摩诃婆罗多 · 章 12.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.78.1
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत ।
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ॥ १२.७८.१ ॥
坚战说:婆罗多啊,依王法已经讲述了灾难中的生计。婆罗门是否可以以吠舍之法某种程度地维持生活,还是不可以?
12.78.2
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् ।
कृषिं गोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये ॥ १२.७८.२ ॥
毗湿摩说:不能履行刹帝利之法的人,在灾难中、生计断绝时,应当以从事农耕和牧养牛群的方式,依吠舍之法维持生活。
12.78.3
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते ।
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ॥ १२.७८.३ ॥
坚战说:婆罗多中的雄牛啊,依吠舍之法维持生活的婆罗门,卖哪些货物才不会失去天界?
12.78.4
सुरालवणमित्येतत्तिलान्केसरिणः पशून् ।
वृषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ॥ १२.७८.४ ॥
毗湿摩说:坚战啊,酒、盐、芝麻、有鬃毛的兽类、牲畜、公牛、蜂蜜、肉和熟食——这些。
12.78.5
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् ।
एतेषां विक्रयात्तात ब्राह्मणो नरके पतेत् ॥ १२.७८.५ ॥
毗湿摩说:在任何境况下,婆罗门都应完全避免这些。孩子啊,卖这些的婆罗门会堕入地狱。
12.78.6
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् ।
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन ॥ १२.७८.६ ॥
毗湿摩说:山羊、火、伐楼那、公羊、太阳、马、大地、毗罗吒、母牛、祭祀和苏摩——这些无论如何都不可出售。
12.78.7
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः ।
निमयेत्पक्वमामेन भोजनार्थाय भारत ॥ १२.७८.७ ॥
善人不赞扬以此交换熟食;婆罗多啊,为了食物,应以熟食换生食。
12.78.8
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् ।
एवं संवीक्ष्य समयं नाधर्मोऽस्ति कथंचन ॥ १२.७८.८ ॥
我们将食用已经做好的;你来准备这个。如此考虑约定,绝无任何非法之事。
12.78.9
अत्र ते वर्तयिष्यामि यथा कर्मः सनातनः ।
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ॥ १२.७८.९ ॥
这里我将为你讲述永恒的常规;贸易往来之人的那种做法,你要明白,优陀弃陀罗啊。
12.78.10
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु ।
उचितो वर्तते धर्मो न बलात्संप्रवर्तते ॥ १२.७८.१० ॥
我把这个给你;愿你把那个给我。这才是适宜的法;它不靠暴力施行。
12.78.11
इत्येवं संप्रवर्तन्ते व्यवहाराः पुरातनः ।
ऋषीणामितरेषां च साधु चैतदसंशयम् ॥ १२.७८.११ ॥
古老的交易便是这样进行的,正如圣贤及其他人所行;这无疑是善的。
12.78.12
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः ।
व्युत्क्रमन्ते स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ॥ १२.७८.१२ ॥
亲爱的,当所有人民拿起武器并偏离自己的本分时,刹帝利的力量便衰减了。
12.78.13
तदा त्राता तु को नु स्यात्को धर्मः किं परायणम् ।
एतं मे संशयं ब्रूहि विस्तरेण पितामह ॥ १२.७८.१३ ॥
那时谁来保护?何为法?何者为其依归?祖父啊,请详细告诉我这个疑问。
12.78.14
दानेन तपसा यज्ञैदद्रोहेण दमेन च ।
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ॥ १२.७८.१४ ॥
以布施、苦行、祭祀、不害和克制,以婆罗门为首,诸种姓应当求取自身的安泰。
12.78.15
तेषां ये वेदबलिनस्त उत्थाय समन्ततः ।
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ॥ १२.७८.१५ ॥
其中以吠陀之力强盛者,应从四方奋起,增益国王之力,正如诸神增益大因陀罗之力。
12.78.16
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् ।
तस्माद्ब्राह्मबलेनैव समुत्थेयं विजानता ॥ १२.७८.१६ ॥
据说,对于衰败的国王,唯有梵是其依归;因此,明智者应当只凭婆罗门之力而兴起。
12.78.17
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत् ।
तदा वर्णा यथाधर्मं निविशेयुः स्वकर्मसु ॥ १२.७८.१७ ॥
若胜利的国王在国中确立安泰,那么诸种姓便依法安住于各自的职责之中。
12.78.18
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते ।
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ॥ १२.७८.१८ ॥
当界限已破、盗贼造成种姓混乱时,哦,坚战,持械的诸种姓都不应堕落。
12.78.19
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति ।
कस्तत्र ब्राह्मणांस्त्राता को धर्मः किं परायणम् ॥ १२.७८.१९ ॥
若刹帝利种姓四处背叛婆罗门,那时谁来保护婆罗门?何为法,何为至高的归宿?
12.78.20
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च ।
अमायया मायया च नियन्तव्यं तदा भवेत् ॥ १२.७८.२० ॥
那时须以苦行、梵行、兵器与力量,以及正直与诡计来制服他。
12.78.21
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः ।
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ १२.७८.२१ ॥
对于越轨的刹帝利,尤其是对婆罗门越轨者,应由梵(神圣力量)来约束,因为刹帝利出自婆罗门。
12.78.22
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वस्वयोनिषु शाम्यति ॥ १२.७८.२२ ॥
火生于水,刹帝利之力生于婆罗门,铁生于石。它们遍及一切的威力,各自回归其本源而平息。
12.78.23
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिहन्ति च ।
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ॥ १२.७८.२३ ॥
当铁切割石头,火冲击水,刹帝利之力憎恨婆罗门时,这三者便都平息了。
12.78.24
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर ।
समुदीर्णान्यजेयानि तेजांसि च बलानि च ॥ १२.७८.२४ ॥
因此,般遮罗之子,刹帝利一旦兴起的不可战胜的威力与力量,便平息于婆罗门之中。
12.78.25
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले ।
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति भारत ॥ १२.७८.२५ ॥
婆罗多之子啊,当婆罗门的力量变得柔弱,刹帝利的力量变得衰弱,所有种姓中的恶人都反对婆罗门之时。
12.78.26
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः ।
ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के ॥ १२.७८.२६ ॥
那些在那里舍弃自己生命而战、保护婆罗门的人,将得到什么样的世界?
