Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.83.1

सभासदः सहायाश्च सुहृदश्च विशांपते ।
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह ॥ १२.८३.१ ॥

人民之主啊,议会成员、助手与友人,以及随从与大臣,应当是怎样的人呢,祖父?

12.83.2

ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः ।
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥ १२.८३.२ ॥

知羞耻、能克制、具真实与正直、且善于恰当言谈者,这些人才应是您的议会成员。

12.83.3

अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः ।
सुसंतृष्टाश्च कौन्तेय महोत्साहाश्च कर्मसु ॥ १२.८३.३ ॥

贡蒂之子啊,您的大臣应当极其勇敢、敬奉婆罗门、博学多识、十分知足,并在职事中充满巨大的热忱。

12.83.4

एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत ॥ १२.८३.४ ॥

婆罗多的后裔啊,在一切灾难之中,您应当力求得到这些助手。

12.83.5

कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ।
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा।
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम् ॥ १२.८३.५ ॥

出身高贵之人,若常受尊敬,便不会隐藏自己的才能;无论喜悦或不悦,困苦或甚至衰败,受到扶持之人总会加倍地报答同样的服务。

12.83.6

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः ।
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥ १२.८३.६ ॥

出身高贵、本地出生、有智慧、仪表端正、博学、果敢而忠诚者,这些人才应是您的随从。

12.83.7

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः ।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥ १२.८३.७ ॥

出身卑贱、贪婪、残忍而无耻之人,孩子,只会在他们手上有利可图时侍奉你。

12.83.8

कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान् ।
देशकालविधानज्ञान्भर्तृकार्यहितैपिणः।
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ १२.८३.८ ॥

国王在一切事务中,应当常设知其暗示、品行端正、坚定不移、懂得时地规矩、且为主上之事谋取利益的出身高贵者为大臣。

12.83.9

अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः ।
यानर्थभाजो मन्येथास्तेते स्युः सुखभागिनः ॥ १२.८३.९ ॥

你以财富、荣誉、礼物、敬重以及大小可意的享乐来使其分享利益者,他们将成为分享幸福的人。

12.83.10

अभिन्नवृत्ता विद्वांसः सद्वॄत्ताश्चरितव्रताः ।
नत्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥ १२.८३.१० ॥

行为坚定不移、博学、品行端正、持守誓愿、常求你之利益、不卑鄙而说真话的人,永远不会离弃你。

12.83.11

अनार्या ये न जानन्ति समयं मन्दचेतसः ।
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः ॥ १२.८३.११ ॥

凡不懂既定规矩的卑劣愚钝之人,你应当远离他们;对那些背弃既定规矩的人,也当如此。

12.83.12

नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः ।
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥ १२.८३.१२ ॥

不可舍弃一个群体而只想依附一人;若真遇到这种情况,而一人胜过众人,则可为他而离开那个群体。

12.83.13

श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते ।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥ १२.८३.१३ ॥

这便是卓越的标志:有勇气显现、以名声为首要、并在适当时候坚定不移的人。

12.83.14

समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः ।
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥ १२.८३.१४ ॥

敬重有能力者,不与不宜相争者争竞,也不因欲望、恐惧、愤怒或贪婪而舍弃法。

12.83.15

अमानी अत्यवाक्शक्तो जितात्मा मानसंयुतः ।
स ते मन्त्रसहायः स्यात्सर्वावस्थापरीक्षितः ॥ १२.८३.१५ ॥

愿他成为你的谋议助手:无傲慢,善于言辞,自制且有德望,并经历各种境况的考验。

12.83.16

कुलीनः कुलसंपन्नस्तितिक्षुर्दश आत्मवान् ।
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥ १२.८३.१६ ॥

出身良好、家世高贵、忍耐、自制、勇敢、感恩且诚实——阿周那,这便是卓越的标志。

12.83.17

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः ।
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि ॥ १२.८३.१७ ॥

对于如此行事而明智的人,敌人也会平息,并转为朋友。

12.83.18

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम् ।
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥ १२.८३.१८ ॥

此后,自制、智慧成熟且渴望繁荣的君主,应当考察大臣们的优点与缺点。

12.83.19

संबन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः ।
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः ॥ १२.८३.१९ ॥

由亲属、可靠之人、出身高贵、生于本国、不可收买、不会背叛、并经过各方面充分考验的人来担任。

12.83.20

यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः ।
कर्तव्या भूतिकामेन पुरुषेण बुभूपता ॥ १२.८३.२० ॥

出身于 Yavana 族、精通吠陀、世代为仆、不骄傲的人,应当由渴望繁荣并想要称王的人来任用。

12.83.21

एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना ।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ॥ १२.८३.२१ ॥

