摩诃婆罗多 · 章 12.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.91.1
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
संपद्यदेषा भवति सा बिभर्ति सुखं प्रजाः ॥ १२.९१.१ ॥
当云雨按时降落、国王遵循法度时,此事便成就;正是他使臣民安乐地生活。
12.91.2
यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम् ।
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः ॥ १२.९१.२ ॥
不知如何去除衣物污垢的洗衣人,或不知如何净化宝石的人,他便是如此。
12.91.3
एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशां तथा ।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः ॥ १२.९१.३ ॥
再生者中的最优者、刹帝利与吠舍皆如此;第四种姓首陀罗则安住于各种职事之中。
12.91.4
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ १२.९१.४ ॥
侍奉是首陀罗之职,耕作是吠舍之职,刑罚之治是国王之职;梵行、苦行、咒语与真实则属于再生者。
12.91.5
तेषां यः क्षत्रियो वेद पात्राणामिव शोधनम् ।
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः ॥ १२.९१.५ ॥
其中若有刹帝利能如净器般洗净他们,并彻底除去品行的过失,那他便是父亲,便是众生之主。
12.91.6
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ १२.९१.६ ॥
婆罗多族之雄牛啊,圆满、三分、二分与迦利四时代;国王的一切行为即是时代,而国王本身便被称为时代。
12.91.7
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।
सर्वमेतत्प्रमुह्येत यदा राजा प्रमाद्यति ॥ १२.९१.७ ॥
四种姓、吠陀与四住期,当国王放逸时,这一切都会陷入混乱。
12.91.8
अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्व एव प्रमुह्यन्ते यदा राजा प्रमाद्यति ॥ १२.९१.८ ॥
圣火、三火、三明之智,以及附带布施的祭祀,当国王放逸时,这一切都会陷入混乱。
12.91.9
राजैव कर्ता भूतानां राजैव च विनाशकः ।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ १२.९१.९ ॥
众生的创造者唯有国王,毁灭者也唯有国王。心存正法的国王成为创造者;心存非法的国王成为毁灭者。
12.91.10
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ १२.९१.१० ॥
国王的妃嫔、儿子、亲族与朋友,当国王放逸时,都会聚集在一起悲伤哀叹。
12.91.11
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः ।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति जन्तवः ॥ १२.९१.११ ॥
象、马、牛、骆驼、骡与驴——当国王的行为不义时,一切众生都会受苦。
12.91.12
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।
अबलं तु महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ १२.९१.१२ ॥
据曼达陀利所说,造物主为保护弱者而创造了力量。然而那无力而伟大的存在,万物皆立于其中,才是最为殊胜的。
12.91.13
यश्च भूतं संभजते ये च भूतास्तदन्वयाः ।
अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव ॥ १२.९१.१३ ॥
若有人护持众生,众生依附于他;国王若立于非法之中,王啊,众生皆会悲叹。
12.91.14
दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च ।
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ १२.९१.१४ ॥
弱者之目、仙人之目与毒蛇之目,我认为最难忍受;不要接近弱者。
12.91.15
दुर्बलांस्तात मन्येथा नित्यमेवाविमानि तान् ।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ १२.९१.१५ ॥
孩子,切莫轻视弱者;弱者的目光可能会与你的亲族一同烧毁你。
12.91.16
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति ।
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासद ॥ १२.९१.१६ ॥
凡被弱者所焚者,其族中无物能生长;他们连根烧尽。不要接近弱者。
12.91.17
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् ।
बलस्याबलदग्धस्य न किंचितवशिष्यते ॥ १२.९१.१७ ॥
实则柔弱胜于刚强;即便是至强之力,若被弱者所焚,也不会留下任何东西。
12.91.18
विमानितो हतः क्लिष्टस्त्रातारं चेन्न विन्दन्ते ।
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १२.९१.१८ ॥
若受辱、被杀、受苦之人找不到保护者,那么由非人之力所施的刑罚,便会击杀那人间之王本身。
12.91.19
मा स्म तात बलस्थस्त्वं भुञ्जीथा दुर्बलं जनम् ।
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम् ॥ १२.९१.१९ ॥
孩子啊,你处于强大之位,不要吞噬弱小的百姓。愿弱者的目光不要像火一样焚烧你的内心。
12.91.20
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनां ॥ १२.९१.२० ॥
那些被诬告者哭泣时落下的眼泪,会击杀诬告者的儿子和牲畜。
