摩诃婆罗多 · 章 12.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.80.1
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं पितामह ॥ १२.८०.१ ॥
即使最微小的事,一个人独自无助也难以完成;何况治理王国,祖父啊?
12.80.2
किंशीलः किंसमाचारो राज्ञो यः सचिवो भवेत् ।
कीदृशे विश्वसेद्राजा कीदृशे न च विश्वसेत् ॥ १२.८०.२ ॥
担任国王大臣的人应有怎样的品性与行为?国王应信任哪种人,不应信任哪种人?
12.80.3
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत ।
सहार्थो भजः निश्च सहजः कृत्रिमस्तथा ॥ १२.८०.३ ॥
国王啊,国王的朋友有四种:同志之友、分享之友、天生之友与人为之友。
12.80.4
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः ।
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥ १२.८०.४ ॥
正法之人是第五种朋友;他不属于一人,也不属于二人。哪里有法,他便依附哪里,或保持中立。
12.80.5
यो यस्यार्थो न रोचेत न तं तस्य प्रकाशयेत ।
मित्राणां प्रकृतिर्नास्ति त्वमित्राणां च भारत।
उपकाराद्भवेन्मित्रमपकाराद्भवेदरिः ॥ १२.८०.५ ॥
不可向不喜其目的之人显露自己的意图。朋友没有固定的本性,婆罗多啊,敌人也没有。以恩惠成为朋友,以伤害成为敌人。
12.80.6
यस्यैव हि मनुष्यस्य नरो मरणमृच्छति ।
तस्य पर्यागते काले पुनर्जीवितुमिच्छति ॥ १२.८०.६ ॥
凡是死亡临近之人,到了那个时刻,便又渴望活下去。
12.80.7
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ।
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथाऽपरौ।
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥ १२.८०.७ ॥
渴望胜利的国王以法与非法行事。四者之中,居中的两者和最优秀的两者,永远都值得怀疑,其余二者亦然。对所有人都应时刻警惕怀疑;自己的事务应亲自直接处理。
12.80.8
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे ।
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥ १२.८०.८ ॥
国王在保护朋友时不可疏忽,因为民众必定会轻慢疏忽的国王。
12.80.9
असाधुः साधुतामेति साधुर्भवति दारुणः ।
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥ १२.८०.९ ॥
不善者转为善良,善良者变得残忍。敌人成为朋友,朋友也会变坏。
12.80.10
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् ।
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥ १२.८०.१० ॥
心志不定之人,谁能永远信任?因此,主要的事务应当亲自直接去办。
12.80.11
एकान्तेन हि विश्वासः कृत्स्नो कर्मार्थनाशकः ।
अविश्वासश्च सर्वत्र मृत्युर्नापि विशिष्यते ॥ १२.८०.११ ॥
完全、绝对的信任会毁掉事业与财富;而处处的不信任,也不逊于死亡本身。
12.80.12
अकालमृत्युर्विश्वासोऽविश्वसन्हि विपद्यते ।
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥ १२.८०.१२ ॥
信任如同不合时的死亡,因为不信任的人会灭亡。人所信任的那个人,正是想要活下去的人所依赖的。
12.80.13
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् ।
एषा नीतिगतिस्तात लक्ष्मीश्चैषा सनातनी ॥ १२.८०.१३ ॥
因此,对某些人应当信任,对某些人则应当警惕。孩子,这便是政治之道,也是永恒的吉祥。
12.80.14
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् ।
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥ १२.८०.१४ ॥
若有人想到在我不在时,此利益会落到某人身上,应始终对其心存戒备;智者称此人为敌人。
12.80.15
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति ।
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥ १२.८०.१५ ॥
若某人田中的水流入他人之田,即使他不愿意,那里所有的堤坝也都会被冲破。
12.80.16
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति ।
यमेवंलक्षणं विद्यात्तममित्रं विदुर्बुधाः ॥ १२.८०.१६ ॥
同样,若有人因惧怕水多而想毁坏他人之堤,应当以此特征识别此人;智者称此人为敌人。
12.80.17
यस्तु वृद्ध्या न तप्येत क्षये दीनतरो भवेत् ।
एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥ १२.८०.१७ ॥
然而,见他人兴盛而不悲伤,遭受损失却更加悲苦者——这被称为仇敌的最高标志。
12.80.18
यन्मन्येत ममाभावादस्याभावो भवेदिति ।
तस्मिन्कुर्वीत विश्वासं यथा पितरी वै तथा ॥ १२.८०.१८ ॥
若有人认为我不在时,他也将不复存在,那么应当信任此人,如同信任父母一般。
12.80.19
तं शक्त्या वर्तमानं च सर्वतः परिबृंहयेत् ।
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥ १२.८०.१९ ॥
应当全方位鼓励那依其能力行事的人;而在合乎法义的行为中也始终阻止他受害的人,才是益友。
12.80.20
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् ।
ये यस्य क्षयमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १२.८०.२० ॥
应当把畏惧伤害的人视为上等益友的标志;那些希望他人败亡的人,被视为其仇敌。
12.80.21
व्यसनान्नित्यभीतो यः समृद्ध्या यो न दुष्यति ।
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥ १२.८०.२१ ॥
