Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.8.1

अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी ।
अभिनीततरं वाक्यं दृढवादपराक्रमः ॥ १२.८.१ ॥

于是阿周那仿佛按捺不住,说出了这番更为尖锐的话,他以坚定的言辞显示勇武。

12.8.2

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।
स्मयमानो महातेजाः सृक्किणी परिसंलिहन् ॥ १२.८.२ ॥

显露其如因陀罗般的形象,英勇猛烈,面带微笑,光辉巨大,舔舐着嘴角。

12.8.3

अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् ।
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥ १२.८.३ ॥

唉,何等悲痛!唉,何等艰难!唉,何等极大的软弱!既已行了非人之功,你却要舍弃至上的荣华。

12.8.4

शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् ।
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात् ॥ १२.८.४ ॥

你杀尽敌人,依自己的本分得到了大地,如今怎能因心志轻浮而舍弃它呢?

12.8.5

क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः ।
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः ॥ १२.८.५ ॥

无能之人,或拖延之人,怎能得到王国?再者,你怒火攻心,为何要杀害那些国王?

12.8.6

यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव कस्य चित् ।
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः।
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥ १२.८.६ ॥

若有人想靠乞讨为生,不靠任何人的劳作,又想借营生而兴旺,丧失福祉、一无所有,即使在诸世界中闻名,也不会拥有子嗣与牲畜。

12.8.7

कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः ।
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥ १२.८.७ ॥

国王啊,你采取了持颅者最罪恶的生计,为了生存而舍弃了繁荣的王国,这个世界将会如何议论你?

12.8.8

सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः ।
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो ॥ १२.८.८ ॥

主啊,你舍弃了一切事业,失去了吉祥,一无所有,为何愿意像普通人一样去乞食?

12.8.9

कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुंधराम् ।
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥ १२.८.९ ॥

你生于王族,征服了整个大地,为何出于愚昧而舍弃法与财富,前往森林?

12.8.10

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः ।
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्विषम् ॥ १२.८.१० ॥

若此处这些祭品被恶人所污,因无婆罗门之故,罪过必将落在你身上。

12.8.11

आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत् ।
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह ॥ १२.८.११ ॥

那呼沙确实曾如此论述圣贤的无所有之境。在贫困中行残暴之事,此地便当以你的贫穷为耻!

12.8.12

आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान् ।
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥ १२.८.१२ ॥

你知道,在圣贤之中确有安然自信之境;然而人们说,这法源于财富,依财富而运行。

12.8.13

धर्मं स हरते तस्य धनं हरति यस्य यः ।
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥ १२.८.१३ ॥

夺取他人财富者,也夺去他的法。王啊,财富被夺走时,我们为谁忍耐呢?

12.8.14

अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥ १२.८.१४ ॥

人们看待站在身旁的穷人,如同看待被告。在世间,贫穷是罪过;谁能说出这一点?

12.8.15

पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते ।
विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥ १२.८.१५ ॥

王啊,人们为堕落者哀悼,也为贫穷者哀悼。堕落者与无财者之间,我看不出有什么区别。

12.8.16

अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १२.८.१६ ॥

从增长且四处聚集的财富中,一切行为得以生起,如同河流从山中流出。

12.8.17

अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
प्राणयात्राऽपि लोकस्य विना ह्यर्थं न सिध्द्यति ॥ १२.८.१७ ॥

人主啊,法、欲与天界皆由财富而来。没有财富,世间的生活之旅也无法成就。

12.8.18

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ १२.८.१८ ॥

对于缺乏财富、智慧短浅之人,一切行为都被切断,如同小河在夏季干涸。

12.8.19

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ १२.८.१९ ॥

有财富的人有朋友;有财富的人有亲属。有财富的人才是世上的男子,有财富的人才是智者。

12.8.20

अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम् ।
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ १२.८.२० ॥

没有财富的人,即使渴望财富,也无法达成任何目的。如同大象被大象所缚,目的也被财富所缚。

12.8.21

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ १२.८.२१ ॥

人主啊,法、欲、天界、喜悦、愤怒、学问与克制,这一切都由财富而生。

12.8.22

धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते ।
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ १२.८.२२ ॥

