Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.87.1

राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु संग्रहम् ।
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ १२.८७.१ ॥

大王,婆罗多族之牛,请为渴求知晓的我,妥善宣说国家的守护与国家的凝聚。

12.87.2

राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु संग्रहम् ।
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ १२.८७.२ ॥

我将为你妥善讲述国家的守护与国家的凝聚;现在我将如实宣说一切,你要以专一的心来听。

12.87.3

ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा ।
विंशतित्रिंशतीशं च सहस्रस्य च कारयेत् ॥ १२.८७.३ ॥

每村应设一名村长,同样设十村之主;二十或三十村之主;并应为一千户设一人。

12.87.4

ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत् ।
तानाचक्षीत दशिने दशिको विंशिने पुनः ॥ १२.८७.४ ॥

村长应当知晓村中之事与村中之过,报告给十户之主;十户之主再报告给二十户之主。

12.87.5

विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने ।
ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥ १२.८७.५ ॥

二十户之主应知晓国内民众的一切行为,并将村中的全部情况完整地报告给百户之主。

12.87.6

यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया ।
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥ १२.८७.६ ॥

村长应按规定享用村中出产的物品;以此供养十户之主,也以此供养加倍之主。

12.87.7

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः ।
महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्।
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत ॥ १२.८७.७ ॥

统领百村者,受人尊敬,应当享用一个大而富庶、人口稠密的村庄,婆罗多中的最优者。那里所有的一切都属于国王,由许多护卫者掌管。

12.87.8

शाखानगरमर्हस्तु सहस्रपतिरुत्तमः ।
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसंगतः ॥ १२.८७.८ ॥

统领千人的优秀者,应得支城;与国中官员相连,应当通过享用谷物和黄金而享有它。

12.87.9

तेषां संग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत् ।
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः ॥ १२.८७.९ ॥

他们之间的战事,以及他们之间的和事,无论是什么,都应由某位通晓法的大臣不懈地加以察看。

12.87.10

नगरेनगरे वा स्यादेकः सर्वार्थचिन्तकः ।
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः ॥ १२.८७.१० ॥

在每座城市,或在某一城中,应当有一人主管一切事务——position高位,相貌可畏,如群星之中的行星。

12.87.11

भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः ।
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः ॥ १२.८७.११ ॥

他应当巡视所有议会的成员,而他在各国的某个密探应当安排他们的生计。

12.87.12

जिघांसवः पापकामाः परस्वादायिनः शठाः ।
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ १२.८७.१२ ॥

那些欲加害、心怀恶念、夺取他人财物、狡诈的人——即便被明确任命为守卫——应当保护这些臣民免受他们的侵害。

12.87.13

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजां कारयेत्करान् ॥ १२.८७.१३ ॥

考虑买卖、购买、道路税、食物及其开销,并顾及商人的利益与安全之后,应当让他们向商人征收税款。

12.87.14

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् ।
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत् ॥ १२.८७.१४ ॥

反复考虑生产、以工资为生的生计和手艺之后,应按各行手艺向工匠征收税款。

12.87.15

उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर ।
यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः ॥ १२.८७.१५ ॥

般遮罗之子啊(俱卢子),前代诸王的高低税制如何,君王便应如此行事,使百姓不致困苦。

12.87.16

फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् ।
फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तते ॥ १२.८७.१६ ॥

既考虑了收益与所为之事,然后应全面安排;因为无因之故,无人会从事于收获或行事。

12.87.17

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ ।
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः ॥ १२.८७.१७ ॥

仔细考虑,使君王与作事者在事业中同得其分之后,君王应当经常征收税款。

12.87.18

नोच्छिद्याहात्मनो मूलं परेषां चापि तृष्णया ।
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः ॥ १२.८७.१८ ॥

不可因贪欲而拔除自己的根本,也不可拔除他人的根本;君王应关闭欲求之门,使自己不为人所见。

12.87.19

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् ।
प्रद्विष्टस्य कुतः श्रेयो संवृतो लभते श्रियम् ॥ १२.८७.१९ ॥

人们憎恨那位以贪婪著称的著名国王。被憎恨者何来福祉?唯有隐藏自身者方能得到繁荣。

12.87.20

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना ।
भृतो वत्सो जातबलः षीडां सहति भारत ॥ १२.८७.२० ॥

智慧不衰的君王应当像对待小牛一样榨取国家。被好好喂养、长大有力的小牛,能忍受疼痛,婆罗多啊。

12.87.21

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर ।
राष्ट्रमप्यातिदुग्धं हि न कर्म कुरुते महत् ॥ १२.८७.२१ ॥