12.91.21
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्नृषु ।
न हि पापं कृतं कर्म सद्यः फलति गौरिब ॥ १२.९१.२१ ॥
若不在自身、不在儿子、不在孙子或曾孙身上显现,所造的恶业便会立即结果,如同母牛产奶。
12.91.22
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ १२.९१.२२ ॥
弱者被击打时若找不到保护者,那里便会降下命运所定的巨大而可怖的惩罚。
12.91.23
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः ॥ १२.९१.२३ ॥
当国中的官员们虽受任用,却像婆罗门一样乞讨,这样的人以乞丐的模样,不断地击倒国王。
12.91.24
राज्ञो यदा जनपदे बहवो राजपूरुषाः ।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ १२.९१.२४ ॥
当国王的领土中许多王室官员行为不义时,那便是国王的大罪。
12.91.25
यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा ।
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ १२.९१.२५ ॥
若国王不以正道求取财富,而出于贪欲或受财物所驱使,从乞求的贫困者手中夺取,这便是国王的大祸。
12.91.26
महान्वृक्षो जायते वर्धते च ।
तं चैव भूतानि समाश्रयन्ति।
यदा वृक्षश्छिद्यते दह्यते च ।
तदाश्रया अनिकेता भवन्ति ॥ १२.९१.२६ ॥
大树生长繁茂,众生依附于它。当树被砍伐或焚烧时,依靠它的人便无家可归。
12.91.27
यदा राष्ट्रे धर्ममग्र्यं चरन्ति ।
संस्कारं का राजगुणं ब्रुवाणाः।
तैश्चाधर्मश्चरितो धर्ममोहा ।
त्तूप जह्यात्सुकृतं दुष्कृतं च ॥ १२.९१.२७ ॥
若国中之人奉行至上的法,称王者之德为修养,却因对法的迷惑而行非法,则人应当舍弃善行与恶行两者。
12.91.28
यत्र पापा ज्ञायमानाश्चरन्ति ।
सभां कलिर्विन्दते तत्र राज्ञः।
यत्र राजा शास्ति नरान्न शक्त्या ।
न तद्राज्यं वर्धते भूमिपस्य ॥ १२.९१.२८ ॥
恶人公然横行之处,迦利便在王的议会中立足。国王若不以威力统治百姓,那位君主的国家便不会兴盛。
12.91.29
यश्चामात्यान्मानयित्वा यथा हि ।
मन्त्रे च युद्धे च नृपोऽनुयुञ्ज्यात्।
बिबर्धते तस्य राष्ट्रं नृपस्य ।
भुङ्क्ते महीं चाप्यखिलां चिराय ॥ १२.९१.२९ ॥
国王尊重大臣,并在谋议与战事中适当任用他们,其国家便会繁荣,他也能长久享有整个大地。
12.91.30
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ १२.९१.३० ॥
在此之中,若君王审慎地考察善行与善言并加以尊崇,便能获得至上的法。
12.91.31
संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते ।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ १२.९१.३१ ॥
若君王公正分配而享用,不轻慢他人,并诛杀强横而骄傲之人,此即称为王者之法。
12.91.32
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ १२.९१.३२ ॥
若君王以言语、身体与行为护持一切,甚至不容忍其子的过失,此即称为王者之法。
12.91.33
संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान् ।
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते ॥ १२.९१.३३ ॥
君王公正分配而享用,弱者便转而强盛,此即称为王者之法。
12.91.34
यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति ।
यदा जयति संग्रामे स राज्ञो धर्म उच्यते ॥ १२.९१.३४ ॥
若君王护持诸国,驱逐盗贼,并在战场上取胜,此即称为王者之法。
12.91.35
पापमाचरतो यत्र कर्मणा व्याहृतेन वा ।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते ॥ १२.९१.३५ ॥
若有人以行为或言语作恶,君王即使对所爱之人也不应容忍,此即称为王者之法。
12.91.36
यदा सारणिकान्राजा पुत्रवत्परिरक्षति ।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ १२.९१.३६ ॥
当国王如保护儿子一般保护萨拉尼卡人,且不逾越规矩之界时,这便称为国王的法。
12.91.37
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः ।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ १२.९१.३७ ॥
当国王怀着信心,以丰厚的布施行祭,摒弃爱憎时,这便称为国王的法。
12.91.38
कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति ।
हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते ॥ १२.९१.३८ ॥
当国王为贫弱、无依与老者拭去眼泪,使众人欢喜时,这便称为国王的法。
12.91.39
विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति ।
संपूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ १२.९१.३९ ॥
当国王增益朋友、制服敌人,并善加尊敬贤人时,这便称为国王的法。
12.91.40
सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति ।
पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ १२.९१.४० ॥
