摩诃婆罗多 · 章 12.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.84.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ॥ १२.८४.१ ॥
此处人们也讲述这个古老的故事——布利哈斯帕蒂与帝释天(因陀罗)的对话,持军啊。
12.84.2
किंस्विदेकपढं ब्रह्मन्पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ १२.८४.२ ॥
梵者啊,人若善行一件事,便能成为万物的准则,并获得大名,那是哪一件呢?
12.84.3
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ १२.८४.३ ॥
帝释啊,安抚——温和的言语与和善——便是那一步;人若善行之,便成为万物的准则,获得大名。
12.84.4
एतदेकपदं शक्र सर्वलोकसुखावहम् ।
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥ १२.८४.४ ॥
帝释啊,这便是那一步,能为一切世界带来安乐;行之者在万物之中永远受人喜爱。
12.84.5
यो हि नाभाषते किंचित्सर्वदा भुकुटीमुखः ।
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥ १२.८४.५ ॥
若人总是皱眉而不说任何话,他便会为众生所憎恶;在此不行安抚之道的人也是如此。
12.84.6
यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते ।
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥ १२.८४.६ ॥
然而,凡事先仔细观察、然后率先开口、面带微笑而言者,其世界便会欢喜。
12.84.7
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् ।
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ॥ १२.८४.७ ॥
若施舍时不以安慰之言相伴,便不能使众生欢喜,犹如无调味之食。
12.84.8
आददन्नपि भूतानां मधुरामीरयन्गिरम् ।
सर्वलोकमिमं शक्र सान्त्वेव कुरुते वशे ॥ १२.८४.८ ॥
帝释啊,即使从众生处索取,若以甜美之言说话,便能仅凭安抚而使整个世界归顺。
12.84.9
तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि ।
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः ॥ १२.८४.९ ॥
因此,即使想要施加惩罚的人,也应使用安抚;如此便能生出爱戴,人们也不会对他感到恐惧。
12.84.10
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥ १२.८४.१० ॥
凡是善行、温和、柔顺而甜美的安抚,若能恰当地施行,便无物可与之相比。
12.84.11
इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा ।
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥ १२.८४.११ ॥
帝释听从了祭司所说的一切而行;因此,你也应当好好地践行此道,贡蒂之子啊。