时时畏惧灾难、在繁荣中也不堕落的朋友,被称为与自己相等的人。
12.80.22
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः ।
कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः ॥ १२.८०.२२ ॥
容貌、肤色与声音俱佳,能忍耐,无嫉妒,出身高贵,品行端正——愿他成为你最亲近的同类。
12.80.23
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान् ।
यो मानितोऽमानितो वा न सन्तुष्येत्कथंचन ॥ १२.८०.२३ ॥
聪明、记忆力好、精明,天性仁慈,受尊敬或受轻慢,都绝不因此而自满的人。
12.80.24
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यंतसत्कृतः ।
गृहे वसेदमात्यस्ते स स्यात्परमपूजितः ॥ १२.८०.२४ ॥
若祭司、老师或极受尊敬的朋友住在你家,或是你的大臣,他就应当受到最高的尊崇。
12.80.25
संविद्याः परमं मित्रं प्रकृतिं चार्थधर्मयोः ।
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥ १२.८०.२५ ॥
与你共商议事者是最高的朋友,他通晓利与法的本性。你对他应当像对父亲一样信任。
12.80.26
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् ।
एकार्थे हेतुभूतानां भेदो भवति सर्वदा ॥ १२.८०.२६ ॥
不可以两人或三人同为谋臣,他们或许互不容忍。即使是为同一目标而聚集的人,也总会产生分歧。
12.80.27
कीर्तिप्रधानो यस्त स्याद्यश्च स्यात्समये स्थितः ।
समर्थान्यश्च न द्वेष्टि नानर्थान्कुरुते च यः ॥ १२.८०.२७ ॥
以名声为首要、在适当时机坚定不移、不憎恶有能力之人、不作恶事的人,应当成为谋臣。
12.80.28
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् ।
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥ १२.८०.२८ ॥
不因欲望、恐惧、贪婪或愤怒而舍弃法、且精明善言者,应当成为你最亲近的(谋臣)。
12.80.29
कुलीनः शीलसंपन्नस्तितिक्षुरविकत्थनः ।
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः ॥ १२.८०.२९ ॥
出身高贵、品行端正、能忍耐、不自夸、勇敢、高尚、博学,并善于理解与应对。
12.80.30
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः ।
पूजिताः संबिभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥ १२.८०.३० ॥
应当任命这样的人为大臣:在各项事务中各司其职,受到尊重,分享赏赐,有良好的辅佐,并且能够恰当履行职责。
12.80.31
कृत्स्नप्रेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु ।
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्त्युत ॥ १२.८०.३१ ॥
那些被授予全权、担任适当职务并参与重大事务的人,必定能带来福祉。
12.80.32
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा ।
अनुतिष्ठन्ति चैवार्थमाचक्षाणाः परस्परम् ॥ १२.८०.३२ ॥
他们总是在相互竞争中完成各自的事务,并彼此说明目标而去实现它。
12.80.33
ज्ञातिभ्यो बिभियाश्चैव मृत्योरिव यतस्तदा ।
उपराजेव राजर्धि ज्ञातिर्न सहते सदा ॥ १२.८०.३३ ॥
应当像畏惧死亡一样畏惧亲族,因为,王仙啊,亲族从不容忍他人的崛起,就像不容忍一个附属之王那样。
12.80.34
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥ १२.८०.३४ ॥
大臂者啊,除了亲族,没有人会为正直、温和、慷慨、知耻、诚实之人的毁灭而欢喜。
12.80.35
अज्ञातयोऽप्यसुखदा ज्ञातयोऽपि सुखावहाः ।
अज्ञातिमन्तं पुरुषं परे चाभिभवन्त्युत ॥ १२.८०.३५ ॥
非亲族也会带来痛苦,亲族也会带来快乐;没有亲族的人会被他人压制。
12.80.36
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् ।
नान्यो निकारं सहते ज्ञातिर्ज्ञातेः कदाचन ॥ १२.८०.३६ ॥
被他人侵害的人,唯有亲族才是依靠;别人不会容忍这种侵害,而亲族也从不容忍亲族受到的侵害。
12.80.37
आत्मानमेव जानाति निकृतं बान्धवैपरि ।
तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते ॥ १२.८०.३७ ॥
受亲属侮辱的人,最了解自己。他们之中有德行,也可见无德之处。
12.80.38
नाज्ञातिरनुगृह्णाति नाज्ञातिर्वृद्धिमश्नुते ।
उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च ॥ १२.८०.३८ ॥
非亲族之人不施恩惠,非亲族之人也不得昌盛。在亲族群体之中,善与恶两者皆可见到。
12.80.39
संमानयेत्पूजयेच्च वाचा नित्यं च कर्मणा ।
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिद चरेत् ॥ १२.८०.३९ ॥
应当常常以言语和行动尊敬并礼拜他们。应当做他们喜欢的事,而不做任何令他们不快的事。
12.80.40
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा ।
न हि दोषो गुणो वेति निरूप्यस्तेषु दृश्यते ॥ १२.८०.४० ॥
对待他们,应当时而如信任者,时而如不信任者。应当辨明他们身上是过失还是优点,因为两者在他们身上都可见到。
12.80.41
अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः ।
अमित्राः संप्रसीदन्ति ततो मित्रं भवन्त्यपि ॥ १२.८०.४१ ॥
对于如此行事、保持警觉的人,连敌人也会变得和悦,随后他们也会成为朋友。
12.80.42
य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले ।
मित्रेष्वमित्रे मध्यस्थे चिरं यशसि तिष्ठति ॥ १२.८०.४२ ॥
凡在亲族与姻亲的圈子中,始终如此待人,无论对朋友、敌人还是中立者,此人便长久地立于名声之中。