Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.9.1

मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि ।
धारयन्नपि ते श्रुत्वा रोचते वचनं मम ॥ १२.९.१ ॥

若你哪怕片刻专注其心,将我的话存于耳中与内在自我之中而聆听,我的言辞便会令你欢喜。

12.9.2

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः ।
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥ १२.९.२ ॥

为了你,我决不会再走商队所行的那条路;舍弃乡间的享乐,我必定会走上那条路。

12.9.3

क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम् ।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥ १२.९.३ ॥

请问我哪一条路可以让独行者安然行走。若你不愿问,那就不问也请听我说。

12.9.4

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः ।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥ १२.९.४ ॥

舍弃乡间享乐的生活,修持大苦行,在林中以果实与根茎为食,我将与鹿群一同漫游。

12.9.5

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चर्मचीरजटाधरः ॥ १२.९.५ ॥

按时向火中献祭,于晨昏两时漱口净身,身形枯瘦,饮食有度,身披皮革、穿着树皮衣,头戴结发。

12.9.6

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः ।
तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥ १२.९.६ ॥

耐受寒冷、风与暑热,忍受饥渴与疲劳,依照仪轨所定的苦行使身体枯槁。

12.9.7

मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः ।
मुदितानामरण्येषु नदतां मृगपक्षिणाम्। ॥ १२.९.७ ॥

常听那高低起伏、悦耳动心的声音,那是森林中欢快鸣叫的鹿与鸟。

12.9.8

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ।
नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥ १२.९.८ ॥

闻着盛开的树木与藤蔓的芬芳,看着林中形态各异、可爱的林居生灵。

12.9.9

वानप्रस्थजनस्यापि दर्शनं कूलवासिनः ।
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम् ॥ १२.९.९ ॥

即使对林居修行者和河岸居民,我也不会做令人不快之事,何况是村落中的人。

12.9.10

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ १२.९.१० ॥

独居沉思,以熟与生的林中食物维持生活,以言语和清水使祖先与诸神得到满足。

12.9.11

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥ १२.९.११ ॥

如此遵循林居经典中严厉乃至更为严厉的规范,我将等待这身体的终结。

12.9.12

अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥ १२.९.१२ ॥

或者我独自一人,每日在一棵树下乞食游行,做一个剃光头的苦行者,消磨这身体。

12.9.13

पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १२.९.१३ ॥

身覆尘土,以空屋为住所,或居于树根之下,舍弃了一切可爱与不可爱之物。

12.9.14

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ॥ १२.९.१४ ॥

不悲不喜,视自己的毁誉为一样,无所希求,无所执着,超越对立,无所占有。

12.9.15

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः ।
अकुर्वाणः परैः कांचित्संविदं जातु कैरपि ॥ १२.९.१५ ॥

自在于内心,心境澄明,外形如愚钝、盲、聋之人,从不与他人订立任何约定或交谈。

12.9.16

जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान् ।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥ १२.९.१६ ॥

不伤害任何动与不动的四类众生;对于一切安住于各自法度的众生,对一切有情平等相待。

12.9.17

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीः क्वचित् ।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥ १२.९.१७ ॥

不嘲笑任何人,从不皱眉;常怀喜悦之容,诸根皆善加制御。

12.9.18

अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित् ।
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः ॥ १२.९.१८ ॥

游行之时不向任何人问路,也不特别想要前往某国或某个方向。

12.9.19

गमने निरपेक्षश्च पश्चादनवलोकयन् ।
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः ॥ १२.९.१९ ॥

行走时他无所执着,不回头张望;正直专注地前行,避开女人的陪伴。

12.9.20

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि ।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥ १२.९.२० ॥

自性本自前行;食物也随所得而来。他对一切相反的对立之事皆不挂怀。

12.9.21

अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित् ।
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥ १२.९.२१ ॥

无论少或美味的食物,若起初未得,他有时会走访他人而得之;若无所获,便到七户人家乞食以充饥。

12.9.22

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीतपात्रसंचारे काले विगतभिक्षुके ॥ १२.९.२२ ॥

烟雾散尽,杵已放下,余烬已熄,人们已经吃过,器皿的往来已过,乞丐已经离去,在那个时候(他去乞食)。

12.9.23

एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा ।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम् ॥ १२.९.२३ ॥

一次乞食,或于三家、两家、五家,断除爱欲之索,我将遍行于这大地。

12.9.24

अलाभे सति वा लाभे समदर्शी महातपाः ।
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ॥ १२.९.२४ ॥

无论有所得或无所得,平等视之的大苦行者,既不像求生者那样行事,也不像求死者那样行事。

12.9.25

जीवितं मरणं चैव नाभिनन्दन्न च द्विपन् ।
वास्यैकं तक्षतो बाहुं चन्दनेनैकपुक्षतः।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ १२.९.२५ ॥

既不渴望生,也不渴望死,亦不憎恶;一人以斧砍断其臂,另一人以檀香涂抹,对此二人既不想凶,也不想吉。

12.9.26

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥ १२.९.२६ ॥

凡活着时可以做的增益世俗之事,全部彻底舍弃,仿佛瞬间即已安立。

12.9.27

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः ।
अपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मपः ॥ १२.९.२७ ॥

于其中常无执著,舍弃一切诸根之作用,不舍其决心,灵魂之垢已被彻底洗净。

12.9.28

विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ १२.९.२८ ॥

脱离一切执著,超越一切罗网,不受任何人控制,与风(摩多利斯梵)同性。

12.9.29

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम् ।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥ १२.९.२९ ॥

如是无欲而行,我将获得心的满足。因渴爱,我确曾造下大罪;因无知,我被驱使。

12.9.30

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः ।
कार्यकारणसंश्लिष्टं स्वजनं नाम ब्रिभ्रति ॥ १२.९.३० ॥

某些人造作善与不善之业,承载着与因果相连的自己族人的名称。

12.9.31

आयुपोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम् ।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥ १२.९.३१ ॥

寿命终结之时,气息耗尽,离开此身,他便承受那罪恶,因为那正是作者所行之业的果报。

12.9.32

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् ।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥ १२.९.३२ ॥

如此,在这转动如车轮的轮回之轮中,这群众生与另一群众生相会,并受行为的果报所束缚。

12.9.33

जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् ।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम् ॥ १२.९.३३ ॥

舍弃此轮回者方得安乐;此轮回为生、死、老、病与诸苦所逼迫,无边而不安稳。

12.9.34

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु ।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥ १२.९.३४ ॥

当天神从天界坠落,大仙从其位上失落之时,谁能知晓因之真谛而还去追求呢?

12.9.35

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् ।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥ १२.९.३५ ॥

国王造作种种业,各有其相,却只为微小的世俗因缘所缚。

12.9.36

तस्मात्प्रज्ञामुतमिदं चिरान्मां प्रत्युपस्थितम् ।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥ १२.९.३६ ॥

因此,这智慧甘露经久之后终于来到我前。得之,我愿求那不朽、永恒、坚固之境。

12.9.37

एतया संततं धृत्या चरन्नेवंप्रकारया ।
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ १२.९.३७ ॥

我以这种坚定持续地如此修行,将以无畏之道安住此身,此身被生、死、老、病之苦所侵扰。