12.78.27
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ।
मनस्विनो मन्युमन्तः पुण्याँल्लोकान्व्रजन्त्यमी।
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणभिष्यते ॥ १२.७८.२७ ॥
这些高尚而热忱的战士保护婆罗门、正法和自身,便前往善果之界;为了婆罗门,所有人都被劝导拿起武器。
12.78.28
अतिस्विष्टमधीतानां लोकानतितपस्विनाम् ।
अनाशकाग्न्याहितानां शूरा यान्ति परां गतिम् ॥ १२.७८.२८ ॥
英雄们所得的至上归宿,超越了那些大行祭祀者、诵习吠陀者、大苦行者以及不断食而守护圣火者的世界。
12.78.29
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति ।
एष एवात्मनस्त्यागो नान्यं धर्मं विदुर्जना ॥ १२.७८.२९ ॥
婆罗门在三种种姓中拿起武器并不犯过;这正是舍弃自我;世人以此为法,别无他法。
12.78.30
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति ।
ब्रह्मद्विपो जिघांसन्तस्तेषां नोऽस्तु सलोकता ॥ १२.७८.३० ॥
向那些为杀害婆罗门之敌而献出自身身体为祭品的人致敬并祝福;愿我们与他们同处一个世界。
12.78.31
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरव्रवीत् ।
यथाऽश्वमेधावभृथे स्नाताः पूता भवन्त्युत।
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ॥ १२.७८.३१ ॥
摩奴谈及那些英雄:他们征服梵界,配得上天界。正如在马祭的终浴中沐浴者得到净化,作恶者与行善者在战场上被兵器所杀,也同样得到净化。
12.78.32
भवत्यधर्मो धर्मो हि धर्मोऽधर्मो भवत्युत ।
कारणाद्देशकालस्य देशः कालः स तादृशः ॥ १२.७८.३२ ॥
因为地点与时间的缘故,非法成为法,法成为非法。那个地点与那个时间正是如此。
12.78.33
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् ।
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम् ॥ १२.७८.३३ ॥
心存友善者行残酷之事,仍能赢得最高天界;正义者行罪恶之事,仍能到达至高归宿。
12.78.34
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति ।
आत्मत्राणे दस्युदोषे सर्वस्वहरणे तथा ॥ १२.७८.३४ ॥
婆罗门在三种情况下持兵器不被玷污:自卫之时、盗贼为害之时,以及财物被全部劫夺之时。
12.78.35
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे ।
संप्रमूढेषु वर्णेषु यदन्योऽभिभवेद्वली ॥ १२.७८.३५ ॥
当盗贼之势兴起,为了武士之责,当种姓混杂、诸种姓迷惑之时,若有另一位强者压倒他们——
12.78.36
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
दस्युभ्यो यः प्रजा रक्षेद्दण्डं धर्मेण धारयेत् ॥ १२.७८.३६ ॥
诸王之中最优秀者啊,无论是婆罗门、吠舍还是首陀罗,凡从盗贼手中保护百姓者,都应依法执掌刑杖——
12.78.37
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा ।
न स्म शस्त्रं गृहीतव्यमन्यत्र क्षत्रबन्धुतः ॥ १२.७८.३७ ॥
人可以行事或不行事,可以被阻止或不被阻止;但除刹帝利同族之外,任何人不得持兵器。
12.78.38
अपारे यो भवेत्पारमप्लवेः यः प्लवो भवेत् ।
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति ॥ १२.७८.३८ ॥
在无边的水中,能载无舟者渡到彼岸的那只船,无论他是首陀罗还是其他人,都完全配得上尊敬。
12.78.39
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् ।
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः ॥ १२.७८.३९ ॥
大王啊,人们依靠他而安乐生活;那些无依无靠、被盗贼所困扰压迫而痛苦的人们。
12.78.40
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम् ।
यहद्ध्यभीष्टं कौरव्य कर्ता सन्मानमर्हति ॥ १२.७८.४० ॥
俱卢之裔啊,他们应当以爱戴之心尊敬他,如同自己的亲族;做所希望之事的人,才真正配得上尊敬。
12.78.41
किमनडुहा यो न वहेत्किं धेन्वा वाऽप्यदुग्धया ।
बन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता ॥ १२.७८.४१ ॥
不拉重的牛有何用?不产奶的母牛有何用?不育的妻子有何用?不加保护的君王又有何用?
12.78.42
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
यथा ह्यदक्षः पुरुषः पथि क्षेत्रं यथोपरम् ॥ १२.७८.४२ ॥
如木制的象,如皮制的鹿,如无能的人,如路旁荒废的田地——他便是如此(毫无用处)。
12.78.43
यथा विप्रोऽनधीयानो राजा यश्च न रक्षिता ।
मेघो न वर्षते यश्च सर्व एव निरर्थकाः ॥ १२.७८.४३ ॥
如同不诵习吠陀的婆罗门,不加保护的国王,不降雨的云——这一切都毫无意义。
12.78.44
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत् ।
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ॥ १२.७८.४४ ॥
唯有常时护佑善人、遏止恶人者,方可立为国王;由他一人,万物得以维持。