摩诃婆罗多 · 章 12.85
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.85.1
कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः ।
प्रैति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ १२.८५.१ ॥
诸王之主啊,国王在世间保护臣民时,如何特别地获得法,并得到永恒的声名?
12.85.2
व्यवहारेण शुद्धेन प्रजापालनतत्परः ।
प्राप्य धर्मं च कीर्ति च लोकानाप्नोत्यसौ शुचिः ॥ १२.८५.२ ॥
那位以纯净的行为、专心保护臣民的清净之王,获得法与名声,并抵达诸世界。
12.85.3
कीदृशव्यवहारं तु कैश्च व्यवहरेन्नृपः ।
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥ १२.८५.३ ॥
国王应当采取怎样的行为?应当与何人交往?大智者啊,既然被问及此事,您应当如实解说。
12.85.4
ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति ।
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥ १२.८५.४ ॥
先前所说的那些德性,就一个人而言,我以为不会同时存在于同一个人身上。
12.85.5
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन् ।
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः ॥ १२.८५.५ ॥
大智而明慧者啊,正如您所说:具备这些吉祥德性的人是稀有的。
12.85.6
किंतु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम् ।
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि ॥ १२.८५.६ ॥
但我将简要谈谈品性,它即使经过努力在此也很难得,以便您能使您的大臣们成为应有的样子。
12.85.7
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन् ।
क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः ॥ १२.८५.७ ॥
四位婆罗门、医师、勇敢而有才能者、已完成学业者、清净者;十位与八位强壮的刹帝利,手持兵器。
12.85.8
वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया ।
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥ १२.८५.८ ॥
二十一位富足的吠舍,以及三位在先前职事中谦逊清净的首陀罗。
12.85.9
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा ।
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥ १२.८५.९ ॥
具备八种品德的苏多,同时也是诵说往世书者,五十岁,勇敢而无嫉妒。
12.85.10
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम् ।
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥ १२.८५.१० ॥
精通天启与传承经典,谦逊,一视同仁,在争论事务的人中有能力,对财物无贪欲。
12.85.11
वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम् ।
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥ १२.८५.११ ॥
完全远离七种可怕的恶习;在八位大臣之中,君王应秘密地听取谋议。
12.85.12
ततः संप्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत् ।
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ १२.८५.१२ ॥
然后他应派遣他们到国中,向国中百姓显示(其所作);以此行为,应常常观察民众。
12.85.13
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम् ।
कार्ये खलु विपन्ने त्वां यो धर्मस्तं च पीडयेत् ॥ १२.८५.१३ ॥
你绝不可取用有害于事业的隐藏财物。事业失败之时,那正道便会折磨你。
12.85.14
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव ।
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥ १२.८५.१४ ॥
你的国家将如鸟群遇鹰般四散,又如海中破损的船只,不断渗漏。
12.85.15
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः ।
हार्दं भयं संभवति स्वर्गश्चस्य विरुध्यते ॥ १२.८५.१५ ॥
在此,若君王以非法、不当的方式护佑臣民,心中便会生出恐惧,他的天界也会受阻。
12.85.16
अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः ।
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ ॥ १२.८५.१६ ॥
若有君王、大臣或儿子依法护佑,被任于法座,立于法之根本,啊人中之牛!
12.85.17
स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह ।
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः।
आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः ॥ १२.८५.१७ ॥
君王与所任命的大臣一同升天。但那些受托理事而不妥善行事、身为君王近侍却将自己置于前列的人,会与君王们一同坠落。
12.85.18
बलात्कृतानां वलिभिः कृपणं बहुजल्पताम् ।
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥ १२.८५.१८ ॥
对于那些被强者以暴力压迫、悲切哀号、无人庇护的人们,君王应当永远做他们的庇护者。
12.85.19
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत् ।
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥ १२.८५.१९ ॥
此时,在双方争议中以证人之力为准是恰当的;对于无证人或无依靠的案件,应当特别审查。
12.85.20
अपराधानुरूपं च दण्डं पापेषु धारयेत् ।
वियोजयेद्धनैर्ऋद्धानधनानथ बन्धनैः ॥ १२.८५.२० ॥
应依罪行施以相称的刑罚于恶人;富者以财物分别,贫者以锁链拘束。
12.85.21
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः ।
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥ १२.८५.२१ ॥
君王应以打击约束行为不端者,以安抚和施舍保护品行端正者。
12.85.22
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् ।
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च ॥ १२.८५.२२ ॥
欲杀君王者,应受奇特之刑;纵火者、盗贼及造成种姓混杂者,亦同此论。
12.85.23
सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते ।
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः ॥ १२.८५.२३ ॥
人主啊,君王若恰当地施行刑罚,或受委托者如此施行,则并无不义;这正是永恒之法。
12.85.24
कामकारेण दण्डं तु यः कुर्यादविचक्षणः ।
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति ॥ १२.८५.२४ ॥
无智者若任意施刑,此世即蒙恶名,死后便堕入地狱。
12.85.25
न परस्य प्रवादेन परेषां दण्डमर्पयेत् ।
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा ॥ १२.८५.२५ ॥
不可因他人的指控而惩罚他人。应先考察事情的来龙去脉,再决定拘押或释放。
12.85.26
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि ।
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥ १२.८५.२६ ॥
即便遭遇任何危难,国王也绝不可杀害使者;杀害使者者连同其辅臣一起堕入地狱。
12.85.27
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः ।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ १२.८५.२७ ॥
若国王专注于刹帝利之法,杀害了照所嘱咐而言的使者,其祖先将承受杀害胎儿的罪过。
12.85.28
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः ।
यथोक्तवादीस्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥ १२.८५.२८ ॥
出身高贵、品行端正、善于辞令、精明干练、言辞和悦、能照所嘱而言、记忆力强——具备这七种品质者方可为使者。
12.85.29
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता ।
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥ १२.८५.२९ ॥
具备这些品质者,即可成为守门官及君王的护卫;具备相同品质者,也可成为护头之卫。
12.85.30
धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत् ।
मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता ॥ १२.८५.३० ॥
通晓法论与政事精义者,应任和战之官;他应当聪慧、坚定、知耻,并善于守密。
12.85.31
कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते ।
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥ १२.८५.३१ ॥
出身良好、德性圆满、品行清白的大臣值得称赞;具备同样品德者也应担任军队统帅。
12.85.32
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः ।
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥ १२.८५.३२ ॥
通晓阵列、器械与兵器之理,勇武过人,能忍受雨、寒、暑、风,并知晓敌方的弱点。
12.85.33
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित् ।
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥ १२.८५.३३ ॥
应当使他人信任自己,自己却不可信任任何人。王中之王啊,即使对儿子,轻信也不值得称赞。
12.85.34
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ ।
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥ १२.८५.३४ ॥
无罪之人啊,我已把这经典要义的根本告诉你了。对君王而言,不信任被称为最高的秘密。