他们的智慧受过训导,本性也优良;他们具备威仪、坚毅、宽容、纯洁、忠诚、稳重与恒定。

12.83.22

परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान् ।
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः ॥ १२.८३.२२ ॥

国王应当常常考察他们的品德,选用性格成熟、能担大任、已通过五种诡计考验、善于办事的人作为大臣。

12.83.23

पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् ।
कुलीनान्सत्वसंपन्नानिङ्गितज्ञाननिष्ठुरान् ॥ १२.८३.२३ ॥

能言善辩、英勇、善于应对、出身高贵、有气节、能察言观色而不苛刻的人。

12.83.24

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः ।
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः ॥ १२.८३.२४ ॥

大王啊,在一切事务中,应当常常任用那些通晓地利与时宜、一心谋求主上事业与利益的人作为谋臣。

12.83.25

हीनतेजोभिसंसृष्टो नैव जातु व्यवस्यति ।
अवश्यं जनयत्येव सर्वकर्मसु संशयम् ॥ १२.८३.२५ ॥

与缺乏光辉之人相交者,从不能决断;他必然在一切事务中引起疑惑。

12.83.26

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम् ॥ १२.८३.२६ ॥

同样,学识浅薄的大臣,即便出身高贵,并具足法、利、欲,也不能够审察谋略。

12.83.27

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः ।
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥ १२.८३.२७ ॥

同样,出身卑微之人,即便博学多闻,在需要深思熟虑的事务中也会迷惑,如同无人引导的盲人。

12.83.28

यो वाऽप्यस्थिरसंकल्पो बुद्धिमानागतागमः ।
उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम् ॥ १२.८३.२८ ॥

若其决心不定,纵然聪明、能知来事、善晓方便,也不能长久地将事业完成。

12.83.29

केवलात्पुनरादानात्कर्मणो नोपपद्यते ।
परामर्शो विशेषणामश्रुतस्येह दुर्मतेः ॥ १२.८३.२९ ॥

仅仅反复去做,事业是不能成就的;在此,那不曾听闻细微区别的恶念之人的思量也无成效。

12.83.30

मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते ।
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥ १२.८३.३० ॥

对不忠诚的大臣,信任无从产生;因此,绝不应向不忠诚之人透露谋略。

12.83.31

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः ।
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥ १२.८३.३१ ॥

与大臣们勾结的奸诈之人必定会折磨国王,就像火借着风造成的缝隙进入,焚烧树木一样。

12.83.32

संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति ।
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति ॥ १२.८३.३२ ॥

愤怒的主人有时甚至会把人从职位上撤下,以激烈的言辞斥骂他,之后又重新平息下来。

12.83.33

तानितान्यनुरक्तेन शक्यानि हि तितिक्षितुम् ।
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥ १२.८३.३३ ॥

忠诚之人能够忍受这些;而大臣的愤怒也可能如雷霆炸响一般。

12.83.34

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया ।
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥ १२.८३.३४ ॥

但在事务上应当询问那样的人:他为了讨主人欢心而平息这些怒气,在喜乐与悲伤中都同样平静。

12.83.35

अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः ।
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥ १२.८३.३५ ॥

奸诈之人,即使忠于国王、具备其他美德并有智慧,仍不配听闻国王的机密谋议。

12.83.36

योऽमित्रैः सह संबद्धो न परान्बहुमन्यते ।
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति ॥ १२.८३.३६ ॥

与敌人相勾结、不尊重他人的人,应当被视为这样的非友人;他不配听闻机密谋议。

12.83.37

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः ।
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥ १२.८३.३७ ॥

无知、不净、傲慢、侍奉敌人、夸夸其谈、非朋友、易怒而贪婪的人,不配听闻谋议。

12.83.38

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः ।
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥ १२.८३.३८ ॥

新来者,即便忠诚、博学、受过礼遇或分得过财物,也不配听闻谋议。

12.83.39

विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा ।
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति ॥ १२.८३.३९ ॥

其父昔日曾因不义而受辱,后又受礼遇并重新被立,此人亦不配听闻谋议。

12.83.40

यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत् ।
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥ १२.८३.४० ॥

即便只是为了些许小事被朋友召来,并且具备其他品德的人,也不配听闻谋议。

12.83.41

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः ।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥ १२.८३.४१ ॥

具备历练智慧、聪慧、有见识、为本土之人、清净、并在一切行为中正直者,才配听闻谋议。

12.83.42

ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः ।
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥ १२.८३.४२ ॥

