摩诃婆罗多 · 章 12.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.94.1
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।
जघन्यमाहुर्विजयं युद्धेन च नराधिप ॥ १२.९४.१ ॥
君主应不经战争而增益胜利;人们说以战争取得的胜利是下等的,人主啊。
12.94.2
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते ॥ १२.९४.२ ॥
根基不甚稳固时,连未得之物也不应贪求;因为根基薄弱的君主,所得之利不会增长。
12.94.3
यस्य स्फीतो जनपदः संपन्नप्रियराजकः ।
संतुष्टः पुष्टसचिवो दृढमूलः स पार्थिवः ॥ १२.९४.३ ॥
其国土繁荣、官员富足受爱戴、君主自身知足、大臣强盛,此君主根基稳固。
12.94.4
यस्य योधाः सुसंतुष्टाः स्वनुरक्ताः सुपूजिताः ।
अल्पेनापि स दण्डेन महीं जयति पार्थिवः ॥ १२.९४.४ ॥
其麾下战士皆心满意足、忠诚拥戴、备受尊崇,此君主即使以少许兵力也能征服大地。
12.94.5
दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते ।
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते ॥ १२.९४.५ ॥
刑罚强大之处,便用怀柔;先以怀柔而后施予,以离间为根本的策略,都被称赞。
12.94.6
त्रयाणां विफलं कर्म यदा पश्येत भूमिपः ।
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् ॥ १२.९४.६ ॥
君主若见三种手段(怀柔、赠予、离间)之行皆无效,则应察知其破绽,毫不迟疑地施用刑罚。
12.94.7
अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः ।
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम् ॥ १२.९४.७ ॥
当敌人被远比他强大的敌人所压倒时,此时应当采取不加理会的态度;强者之力在于不被杀害。
12.94.8
दुर्बलो हि महीपालो यदा भवति भारत ।
उपेक्षा तत्र कर्तव्या चतुर्णामविरोधीनि।
उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः ॥ १२.९४.८ ॥
婆罗多之子啊,当君王衰弱时,此时应当采取不加理会的态度;另有第五种方略,与前四者并不相违,而且它是所有方略中最强的。
12.94.9
भार्गवेण च गीतानां श्लोकानां कोसलाधिप ।
विज्ञाय तत्वं तत्वज्ञ तत्वतस्तत्करिष्यति ॥ १२.९४.९ ॥
科萨拉之主啊,他领悟了婆里伽婆(首陀罗)所吟唱诗节的真义,哦,通晓真理者,他必将依真理而行。
12.94.10
यदि रक्षःपिशाचेन हन्यते यत्रकुत्रचित् ।
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम् ॥ १२.९४.१० ॥
若有人在任何地方被罗刹或毗舍遮所杀,此时应当采取不加理会的态度;强者之力在于不受指责。
12.94.11
दुर्बलोऽपि महीपाल शत्रूणां शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ १२.९४.११ ॥
哦,君王啊,即便弱者也能从众敌之中拔除一个敌人,正如脚上扎入的刺,要用手中的刺来拔除。
12.94.12
शठानां उचिवानां च म्लेच्छानां च महीपते ।
एष उक्त उपायानामुपेक्षा बलवत्तम ॥ १२.९४.१२ ॥
哦,大地之主啊,这是在对待狡诈者、邪恶者和蛮夷者的方略中所说的;不加理会是最强的方略。
12.94.13
अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु ।
बिल्वानि वा परैर्बिल्वैर्म्लेच्छैर्म्लेच्छान्प्रसादयेत् ॥ १२.९४.१३ ॥
以石毁铁,以铁毁石。或以他种木果毁木果,以蛮夷制服蛮夷。
12.94.14
दासानां च प्रदृप्तानामेतदेव हि कारयेत् ।
चण्डालम्लेच्छजातीनां दण्डेनैव निवारणम्।
शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत् ॥ १२.९४.१४ ॥
对傲慢的仆人也应如此。旃陀罗与蛮夷之种,唯以刑罚制止。对狡诈与顽劣之人,应依前所说之法行事。
12.94.15
अन्त्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः ।
उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः ॥ १२.९४.१५ ॥
卑贱者、狡诈者、大臣,以及不肖婆罗门等与四种人生目标相悖者,应以五种方略使之归服。
12.94.16
पौरजानपदा यस्य स्वनुरक्ता अपीडिताः ।
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः ॥ १२.९४.१६ ॥
君王的城市与乡村民众若皆深怀忠爱而不受困扰,他们便是国家的执事者;与他们为敌者,便是国家的敌人。
12.94.17
दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः ।
चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः।
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः ॥ १२.९४.१७ ॥
无论是顽劣还是恭顺者,都应竭力使之归服:旃陀罗与蛮夷之种、异端者、作恶者、有势力者、隐修之所,以及歌者与舞者。
12.94.18
पौरजानपदा यस्य भूतेषु च दयालवः ।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ १२.९४.१८ ॥
君王的城市与乡村民众若对众生慈悲,富足且粮食充盈,那位君王便根基稳固。
12.94.19
प्रतापकालमधिकं यदा मन्येत चात्मनः ।
तदा लिप्सेत मेधावी परभूमिधनान्युत ॥ १२.९४.१९ ॥
当人在威势之时自认为更强大时,智者便可以去贪求他国的财富。
12.94.20
भोगेषूदयमानस्य भूतेषु च दयावतः ।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ १२.९४.२० ॥
对于在享乐中兴起、怜悯众生并且急于行动的人,他的领地会增长;对于守护自身的人,也会增长。
12.94.21
तक्षेदात्मानमेवं स वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ १२.९४.२१ ॥
如同用斧头砍伐森林,那对于行为端正的自己人表现虚伪的人,正是在斩伤自己。
12.94.22
नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः ।
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ १२.९४.२२ ॥
国王若不常常出击,他的敌人不会灭亡。对于懂得消除愤怒的人,便没有憎恨他的人。
12.94.23
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ १२.९४.२३ ॥
智者不应做高尚之人所厌恶的事情;应当思念善事,并使自己投身其中。
12.94.24
नैवमन्येऽवजानन्ति नात्मना परितप्यते ।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ १२.९४.२४ ॥
若国王留下未尽之职,却想享受快乐,他人不会这样轻视他,他自己也不会因此痛苦。
12.94.25
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः ।
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते ॥ १२.९४.२५ ॥
这是人间君王所行之道:征服两界之后,他便确立于胜利之中。
12.94.26
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।
तथा कुर्वंस्त्वमप्येतौ लोकौजेता न संशयः ॥ १२.९४.२६ ॥
婆摩提婆如此教导后,国王便完成了这一切;你若如此行事,也必能征服这两界,毫无疑问。