被过度挤奶的小牛,啊坚战,做不了大事;被过度榨取的国家也同样做不了大事。

12.87.22

यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः ।
संजातमुपजीवन्स लभते सुमहत्फलम् ॥ १२.८७.२२ ॥

国王亲自保卫国家、施恩于它,并依靠国内所生之物生活,便能获得极大的回报。

12.87.23

आपदर्थं च निचयात्राजानो हि चिचिन्वते ।
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥ १२.८७.२३ ॥

为了应对灾难,国王们积蓄财富。国家本身就应当是宝库,而宝库也应妥善保存在宫中。

12.87.24

पौरजानपदान्सर्वान्संश्रितोषाश्रितांस्तथा ।
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि ॥ १२.८७.२४ ॥

国王应依其能力,怜悯城乡所有的百姓,无论依附于他的还是不依附的,甚至是那些家境贫寒的人。

12.87.25

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् ।
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुः खिताः ॥ १२.८७.२५ ॥

分化外部的民众,中等之人应安逸地享受。如此,无论苦乐之人,都不会对他发怒。

12.87.26

प्रामेव तु धनादानमनुभाष्य ततः पुनः ।
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥ १२.८७.२६ ॥

先宣布从村庄征收财富,然后再次聚集,在自己的国土上显示威势。

12.87.27

इयमापत्समुत्पन्ना परचक्रभयं महत् ।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः ॥ १२.८७.२७ ॥

此患已生,乃敌军之大恐。正如竹子结果反而导致其死亡,这些也可能导致毁灭。

12.87.28

अरयो मे समुत्थाय बहुभिर्दस्युभिः सह ।
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्। ॥ १२.८७.२८ ॥

我的敌人与众多盗贼一同起事,他们想要侵扰这个国家——这将导致他们自己的毁灭。

12.87.29

अस्यामापदि घोरायां संप्राप्ते दारुणे भये ।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः ॥ १२.८७.२९ ॥

在此可怕的灾难之中,恐怖降临之时,我将向你们索取财富以求保护。

12.87.30

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये ।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥ १२.८७.३० ॥

待恐惧消除之时,我将把一切归还你们。敌人从此地强行夺去的,他们是不会归还的。

12.87.31

कलत्रमादितः कृत्वा सर्वं वो विनशेदिति ।
शरीरपुत्रदारार्थमर्थसंचय इष्यते ॥ १२.८७.३१ ॥

从一开始就以妻子为先,以免你们的一切毁灭;为身体、儿子和妻子积累财富是被期望的。

12.87.32

नन्दामि वः प्रभावेण पुत्राणामिव चोदये ।
यखाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः ॥ १२.८७.३२ ॥

我因你们的威势而欢喜,仿佛你们是我的儿子;依你们的能力我收取,也不扰乱国家。

12.87.33

आपत्स्वेव निवोढव्यं भवद्भिः संगतैरिह ।
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि ॥ १२.८७.३३ ॥

唯在灾难中,你们在此团结,应共同承担;任何灾难中,财富都不应是你们最珍爱之事。

12.87.34

इति वाचा मधुरया श्लक्ष्णया सोपचारया ।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित् ॥ १२.८७.३४ ॥

以这样甜美、温和、有礼的言辞,知时者运用谋略,应放出他的光芒(从民众取得的收益)。

12.87.35

प्रचारं भृत्यभरणं व्ययं संग्रामतो भयम् ।
योगक्षेणं च संप्रेक्ष्य गोमिनः कारयेत्करम् ॥ १२.८७.३५ ॥

考虑到商业、仆役的供养、开支、战争之危以及安危与福祉,应当让地主缴纳赋税。

12.87.36

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः ।
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥ १२.८७.३६ ॥

因为若被忽视,地主和森林居民都会灭亡;因此对他们尤其应先以温和相待。

12.87.37

सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः ।
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च ॥ १२.८७.३७ ॥

阿周那啊,应当时常向牧主给予安慰、保护、布施与照料;也应与他们分享,给予他们所喜爱之物。

12.87.38

अजस्रमुपयोक्तव्यं फलं गोमिषु भारत ।
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा ॥ १२.८७.३८ ॥

婆罗多之后啊,应不断享用牧主所出之利;他们使国家、商业和农业兴盛。

12.87.39

तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः ।
दयावानप्रमत्तश्च करान्संप्रणयन्मृदून् ॥ १२.८७.३९ ॥

因此智者应当悉心对牧主表示善意;以慈悲和谨慎之心,温和地征收赋税。

12.87.40

सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु ।
न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर ॥ १२.८७.४० ॥

在牧主之间,处处安然行走是易得的;优提斯提罗啊,没有与此相当的财富。