Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.79.1

क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह ।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥ १२.७९.१ ॥

祭司在何处有能力?他们具有怎样的品性?祖父啊,请告诉我他们是怎样的人,诸王之主,言者中最优秀的。

12.79.2

प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते ।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच ॥ १२.७९.२ ॥

国王啊,他们的行为被规定为专心于本分,在通晓韵律、娑摩等典籍以及再生者的学问之后。

12.79.3

ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः ।
परस्परस्य सुहृदः समन्तात्समदर्शिनः ॥ १२.७९.३ ॥

那些始终心意专一于喜乐、坚定、言语和悦、彼此为友、四面平等看待的人。

12.79.4

आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ १२.७९.४ ॥

不残忍、诚实之言、不杀生、克己、正直、无恶意、无骄慢、知耻、忍耐、制御诸根与寂静。

12.79.5

यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते ।
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥ १२.७९.५ ॥

具备这些品质者,被称为家庭祭司:智慧、坚守真实、自制、不伤害众生、无欲无憎,并具备三种清净之德。

12.79.6

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः ॥ १२.७९.६ ॥

不伤害他人、以知识为满足的人,配得上梵座。爱子啊,这些都是大祭司,都应按其德行受到尊敬。

12.79.7

यदिदं वेदवचनं दक्षिणासु विधीयते ।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते ॥ १२.७९.७ ॥

吠陀经文关于布施(达克希纳)所规定的——「此物应当给予,此物应当给予」——在任何地方都无法确立。

12.79.8

देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः ।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते ॥ १२.७९.८ ॥

应当给予之物,是以财富作为回报;困境中的法则并非出自经典。经典那可怕的命令并不考虑一个人的能力。

12.79.9

श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः ।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥ १२.७९.९ ॥

「应当依靠信仰而行祭祀」——这是吠陀的启示。但对于以虚伪方式举行的祭祀,信仰又能做什么呢?

12.79.10

न वेदानां परिभवान्न शाठ्येन न मायया ।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥ १२.७९.१० ॥

无论轻慢吠陀、欺诈还是诡计,都不能使人获得大的果报。愿你的智慧永远不要如此。

12.79.11

यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम् ।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन ॥ १२.७९.११ ॥

孩子,布施(达克希纳)是祭祀的一个支分,也是增益诸咒的所在。没有布施的咒语,无论如何也不能使人度脱。

12.79.12

शक्तिस्तु पूर्णपात्रेण संमिता नावमा भवेत् ।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम् ॥ १२.७९.१२ ॥

但能力应以满盈之器来衡量,不可不足。孩子,三种姓之人都必须依自己的力量而行祭祀。

12.79.13

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते ॥ १२.७९.१३ ॥

月神(苏摩)是婆罗门之王,这是吠陀的启示。然而人们却想售卖它,这样的行为是不被认可的。

12.79.14

तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः ॥ १२.७९.१४ ॥

凭借这购得的苏摩,依照法,祭祀得以广大。如此,通晓法的仙人们宣说了法。

12.79.15

पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत् ।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥ १२.७९.१५ ॥

当人、祭祀与苏摩都行为正直时,才会结出果实。行为不义之人,既不利于他人,也不利于自己。

12.79.16

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः ।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥ १२.७९.१६ ॥

身体即是祭器,这是所闻的启示。它们由伟大的婆罗门妥善准备。

12.79.17

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥ १२.७९.१७ ॥

苦行甚至胜过祭祀,这是至高的启示。因此,智者啊,我将为你宣说苦行;也请从我这里听闻。

12.79.18

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ १२.७९.१८ ॥

不杀生、说真话、仁慈、克制与悲悯——智者称之为苦行,而非使身体枯萎。

12.79.19

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥ १२.७९.१९ ॥

不承认吠陀的权威,违背论典,到处混乱——这些正是自我的毁灭。

12.79.20

निबोध दशहोतॄणां विधानं पार्थ यादृशम् ।
चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्।
न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश ॥ १२.७९.२० ॥

阿周那啊,你要明白十位祭司的规则:心是勺,心是酥油,至上的智慧是净化之物。没有欺诈,也没有邪曲;时间与地点——这便是十者。

12.79.21

सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ १२.७९.२१ ॥

一切欺诈是死亡之所;正直是梵之所。知识的范围便止于此——空洞的喋喋不休能成就什么?