摩诃婆罗多 · 章 12.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.76.1
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि ।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥ १२.७६.१ ॥
那些专注于自身本分的人,以及同样那些从事禁止之事的人——请为我说明这些婆罗门之间的区别,祖父啊。
12.76.2
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः ।
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥ १२.७६.२ ॥
具备学问的标志,处处通晓吠陀传统——这些婆罗门,大王,被称为与梵等同。
12.76.3
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः ।
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥ १२.७६.३ ॥
具备祭司与师长之职,安住于自身职责之中——这些人,大王,在婆罗门中如同诸神。
12.76.4
गोऽजाविमहिषाणां च बडवानां च पोषकाः ।
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्संप्रचक्षते ॥ १२.७६.४ ॥
那些饲养牛、山羊、绵羊、水牛和母马,并以此为生计的人,被称为吠舍。
12.76.5
ऐश्वर्यकामा ये चापि सामिपा वाऽपि भारत ।
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः ॥ १२.७६.५ ॥
那些渴求权势、或嗜好肉食、并乐于惩罚与施恩的再生者——婆罗多啊,应当知道他们是刹帝利。
12.76.6
अश्वारोहा गजारोहा रथिनोऽथ पदातयः ।
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥ १२.७६.६ ॥
骑兵、象骑手、车战者与步兵——这些人,大王,在婆罗门中如同吠舍。
12.76.7
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः ।
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥ १२.७६.७ ॥
那些既无出身又无德行、吝啬、只在名义上是婆罗门亲属的人,啊国王,他们在婆罗门中等同于首陀罗。
12.76.8
अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः ।
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥ १२.७६.८ ॥
这些人都不通晓吠陀,也都不供奉圣火。有德的国王应让他们全都缴纳赋税、服劳役。
12.76.9
आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः ।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥ १२.७६.९ ॥
召人赴宴者、庙宇祭司、星象占卜者、村落祭祀者——这些是婆罗门旃陀罗;行走在大道上的旅人是第五类。
12.76.10
ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः ।
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥ १२.७६.१० ॥
主祭的祭司、家族祭司、谋臣、使者、探听消息的人——这些人在婆罗门中等同于刹帝利,啊国王。
12.76.11
म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः ।
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च ॥ १२.७६.११ ॥
婆罗门前往某些为罪人所居的蛮夷之地,便成为旃陀罗,无论死后还是今生都是如此。
12.76.12
व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः ।
अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते ॥ १२.७६.१२ ॥
为雏形者(vrātya)、蛮夷与首陀罗主持祭祀的,是再生族中最低下的人;他在此世获得恶名,并堕入地狱。
12.76.13
महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् ।
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम् ॥ १२.७६.१३ ॥
以大众与海洋,轮番二十一次。迷惑之婆罗门,于梨俱、夜柔、娑摩三吠陀作乱者。
12.76.14
कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते ।
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पत्तितेऽशुचौ ॥ १२.७६.१४ ॥
作一劫之虫后,便生于种种污秽之中——若为贱民、蛮夷、首陀罗、盗贼、堕落者或不净者主持祭祀。
12.76.15
कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ ।
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा ॥ १२.७६.१५ ॥
于恶国之中,为饮酒者、杀婆罗门者、首陀罗女之夫、不习吠陀者,或处处随意饮食者(主持祭祀)。
12.76.16
वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा ।
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन ॥ १२.७६.१६ ॥
杀孩童、妇女或老人者,杀父母或师长者,背叛朋友者,忘恩负义者,杀牛者——绝不可为其主持祭祀。
12.76.17
पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः ।
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः ॥ १२.७६.१७ ॥
再生族不可为杀子者或仇敌以咒语主持祭祀。古老的咒语知者称此为其“败坏”(viplava)。
12.76.18
यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा ।
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् ॥ १२.७६.१८ ॥
若婆罗门身在异乡,或已往朝圣,或因恐惧而投靠他人,或身处不净的恶国——
12.76.19
सुसयतः शुचिर्भुत्वा मन्त्रानुच्चारयेद्द्विजः ।
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा।
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः ॥ १२.७६.१९ ॥
再生者若自制且清净,应诵念真言;即使身处困厄,或致力于救护困厄之人,也可诵念真言。即便在低贱者之中施用,也不被认为是败坏者。
12.76.20
क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा ।
तत्त्ववित्तरते पापं शीलवान्सयतेन्द्रियः ॥ १२.७६.२० ॥
即使行事残酷,或作非法之事,或因业行而被剥夺,若能通达真理、持戒、调伏诸根,便能超越罪业。
12.76.21
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः ।
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥ १२.७६.२१ ॥
国库匮乏的君王可向这些人征收贡赋,但与梵同等者及如天神者除外。
12.76.22
अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः ।
ब्राह्मणानां च येकेचिद्विकर्मस्था इति श्रुतिः।
प्रागुक्तांश्चाप्यनुक्तांश्च सर्वास्तान्दापयेत्करान् ॥ १२.७६.२२ ॥
据传承所闻,国王是非婆罗门财富的主人;传承也说,有些婆罗门从事非法之事。国王应使前面提到的和未提到的所有人都纳税。
12.76.23
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥ १२.७६.२३ ॥
国王无论如何不可忽视从事非法之事的婆罗门。出于希望获得法的恩宠,应约束他们,并在他们之间分配(供养)。
12.76.24
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥ १२.७६.२४ ॥
在某王的国土中若有再生婆罗门成为盗贼,知晓此事者认为这过错正是国王自己的过错。
12.76.25
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा ।
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः ॥ १२.७६.२५ ॥
因生计匮乏而成为盗贼的人,以及通晓吠陀的毕业生,王啊,应由国王供养——吠陀智者如是说。
12.76.26
स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप ।
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥ १२.७६.२६ ॥
若他即便得到生计仍不悔改,啊,灭敌者,那么就应将他与亲属一同驱逐出那个国家。
12.76.27
यज्ञः श्रुतमपैशुन्यमर्हिसाऽतिथिपूजनम् ।
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम् ॥ १२.७६.२७ ॥
祭祀、学问、不说人坏话、不杀生、尊敬客人、自制、诚实、苦行与布施——这些便是婆罗门的特征。