Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.93

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.93.1

यत्राधर्मं प्रणयते दुर्बले बलवत्तरः ।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १२.९३.१ ॥

强者对弱者行不义之处,以此为生者便成为其同类之人。

12.93.2

राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् ।
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ १२.९३.२ ॥

追随一位助长罪恶、不守礼法之王的人民,其国家很快就会毁灭。

12.93.3

यद्वॄत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः ।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ १२.९३.३ ॥

人们在平常时所依凭的行为,即使是在困境中之人的亲族也不会容忍。

12.93.4

साहसप्रवृत्ते र्यत्र किंचिदुल्वणमाचरेत् ।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ १२.९३.४ ॥

若好冒险的君王做出某种粗暴之事,缺乏经典所规定之品格的君王便会迅速灭亡。

12.93.5

सद्वॄत्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ १२.९३.५ ॥

刹帝利若不遵循善人所行的操守,便会在对待被征服者与未被征服者时背离刹帝利之法。

12.93.6

द्विषन्तं कृतकल्याणं गृहीत्वा नृपतिं रणे ।
यो न नयते द्वेषात्क्षत्रधर्मादपैति सः ॥ १२.९३.६ ॥

若在战场上俘获了虽为敌人却曾行善的君王,却因怨恨而不以礼相待,此人便背离刹帝利之法。

12.93.7

शक्तः आत्सुसुखो राजा कुर्यात्तारणमापदि ।
प्रियो अति भूतानां न च विभ्रश्यते श्रियः ॥ १२.९३.७ ॥

有能力且安于自身幸福的国王,在灾难中应当拯救他人。他会深受众生喜爱,其福德不会衰败。

12.93.8

अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।
अचिरेण प्रियः स स्याद्योऽप्रिये प्रियमाचरेत् ॥ १२.९३.८ ॥

对于曾经伤害过自己的人,应当反过来以善待之。即使对待不喜之人也能和善相待的人,很快便会被人喜爱。

12.93.9

मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।
न कामान्न च संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ १२.९३.९ ॥

应当远离虚妄之言,不待请求便行善事。不论出于贪欲、愤怒还是憎恨,都不可舍弃法。

12.93.10

अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः ।
दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम् ॥ १२.९३.१० ॥

智者应当无欺而行,不可舍弃真实。还应守持克制、法与良善品行,以及有利于民众的刹帝利之法。

12.93.11

नापत्रपेत प्रश्नेषु नाभिभाविगिरं सृजेत् ।
न त्वरेत न चासूयेत्तथा संगृह्यते परः ॥ १२.९३.११ ॥

面对提问不应羞怯,也不应说压人之言。不要急躁,不要嫉妒;这样别人便会归附。

12.93.12

प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।
न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ १२.९३.१२ ॥

对于喜悦之事不应过度欢喜,对于不悦之事也不应愤然焦灼。在事务的艰难之中不应苦恼,要时时想着民众的利益。

12.93.13

यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः ।
तस्य कर्माणि सिद्ध्यन्ति न च संत्यज्यते श्रिया ॥ १२.९३.१३ ॥

地上之王若依德行常行悦人之事,其事业便得成就,吉祥也不会离他而去。

12.93.14

निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये ।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ॥ १२.९३.१४ ॥

国王应敬重远离逆境、安住于悦意之事的忠诚者;这便是此处善人的行为。

12.93.15

अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम् ।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १२.९३.१५ ॥

应任用那些感官不散乱、极其忠顺、清净、有能力且忠诚的人担当大任。

12.93.16

श्रेयसो लक्षणं चैतद्विक्रमो यत्र दृश्यते ।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति।
समर्थान्पूजयेद्यश्च न च स्पर्धेत यश्चतैः ॥ १२.९३.१६ ॥

这正是吉兆的标志:勇武显现之处;以名誉为先,适时坚定,尊敬有能力者,且不与之相争。

12.93.17

एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम् ।
भर्तुरर्थेष्वप्रमत्तं नियुञ्ज्यादर्थकर्मणि ॥ १२.९३.१७ ॥

具备这些德性并忠于地上之王者,应任命其掌管财务,于主人之事上保持警觉。

12.93.18

मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् ।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ १२.९३.१८ ॥

愚昧、沉溺感官、贪婪、行为不端、奸诈、不离诡计、残忍、心术不正且学识浅薄的人,不应任用。

12.93.19

त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् ।
कार्ये महति युञ्जानो हीयते नृपतिः श्रिया ॥ १२.९३.१९ ॥

君王若舍弃本职,沉溺于酒、骰戏、女色与狩猎,即使被委以重任,也会失去他的吉祥与威望。

12.93.20

रक्षितात्मा च यो राजा रक्ष्यान्यश्चानुरक्षति ।
प्रजाश्च तस्य वर्धन्ते सुखं च महदश्नुते ॥ १२.९३.२० ॥

能够护卫自身、又护卫应被护卫之人的君王,其臣民繁盛,他也享有极大的安乐。

12.93.21

ये केचिद्भूमिपतयः सर्वांस्तानन्ववेक्षयेत् ।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ १२.९३.२१ ॥

