摩诃婆罗多 · 章 12.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.95.1
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि ।
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे ॥ १२.९५.१ ॥
现在,一位刹帝利在战斗中想要战胜另一位刹帝利,他的胜利中有何法?这是我所问的,请告诉我。
12.95.2
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः ।
ब्रूयादहं यो राजेति रक्षिष्यामि च वः सदा ॥ १२.९५.२ ॥
无论有伴随或独自一人,来到国境的国王应当说:“我是国王,我将永远保护你们。”
12.95.3
मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ ।
ते चोक्तमागतं तत्र घृणीयुः कुशलं भवेत् ॥ १२.९५.३ ॥
给我法之贡赋,否则你们将与我对抗。若他们对到达那里所说之事怀有慈悲,便会平安。
12.95.4
ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथंचन ।
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥ १२.९५.४ ॥
若他们非刹帝利却以任何方式反抗,哦,人主,行恶者应以一切手段加以制止。
12.95.5
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः ।
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥ १२.९५.५ ॥
以为刹帝利没有武器,另一人便拿起武器,认为他极其无力甚至连自我保护都做不到。
12.95.6
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् ।
कथं संप्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥ १२.९५.६ ॥
现在,刹帝利王若向另一位刹帝利进攻,应当如何与之作战?请告诉我,祖父。
12.95.7
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे ।
एक एकेन भाव्यश्च विसृजेति क्षिपामि च ॥ १२.९५.७ ॥
刺客不该在战场上与无甲者或披甲者交战。一人应当与一人相敌;说一声“放开!”,我便投出挑战。
12.95.8
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत् ।
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥ १२.९५.८ ॥
若他披甲而来,则自己也应披甲;若他率军而来,则应率军去挑战他。
12.95.9
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत् ।
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥ १२.९५.९ ॥
若他以诡计作战,则应以诡计回应;若他依法作战,则应以法阻挡他。
12.95.10
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी ।
व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥ १२.९५.१० ॥
骑兵不应冲向战车武士;战车武士应当与战车武士相对而起。不应击打处于危难者、受惊者或已被击败者。
12.95.11
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् ।
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः ॥ १२.९५.११ ॥
不可使用涂毒之箭或带倒钩之箭,那是恶人的兵器。应依正道作战,不可对意欲杀己者动怒。
12.95.12
नास्त्येकस्य गजो युद्धे गजश्चेकस्य विद्यते ।
न पदातिर्गजं युध्येन्न गतेन पदातिनम् ॥ १२.९५.१२ ॥
没有象的人在战场上便没有象,有象的人也找不到象。步兵不应与象交战;乘车而出者不应与步兵交战。
12.95.13
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः ।
दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा।
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः ॥ १२.९५.१३ ॥
受过训练的马有时可以让象与象相斗;具有神圣兵器之力的战士可随意、随时作战——对象、在平地上、从战车或骑马作战皆可。
12.95.14
रामरावणयोर्युद्धे हरयो वै पदातयः ।
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः ॥ १२.९५.१४ ॥
在罗摩与罗波那的战斗中,猴子们步行作战;大福的罗什曼那,以及,国王啊,毗భీषण,也是如此。
12.95.15
रावणस्यान्तकाले च रथेनैन्द्रेण राधवः ।
निजघान दुराचारं रावणं पापकारिणम् ॥ १२.९५.१५ ॥
在罗波那的末日,罗怙之后(罗摩)乘因陀罗之车,杀死了行为邪恶、作恶多端的罗波那。
12.95.16
दिव्यास्त्रबलसंपन्ने सर्वमेतद्विधीयते ।
देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः ॥ १२.९५.१६ ॥
对于具备神圣兵器之力的人,这一切都已规定;在诸天与阿修罗之中,古人都见过此事。
12.95.17
साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत् ।
निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन।
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः। ॥ १२.९५.१७ ॥
然而,当善人之间发生分裂,而一位善人陷入困境时,决不可击打已失去生气或无子嗣之人;也不可击打武器折断、身陷危难、弓弦被割断或坐骑被杀之人。
12.95.18
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत् ।
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः ॥ १२.९५.१८ ॥
应当为他医治,或将他送回自己的领地或家中;应使其不受伤害地得到照料——这便是永恒的法。
12.95.19
तस्माद्धर्मेण योद्धव्यमिति स्वायंभुवोऽब्रवात् ।
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत् ॥ १२.९५.१९ ॥
因此应依法而战,自生者(摩奴)如是说。法在善人之中恒常存在;依靠它,不应毁坏它。
12.95.20
यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः ।
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥ १२.९५.२० ॥
刹帝利以非法取胜,却名为依法之战——这罪人以欺诈为生——便是自己杀害自己。
12.95.21
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत् ।
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥ १२.९५.२१ ॥
这是恶人的行为:以恶劣手段战胜善人。依法而死胜过;以罪业取胜,不是胜利。
12.95.22
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
मूलानि च प्रशाखाश्च दहन्समधिगच्छते ॥ १२.९५.२२ ॥
大王啊,所行的非法不会立刻结果,如同母牛一般慢慢成熟。它焚烧根与枝,蔓延开来并蔓延而至。
12.95.23
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति ।
स वर्धमानस्तेनैव पापः पापे प्रसज्जति ॥ १२.९५.२३ ॥
罪人以罪业获得财富便欢喜。他凭借此而增长,便更加执着于罪。
12.95.24
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव ।
अश्रद्दधानश्च भवेद्विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते। ॥ १२.९५.२४ ॥
以为「没有法」,仿佛嘲笑清净之人,缺乏信心,他便走向毁灭。被伐楼那的索缚住,他为诸天所轻贱。
12.95.25
महादृतिरिवाध्मातः स्वकृतेनैव वर्धते ।
ततः समूलो ह्रियते नदीकूलादिव द्रुमा ॥ १२.९५.२५ ॥
如同被风吹鼓的大皮囊,他只因自己的所为而膨胀;随后便连根被卷走,如同从河岸被冲走的树木。
12.95.26
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्यानि ।
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः ॥ १२.९५.२६ ॥
此时人们斥责他,如同石头斥责破碎的罐子。因此,君王应当依法(达摩)追求胜利与府库。