
तदल मम राज्येन यत्र धर्मो न विद्यते ।
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥ १२.७५.१६ ॥
因此,没有法的王国于我已足够。出于行法的愿望,我将前往森林。
12.75.17
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः ।
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥ १२.७५.१७ ॥
我将在那清净的森林中,放下刑杖,制伏诸根,做一位以根与果为食的仙人,以奉行法。
12.75.18
वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा ।
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम् ॥ १२.७५.१८ ॥
我知道你的心意倾向于不残暴,然而这种不残暴也是无益的。一个始终不残暴的人,不能治理王国。
12.75.19
सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम् ।
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते ॥ १२.७५.१९ ॥
人们总认为你心地柔和、极为高尚、极其守法;然而世人并不敬重一个怯弱(klība)、充满法慈悲之心的人。
12.75.20
राजधर्ममवेक्षस्व पितृपैतामहोचितम् ।
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥ १२.७५.२० ॥
请留意与你父亲和祖父相称的王法。你想要坚持的这种行为,并不是国王应有的行为。
12.75.21
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः ।
प्रजापालनसंभूतं प्राप्तो धर्मफलं ह्यसि ॥ १२.७५.२१ ॥
你在此依靠与怯弱相混的慈悲,并未得到从保护臣民而生的法果。
12.75.22
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत ।
विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः ॥ १२.७५.२२ ॥
般度未曾给出这样的祝愿,贡蒂也未这样说;正法之人毗质旺利耶与持人主之名的质旺利耶也未曾这样说。
12.75.23
शन्तनुश्च महीपालः सर्वक्षत्रस्य पूजितः ।
तवैतां प्राज्ञतां तात यथा चरसि मेधया ॥ १२.७५.२३ ॥
护佑大地、受所有刹帝利尊崇的商多努也未如此说。亲爱的孩子,你以智慧行事的这份明智,是你自己的。
12.75.24
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत् ।
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत ॥ १२.७५.२४ ॥
你的父亲常说勇武、力量与真实;为你,贡蒂祈求的是伟大、力量与慷慨。
12.75.25
नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते ।
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ॥ १२.७५.२५ ॥
娑婆诃与娑陀,常在,二者以人与神为神祇。祖先与诸神常期望其子嗣如此。
12.75.26
दानमध्ययनं यज्ञं प्रजानां परिपालनम् ।
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः ॥ १२.७५.२६ ॥
布施、学习、祭祀与护持百姓,无论合乎法与否,你生来便具备这些。
12.75.27
कुले धुरि च युक्तानां वहतां भारमीदृशम् ।
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते ॥ १२.७५.२७ ॥
对于套在家族之轴上、负担如此重担的人,贡蒂之子啊,即便沉沦,名声也不会丧失。
12.75.28
समन्ततो विनीतो यो वहत्यस्खलितो हि सः ।
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥ १२.७५.२८ ॥
凡谦逊于各方、承担重担而不跌倒者,确实由无过之业的言说而得业之成就。
12.75.29
नैकान्ते विनिपातेऽपि विहरेदिह कश्चन ।
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः ॥ १२.७५.२९ ॥
即使在独处之时,即使在败亡之际,此间任何人都不应徒然度日,无论是有德者、居家者、君王、梵行者还是再生族。
12.75.30
अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत् ।
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्य कर्मणः ॥ १२.७५.३० ॥
纵然微小,却充满精华的高尚之业才应当去做;已做之业胜过未做,而此业之中没有比它更为有罪的。
12.75.31
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् ।
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते ॥ १२.७५.३१ ॥
当出身高贵、通晓法义的人获得至高的权位时,国王的瑜伽-刹摩便导向吉祥。
12.75.32
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा ।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ १२.७५.३२ ॥
已得王国的法人,应从四面八方取得:以布施取一人,以武力取另一人,以甘美诚实之言取又一人。
12.75.33
यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः ।
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥ १२.७५.३३ ॥
得到它之后,生于家族中的吠舍们因畏惧生计匮乏而受苦,得以满足而安立。还有什么法比这更大呢?
12.75.34
किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा ।
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि ॥ १२.७५.३४ ॥
还有什么比这更能通向天界?什么样的至上喜乐比那更大?超越此者又是什么至高的权威?如果你看得见,请告诉我。
12.75.35
यस्मिन्भयार्दिताः सन्तः क्षेमं विन्दन्त्यपि क्षणम् ।
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥ १२.७५.३५ ॥
善人被恐惧所苦,即便片刻也能在其中获得安宁,那便是我们所说的最能征服天界者。此为真实,我告诉你。
12.75.36
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम ।
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि ॥ १२.७५.३६ ॥
因此,在库鲁族中你最受爱戴,库鲁之最。去做国王,征服天界;保护善人,诛杀恶人。
12.75.37
अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह ।
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः ॥ १२.७५.३७ ॥
亲爱的孩子,愿你的善良朋友与贤人一起依靠你而生活,正如众生依靠云雨而生,婆罗门依靠结满甜果的树木而生。
12.75.38
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् ।
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः ॥ १२.७५.३८ ॥
愿你的亲族依靠你而生活——你果敢、英勇、善于出击、仁慈、克制诸根、慈爱,并能分赐财物。