当国王以慈爱守护真实,常常施予土地,并敬重宾客与侍从时,这便称为国王的法。
12.91.41
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।
अस्मिँल्लोके परे चैव राजा स प्राप्नुते फलम् ॥ १२.९१.४१ ॥
若国王之中惩罚与恩惠皆得稳固确立,他便在今世与来世都获得果报。
12.91.42
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन्यमवत्प्राणानसंयच्छंस्तु पावकः ॥ १२.९१.४२ ॥
阎摩是正法者之王,曼陀多啊,他是至高之主。如阎摩一般,他约束生命之气,而火神则不约束。
12.91.43
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च ।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ १२.९१.४३ ॥
当国王恭敬地接纳祭司、家庭祭师与师长,不加轻慢时,这便被称为国王的法。
12.91.44
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।
तथा राज्ञाऽनुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ १२.९१.४४ ॥
阎摩无差别地约束一切众生;国王也应如此效法,依法治理臣民。
12.91.45
सहस्राक्षेण राजा हि सर्वथैवोपमीयते ।
स पश्यति च यं धर्म स धर्मः पुरुषर्षभ ॥ १२.९१.४५ ॥
国王在各方面都可比作千眼者(因陀罗)。他所见的法,便是法,人中之牛啊。
12.91.46
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।
भूतानां तत्त्वजिज्ञासा साध्वसाधु च सर्वदा ॥ १२.९१.४६ ॥
不放逸地学习宽恕、智慧、坚定与明辨;探求众生之实相,并时时分辨善与恶。
12.91.47
संग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।
पौरजानपदाश्चैव गोप्तव्याः स्वप्रजा यथा ॥ १२.९१.४७ ॥
照顾一切众生,施予,言语温和;城市与乡村的百姓应当像自己的子女一样受到保护。
12.91.48
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।
भारो हि सुमहांस्तात राज्यं नाम सुदुर्वहम् ॥ १२.९१.४८ ॥
无能的国王永远无法保护他的臣民。亲爱的孩子,所谓王国的重担极其沉重,难以承担。
12.91.49
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा ॥ १२.९१.४९ ॥
只有懂得刑罚之道、智慧而勇敢的国王才能保护国家。没有刑罚,懦弱或无知之人无法做到。
12.91.50
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।
सर्वं बुद्ध्या परीक्षेथास्तापसाश्रमिणामपि ॥ १२.९१.५० ॥
应由出身高贵、有才能、忠诚而博学的人相助,你应以智慧审察一切,对苦行者和居住于修行林中的人也同样如此。
12.91.51
अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।
स्वदेशे परदेशे वा न ते धर्मो विनङ्क्ष्यति ॥ १२.९१.५१ ॥
因此你将认识一切众生的至高法。无论在自己的国土还是在异国,你的法都不会毁灭。
12.91.52
धर्मेचार्थे च कामे च धर्म एवोत्तरो भवेत् ।
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते ॥ १२.९१.५२ ॥
在法、利与欲之中,法本身应当最为崇高。心怀正法之人在今世与来世都能享受安乐。
12.91.53
त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः ।
संग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ १२.९१.५३ ॥
即使是备受尊敬的人,也会抛弃妻子与儿子。团结聚拢众生、布施,以及温和的言辞,这些正是国王所需的品德。
12.91.54
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत् ।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ १२.९१.५४ ॥
警觉与清净为君王带来巨大的繁荣。啊,摩揭陀的曼陀多,切莫对此时时疏忽。
12.91.55
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ १२.९१.५५ ॥
君王应保持警觉,观察自己与敌人的弱点。不要让敌人看到自己的弱点,而要去追踪敌人的弱点。
12.91.56
एतद्वॄत्तं वासवस्य यमस्य वरुणस्य च ।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ १२.९१.५६ ॥
这是因陀罗(婆娑婆)、阎摩与伐楼那以及一切王仙的行为。也要守持其精髓。
12.91.57
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ ॥ १२.९१.५७ ॥
因此,啊伟大的君王,请践行王仙所奉行的这种行为。啊人中的雄牛,踏上神圣的道路吧。
12.91.58
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः ॥ १२.९१.५८ ॥
啊婆罗多,无论在此世还是来世,具有大威力的天神、仙人、祖先与乾闼婆都会称颂行法的君王。
12.91.59
स एवमुक्तो मान्धाता तेनोचथ्येन भारत ।
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम् ॥ १२.९१.५९ ॥
啊婆罗多,乌恰提耶如此对他说后,摩揭陀的曼陀多毫不犹豫地照做,独自获得了大地。
12.91.60
भवानपि तथा सम्यङ्भान्धातेव महीपते ।
धर्मं कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि ॥ १२.९१.६० ॥
地上之主啊,你也应如曼陀多那样,完全行法,守护大地,便将在天界获得一席之地。