具备知识与见识、通晓事理、了解他人与自身之性情,为君王之友且与之相当者,才配听闻谋议。

12.83.43

सत्यवाक्शीलसंपन्नो गन्भीरः सत्रपो मृदुः ।
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥ १२.८३.४३ ॥

诚实守信、品行端正、深沉稳重、知羞耻、温和,且出自父祖世传之家者,方配听闻谋议。

12.83.44

संतुष्टः संमतः सद्भिः शौटीरो द्वेष्यपापकः ।
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥ १२.८३.४४ ॥

知足、为善人所尊、不骄傲亦不可憎、无罪过,通晓谋略与时机,且勇敢者,方配听闻谋议。

12.83.45

सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशम् ।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥ १२.८३.४५ ॥

能以安抚使这整个世界归服者,应当向他献上谋议;国王啊,欲施惩罚者亦当如此。

12.83.46

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः ।
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥ १२.८३.४६ ॥

城乡百姓依于正法而信赖之者,善战且精通政略者,方配听闻谋议。

12.83.47

तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः ।
मन्त्रिणः प्रकृतिज्ञाः स्युख्यवरा महदीप्सवः ॥ १२.८३.४७ ॥

故大臣须具备上述诸德,备受尊崇,通晓国家各要素,居于首位而卓越,志在宏大事业。

12.83.48

स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च ।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥ १२.८३.४८ ॥

应察觉自国与敌国诸要素中的破绽;因国王之国,乃从大臣谋议之根而兴盛。

12.83.49

नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।
गूहेत्कूर्म इवाङगानि रक्षेद्विवरमात्मनः ॥ १२.८३.४९ ॥

敌人不应看见他的弱点,而应在对方的弱点中追逐。如同乌龟藏起四肢,应当守护自己的缺口。

12.83.50

मन्त्रग्राहा हि राजस्य मन्त्रिणो ये मनीषिणः ।
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जन्गः ॥ १२.८३.५० ॥

接受国王谋略的是有智慧的大臣。国王是谋略坚固的堡垒;其他人是谋略的肢体,如同大腿。

12.83.51

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते ।
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः ॥ १२.८३.५१ ॥

人们说,国家根基在于间谍,这正是谋略的精髓。此处,大臣们为了生计而追随其主。

12.83.52

संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः ।
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥ १२.८३.५२ ॥

克制放纵、愤怒、骄傲与嫉妒,并始终超越五种考验,应与大臣们商议。

12.83.53

तेषां त्रयाणां त्रिविधं विमर्शं ।
विबुध्य चित्तं विनिवेश्य तत्र।
स्वनिश्चयं तं परनिश्चयं च ।
निदर्शयेदुत्तरमन्त्रकाले ॥ १२.८३.५३ ॥

了解这三者的三重考量,并将心思专注于此,在最后商议之时,应当显明自己的决断与敌人的决断。

12.83.54

धर्मार्थकामज्ञमुपेत्य पृच्छे ।
द्युक्तो गुरुं ब्राह्मणमुत्तरार्थम्।
निष्ठा कृता तेन यदा सहः स्या ।
त्तं मन्त्रमार्गं प्रणयेदसक्तः ॥ १२.८३.५४ ॥

应当走近通晓法、利、欲的人,询问师长与婆罗门。为结果而努力,待他决断且有能力时,应当无执着地推行那条谋略之道。

12.83.55

एवं सदा मन्त्रयितत्र्यमाहु ।
र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः।
तस्मात्तमेवं प्रणयेत्सदैव ।
मन्त्रं प्रजासंग्रहणे समर्थम् ॥ १२.८३.५५ ॥

如此应常常商议,知晓谋略真义与确定之理者如是说。故能使民众团结的谋议,应当常常如此进行。

12.83.56

न वामनाः कुब्जकृशा न खञ्जा ।
नान्धा जडाः स्त्री च नपुंसकाश्च।
न चात्र तिर्यक्च पुरो न पश्चा ।
न्नोर्ध्वं न चाधः प्रपरेत्कथंचित् ॥ १२.८३.५६ ॥

侏儒、驼背、羸弱者、跛者、盲人、愚钝者、女子与阉人,任何人都不得以任何方式进入;此处也不得有人横立、在前、在后、在上或在下。

12.83.57

आरुह्य वा वेश्म तथैव शून्यं ।
स्थलं प्रकाशं कुशकाशहीनम्।
वागङ्गदोषान्परिहृत्य सर्वा ।
न्संमन्त्रयेत्कार्यमहीनकालम् ॥ १२.८३.५७ ॥

登上屋顶,或同样到空旷开阔、无茅草与芦苇的地方,避免言语与肢体动作的一切过失,于恰当时机商议事务。