Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.86.1

कथंविधं पुरं राजा स्वयमावस्तुमर्हति ।
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥ १२.८६.१ ॥

国王亲自居住的城市应当是什么样的?是自己建造的还是命人建造的?请告诉我,祖父。

12.86.2

वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना ।
न्याय्यं च परिप्रष्टुं वृत्तिं गुप्तिं च भारत ॥ १२.८६.२ ॥

贡蒂之子啊,在应与子嗣、亲族和眷属同居之处,正当地询问生计与保护,也是应该的,婆罗多之子啊。

12.86.3

तस्मात्ते र्तयिष्यामि दुर्गकर्म विशेषतः ।
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥ १२.८६.३ ॥

因此,我将特别为你讲述筑造堡垒之事。听后应当照此去做,并且谨慎地奉行。

12.86.4

षङ्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् ।
सर्वसंपत्प्रधानं च बाहुल्यं चापि संभवेत् ॥ १२.८६.४ ॥

依托六种堡垒,应当建立城市;城市应是一切财富中的首位,并且也可能出现丰饶。

12.86.5

धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च ।
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गं च तानि षट् ॥ १२.८६.५ ॥

沙漠堡、土地堡、山岳堡,同样还有人力堡、泥土堡和林中堡——这便是六种。

12.86.6

यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम् ।
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् ॥ १२.८६.६ ॥

那座城市,具备堡垒,储备粮食与武器,有坚固的城墙和壕沟,并且挤满了象、马与战车。

12.86.7

विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः ।
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥ १२.८६.७ ॥

凡有学者与工匠之处,储备充足,又有依正法而立、精于至上技艺之人之处;

12.86.8

ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् ।
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥ १२.८६.८ ॥

城中充满强壮之人、象与马,十字路口与市场装饰其间,贸易闻名,安宁而四方无惧;

12.86.9

सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् ।
शूराढ्यं प्राज्ञसंपूर्णं ब्रह्मघोषानुनादितम् ॥ १२.८६.९ ॥

光彩夺目,回声悠扬,布局极其得当,英雄众多,智者充满,回荡着吠陀诵读之声;

12.86.10

समाजोत्सवसंपन्नं सदापूजितदैवतम् ।
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत् ॥ १२.८६.१० ॥

城中有集会与节庆,诸神常受供奉;大臣与军队皆受其控制的君王,应亲自进入此城;

12.86.11

तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् ।
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥ १२.८६.११ ॥

在彼处,他应增加府库、军队、盟友与贸易,并在城邑与国土中消除一切弊病;

12.86.12

भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् ।
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटंकटान् ॥ १२.८६.१२ ॥

应尽力增加仓库与兵器库;同样应增加一切储备,以及器械与攻城之具;

12.86.13

काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् ।
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥ १२.८६.१३ ॥

木材、铁、谷壳与炭,木料、角、骨与竹,骨髓、油、脂肪、蜂蜜,以及药材的储备。

12.86.14

शणं सर्जरसं धान्यमायुधानि शरांस्तथा ।
चर्म स्नायुं तथा वेत्रं मुञ्जवल्वजदंध्वनान् ॥ १२.८६.१४ ॥

麻纤维、娑罗树脂、谷物、武器与箭,以及皮革、筋、藤条、茅草、伐尔伐遮纤维和丹德温芦苇。

12.86.15

आशयाश्चोदपानाश्च प्रभूतसलिलाकराः ।
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ॥ १२.८६.१५ ॥

君王应当始终掌控蓄水池与水井、丰沛的水源,以及产乳的树木。

12.86.16

सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः ।
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ॥ १२.८६.१६ ॥

应当尽心敬重师长、祭司、家族祭司,大弓箭手、营造师与岁医。

12.86.17

प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः ।
कुलीनाः सत्वसंपन्ना युक्ताः सर्वेषु कर्मसु ॥ १२.८६.१७ ॥

智慧、聪颖、克己、精明、勇敢、博学、出身高贵且意志坚定之人,皆可胜任一切事务。

12.86.18

पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मेकान् ।
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥ १२.८६.१८ ॥

君王应敬重守法之人,约束不法之徒,并尽心让各阶层之人各司其职。

12.86.19

बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा ।
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥ १२.८६.१९ ॥

通过间谍充分了解城市与乡村的内外事务之后,然后才应采取行动。

12.86.20

चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः ।
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥ १२.८६.२० ॥

君王自己应特别留意间谍、谋议、府库与刑杖,因为一切都建立于此。

12.86.21

उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् ।
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥ १२.८६.२१ ॥

中立者、敌人与友人所欲行之事,无论城市还是乡村,都应以间谍之眼加以察知。

12.86.22

ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः ।
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता ॥ १२.८६.२२ ॥

于是应对他们一一妥善安排,毫不懈怠:常常尊敬忠诚者,并制止怀有敌意者。

12.86.23

यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया ।
प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम् ॥ १२.८६.२३ ॥

应当常以祭祀行祭,并不加压迫地施予布施。应当保护臣民;凡有碍于法者,不可为之。

12.86.24

कृपणानाथवृद्धानां विधवानां च योषिताम् ।
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥ १२.८६.२४ ॥

应当常常为贫苦者、无依者、老人及寡妇安排生计与保障。

12.86.25

आश्रमेषु यथाकालं चैलभाजनभोजनम् ।
सदैवोपहरेद्राजा सत्कृयाभ्यर्च्य मान्य च ॥ १२.८६.२५ ॥

在隐修处,царь应当按时始终供奉衣物、器皿与食物,以恭敬之心礼敬,并尊重值得敬重者。

12.86.26

आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च ।
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥ १२.८६.२६ ॥

国王应当恭谨地将自身、一切事务乃至国家都向苦行者禀报,并始终保持谦恭。

12.86.27

ते कस्यांचिदवस्थायां शरणं शरणार्थिने ।
राज्ञे दद्युर्यथाकामं तापसाः शंसितव्रताः ॥ १२.८६.२७ ॥

那些持守受赞誉誓愿的苦行者,无论处于何种境况,都可依其所愿,为寻求庇护的国王提供庇护。

12.86.28

सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् ।
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥ १२.८६.२८ ॥

国王见到那位舍弃一切世间目标、出身良好且博学多闻之人,应以卧具、座席和饮食礼敬他。

12.86.29

तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि ।
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥ १२.८६.२९ ॥

国王在某种灾难中应当信任他,因为即使盗贼也能在苦行者中赢得信任。

12.86.30

तस्मिन्निधीनादधीत पुनः प्रत्याददीत च ।
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥ १२.८६.३० ॥

应将珍宝寄存于他处,之后再取回;不应时常侍奉他,也不应过分礼敬他。

12.86.31

अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः ।
अटवीषु परः कार्यः सामन्तनगरेष्वपि ॥ १२.८६.३१ ॥

应在本国安排一人,在外国安排另一人,在森林中以及诸侯的城市中也应安排另一人。

12.86.32

तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत् ।
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥ १२.८६.३२ ॥

对于身在外国和森林中的人,应使其获得尊敬、礼遇和应得的分配,正如对待本国之人一样。

12.86.33

ते कस्यांचिदवस्थायां शरणं शरणार्थिने ।
राज्ञे दद्युर्थथाकामं तापसाः संशितव्रताः ॥ १२.८६.३३ ॥

这些坚守誓愿的苦行者,无论处于何种境况,都应依其所愿,庇护寻求庇护的国王。

12.86.34

एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः ।
यादृशे नगरे राजा स्वयमावस्तुमर्हति ॥ १२.८६.३४ ॥

关于国王亲自居住何种城市为宜的特征,已为你简要宣说。