家族因财富而兴起,法因财富而增长。人中最勇者啊,对无财之人而言,既无今世,也无来世。

12.8.23

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति ।
धनाद्धि धर्मः स्रवति शैलादभिनदी यथा ॥ १२.८.२३ ॥

无财之人不能如法地完成法的职责。法从财富中流出,如同河流从山中流出。

12.8.24

यः कृशार्थः कृशगवः कृशभृत्यः कृशांतिथिः ।
स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥ १२.८.२४ ॥

君王啊,财物匮乏、牛畜匮乏、仆役匮乏、宾客匮乏之人,才真正称为贫瘠;并非身体消瘦者。

12.8.25

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा ।
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः ॥ १२.८.२५ ॥

请依正理审视,观看天神与阿修罗之战。大王,天神除了贪求杀害自己的亲族,还贪求什么呢?

12.8.26

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् ।
एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥ १२.८.२६ ॥

若夺取他人之物不是法,那法又如何开始呢?吠陀中智者所定论的,正是如此。

12.8.27

अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ।
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥ १२.८.२७ ॥

三吠陀应当常常学习,智者也应当如此。应当以各种方式获取财富,并努力行祭祀。

12.8.28

द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः ।
द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः ॥ १२.८.२८ ॥

天神凭借背叛,获得了天上的一切居所。除了背叛,天神还以何种方式贪求自己的亲族呢?

12.8.29

इति देवा व्यवसिता वेदवादाश्च शाश्वताः ।
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च ॥ १२.८.२९ ॥

天神如此决定,吠陀中永恒的教义也是如此:人们学习、教授、行祭,并令人行祭。

12.8.30

कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः ।
न पश्यामोऽनपकृतं धनं किंचित्क्वचिद्वयम् ॥ १२.८.३० ॥

凡从他人所取得的,正是全然的善。我们在任何地方都看不到不伤害他人而得来的财富。

12.8.31

एवमेव हि राजानो यजन्ति पृथिवीमिमाम् ।
जित्वा ममेयं ब्रुवते पुत्रा इव पितृर्धनम् ॥ १२.८.३१ ॥

同样,国王们征服此大地后举行祭祀,并说:“这是我的”,如同儿子们说父亲的财富是自己的。

12.8.32

राजर्षयोऽपि ते स्वर्ग्या धर्मो ह्येषां निरुच्यते ॥ १२.८.३२ ॥

那些王仙也配得上天界,因为他们的法被如此宣告。

12.8.33

यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ।
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥ १२.८.३३ ॥

如同满盈的大海之水流向十方,王族之财富也流布而安立于大地。

12.8.34

आसीदियं दिलीपस्य नृगस्य नहुषस्य च ।
अंबरीपस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥ १२.८.३४ ॥

此大地曾属于迪利帕、那伽、那呼沙、安巴里沙和曼陀多;如今这大地安住于你身上。

12.8.35

स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः ।
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम् ॥ १२.८.३५ ॥

那以财物为体、备足一切布施的祭祀已降临于你;大王,若你不行此祭,你便将背负王权之罪。

12.8.36

येषां राजाऽश्वमेधेन यजते दक्षिणावता ।
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते ॥ १२.८.३६ ॥

凡国王以布施行马祭为之而举行者,他们都会到达祭仪终末的沐浴(阿婆鲁陀)之中而得清净。

12.8.37

विश्वरूपो महादेवः सर्वमेधे महामखे ।
जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥ १२.८.३७ ॥

大神毗湿伐鲁波在名为萨尔瓦梅陀的大祭中,将一切众生作为供品献祭;同样,他也以自身献祭自身。

12.8.38

शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम ।
महाजनपथं गन्ता मा राजन्कुपथं गमः ॥ १२.८.३८ ॥

这条兴盛之路是永恒的;我们听说它没有尽头。大王啊,请行走于大人之道,不要走歪路。