摩诃婆罗多 · 章 12.88
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.88.1
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते ।
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह ॥ १२.८८.१ ॥
若国王虽有能力却欲求财库,大智者啊,赋税应当如何征收?请告诉我,祖父啊。
12.88.2
यथादेशं यथाकालं यथाबुद्धि यथाबलम् ।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥ १२.८८.२ ॥
国王应依地方、时机、智慧与力量教导臣民,专心于他们的福利,并以法与利为务。
12.88.3
यथा तासां च मन्येत श्रेय आत्मन एव च ।
तथा धर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत् ॥ १२.८८.३ ॥
使他能思量对他们和对自己都有益之事,国王应在诸国中推行一切法则。
12.88.4
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत् ।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥ १२.८८.४ ॥
国王应如采蜜般取于国家,不可惊落蜂群;应顾念牛犊而挤奶,不可压碎乳房。
12.88.5
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः ।
व्याघ्रीव च हरेत्पुत्रान्संदशेन्न च पीडयेत् ॥ १२.८८.५ ॥
国王应如水蛭般轻柔地吸取国家的精华;如母虎衔起幼崽,只可提起,不可咬噬或压迫。
12.88.6
यथा शल्यकवानाखुः पदं धूनयते सदा ।
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत् ॥ १२.८८.६ ॥
如豪猪与鼠常常抖动其足,国王也应以不尖锐的手段,逐步将国家的精华吸尽。
12.88.7
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् ।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत् ॥ १२.८८.७ ॥
对于应当逐步缴纳的人,应使其逐步缴纳那增长之物;然后再一次,又一次,依次循序增长。
12.88.8
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत् ।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥ १२.८८.८ ॥
如同驯服者驯服所当驯服者,常常增加其负担,故应先以温和、用心的方式,逐步施加羁绊。
12.88.9
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः ।
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः ॥ १२.८८.९ ॥
一旦被罗网所困,他们便不再难以驾驭。应以适当的方式治理他们,他们便会不费力气地顺服。
12.88.10
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति ।
यथा मुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः ॥ १२.८८.१० ॥
因此,对某个人施用一切手段是困难的。应先安抚重要之人,再治理其他民众。
12.88.11
ततस्तान्भेदयित्वा तु परस्परविवक्षितान् ।
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः ॥ १२.८८.११ ॥
然后,应离间那些彼此怀有敌意之人,同时加以安抚,使他们安逸而不费力地顺服治理。
12.88.12
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत् ।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥ १२.८८.१२ ॥
不应在不当之处、不当之时向他们征收赋税;应依次序、以安抚的方式,在适当的时候、依照规定征收。
12.88.13
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता ।
अनुपायेन दमयन्प्रकोपयति वाजिनः ॥ १२.८८.१३ ॥
我讲述这些方法,我的用意并非欺骗。以不当之法驯服马匹的人,只会使它们更加狂躁。
12.88.14
पानागारनिवोशाश्च वेश्याः प्रापणिकास्तथा ।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥ १२.८८.१४ ॥
住在酒肆中的人、妓女、商贩、伶人与歌者、赌徒及其同伴,以及其他类似的一些人。
12.88.15
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः ।
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥ १२.८८.१५ ॥
所有这些危害国家的人都应加以约束。他们留居国中,欺压淳朴的百姓。
12.88.16
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि ।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥ १२.८८.१६ ॥
除非遭遇困境,任何人都不应向他人乞求任何东西。这一众生之规,乃是古时摩奴所立。
12.88.17
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह ।
सर्व एव इमे लोका न भवेयुरसंशयम् ॥ १२.८८.१७ ॥
此世之人皆应依其所业而生活。若此间众人皆不作业,那么这一切世界无疑将不复存在。
12.88.18
प्रभुर्नियमने राजा य एतान्न नियच्छति ।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ॥ १२.८८.१८ ॥
有能力约束他们的君王,若不加约束,便要承担那罪过的四分之一,此乃经典之言。
12.88.19
भोक्ता तस्य तु पापस्य सुकृतस्य यथातथा ।
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप ॥ १२.८८.१९ ॥
享受那罪恶与善行之果报的,正是他。人主啊,царь应当始终约束那些有罪之人。
12.88.20
कृतपापस्त्वसौ राजा य एतान्न नियच्छति ।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते। ॥ १२.८८.२० ॥
不约束这些人的那位君王,自己便成了有罪之人;同样,他也只得到所行正法的四分之一。
12.88.21
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः ।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥ १२.८८.२१ ॥
克制这些处所,因为执着毁灭福祉。沉溺于欲望的人,还会避免什么不当之事呢?
12.88.22
मद्यमांसपरस्वानि तथा दारधनानि च ।
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत् ॥ १२.८८.२२ ॥
受情欲支配的人,会夺取酒、肉、他人之物,以及妻妾和财富;同样,他也只把经典拿出来做样子。
12.88.23
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः ।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु ॥ १२.८८.२३ ॥
对于那些没有依靠、只在困苦中乞求的人,应依法施与——出于慈悲,而非出于恐惧。
12.88.24
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः ।
उपादातार एवैते नैते भूतस्य भावकाः ॥ १२.८८.२४ ॥
愿你的国中不要有乞丐,也不要有盗贼。这些人只是索取者,并非增进众生福祉的人。
12.88.25
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः ।
तेते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः ॥ १२.८८.२५ ॥
施恩于众生、令百姓增长者,愿其居于诸国;不可成为众生的侵害者。
12.88.26
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः ।
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा ॥ १२.८८.२६ ॥
大王啊,教唆夺取财物者应受惩罚。应使他们依此而行,使其缴纳赋税。
12.88.27
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् ।
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः ॥ १२.८८.२७ ॥
耕种、牧牛、贸易,以及其他类似之事,应依照职务的分工,由众人来完成。
12.88.28
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः ।
संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥ १२.८८.२८ ॥
若有人从事耕种、牧牛与贸易,却遭遇某种危难,国王便因此受到责备。
12.88.29
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः ।
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै ॥ १२.८८.२९ ॥
应经常以饮食、衣物招待富人,并告诉他们:“与我一同施恩于百姓吧。”
12.88.30
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत ।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥ १२.८८.३० ॥
婆罗多啊,国家这一重要的支柱便是富人。居于财富之中者,乃众生之顶峰,此事毫无疑问。
12.88.31
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च ।
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति ॥ १२.८८.३१ ॥
智者、勇士、富有者、君主、正法者、苦行者、诚实者和有智慧者也守护它。
12.88.32
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव ।
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥ १२.८८.३२ ॥
因此,国王啊,对一切众生应当慈爱;守持真实、正直、无怒与仁慈。
12.88.33
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि ।
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः ॥ १२.८८.३३ ॥
如此,你将获得刑罚之权、府库、盟友与土地;国王啊,专心于真实与正直,你将拥有盟友、府库与力量。