对于那些地方的诸侯,应当借助他们不认识的朋友加以暗中察看;如此,君王便不会覆灭。

12.93.22

अपकृत्य बलस्थस्व दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः ॥ १२.९३.२२ ॥

既已加害于敌人,不可因想着“我强大且身在远方”而安心;这些敌人如鹰隼猛扑一般,袭击那些疏忽的人。

12.93.23

दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः ।
अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ १२.९३.२३ ॥

根基稳固、心地纯正的君王,应当知晓自己的力量,攻击弱者,而不是比自己更强大的人。

12.93.24

विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत् ।
आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ १२.९३.२४ ॥

君王以勇力获得大地后,应依法护持臣民;而笃守正法的君王,应当在战场上殉身。

12.93.25

मरणान्तमिदं सर्वं नेह किंचिदनामयम् ।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेम पालयेत् ॥ १२.९३.२५ ॥

此世一切终归于死亡,此间无一物无缺。因此,安住于法的国王应当依法护持臣民。

12.93.26

रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् ।
मन्त्रचिन्ता सुखं काले पञ्चभिर्वर्धते मही ॥ १२.९३.२६ ॥

护卫之职、战争、法的教诫、谋议的思量,以及适时的安乐——以此五者,大地得以增长。

12.93.27

एतानि यस्य गुप्तानि स राजा राजसत्तम ।
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ १२.९३.२७ ॥

若这些被守护于其身,那位国王,王中之最,常住于此,便能享受此大地。

12.93.28

नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम् ।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते चिरं महीम् ॥ १२.९३.२८ ॥

这些事务不可能由一人持续照管;若于其上安置可信之人,国王便能长久享有大地。

12.93.29

दातारं संविभक्तारं मार्दवोपगतं शुचिम् ।
असंत्यक्तमनुष्यं च तं जनाः कुर्वते नृपम् ॥ १२.९३.२९ ॥

施予者、分享者、性情温和、清净、不被其民所弃者——人们便立此人为王。

12.93.30

यस्तु नैःश्रेयसं श्रुत्वा ज्ञानं तत्प्रतिपद्यते ।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ १२.९३.३० ॥

若有人闻知至上的善,而领悟此智,舍弃己见,世间便随之而行。

12.93.31

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि सर्वदा विमना इव ॥ १२.९३.३१ ॥

若有人因言语逆己而不能容忍求财求欲者之言,常听逆耳之语,如同心情沮丧。

12.93.32

अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ १२.९३.३२ ॥

若不常行高雅之行,便背离刹帝利之法,无论对已被征服者还是未被征服者。

12.93.33

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्।
एतेभ्यो नित्ययुक्तः सन्रक्षेदात्मानमेव तु ॥ १२.९३.३३ ॥

对于被制服的大臣,尤其是对女人、山岳、险要的堡垒、象、马和爬行之物,应当时常警惕,以护卫自身。

12.93.34

मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् ।
स वै व्यसनमासाद्य साधुमार्गं न विन्दति ॥ १२.९३.३४ ॥

若弃主要大臣而宠幸卑下之人,陷入困厄时便找不到正道。

12.93.35

यः कल्याणगुणाञ्ज्ञातीन्प्रद्वेषान्नो बुभूषति ।
अदृढात्मा दृढक्रोधः नास्यार्थो वसतेऽन्तिके ॥ १२.९३.३५ ॥

若因憎恶而不愿善待有美德的亲族,意志薄弱而怒气坚定,财富便不会留在他身边。

12.93.36

अथ यो गुणसंपन्नान्हृदयस्य प्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ १२.९३.३६ ॥

若以恩爱使有德而又为心所爱者归附,便能长久立于名声之中。

12.93.37

नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत् ।
प्रिये नातिभृशं तुष्येद्युञ्जीतारोग्यकर्मणि ॥ १२.९३.३७ ॥

不应在不当的时候施予财物,不应因不喜欢的人而怒火中烧;不应因所爱之人而过度欢喜,应当从事有益健康的事务。

12.93.38

के वाऽनुरक्ता राजानः के भयात्समुपाश्रिताः ।
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ १२.९३.३८ ॥

哪些国王忠诚,哪些因恐惧而投靠,其中中立者的过失是什么——应当时常思虑此事。

12.93.39

न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् ।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ १२.९३.३९ ॥

即使自己强大,也不可轻信弱者,因为他们会像婆罗鸟一样扑向疏忽大意之人。

12.93.40

अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिन ।
अभिद्रुह्यति पापात्मा न तस्माद्विश्वसेज्जनान् ॥ १२.९३.४० ॥

即使是具备一切美德、言语温和的主人,也会遭到心怀恶念之人的背叛;因此不可轻信他人。

12.93.41

एतद्राजोपनिषदं ययातिः स्माह नाहुषः ।
मनुष्यविषये युक्तो हन्ति शत्रून्सवासवान् ॥ १२.९३.४१ ॥

此乃为君王所设的秘传教诲,由那胡沙之子耶耶底所说:善于处理人间事务者,能杀尽敌人,即便是与因陀罗(婆娑婆)同在的敌人也不例外。