Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.96.1

नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः ।
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः ॥ १२.९६.१ ॥

国王不应以非法之道去征服大地。得到非法胜利的君主,谁还会以此为善呢?

12.96.2

अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।
पातयत्येव राजानं महीं च भरतर्षभ ॥ १२.९६.२ ॥

与非法相连的胜利不稳定,也不能通向天界。婆罗多中的雄牛啊,它确实会使国王和大地都陷入衰败。

12.96.3

विशीर्णकवचं चैव तवास्मीति च वादिनम् ।
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥ १२.९६.३ ॥

即使抓住了盔甲破碎、说‘我是你的’、合掌而立、放下武器的人,也不应伤害他。

12.96.4

बलेन विजितो यश्च न तं युध्येत भूमिपः ।
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥ १२.९६.४ ॥

国王不应再与被武力所胜的人交战。应将他留在身边一年;之后此人如同重生。

12.96.5

नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता ।
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम् ॥ १२.९६.५ ॥

未满一年之前,不应询问被武力掳走的少女;同样,突然被夺去的一切财富及其他物品也是如此。

12.96.6

न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः ।
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत् ॥ १२.९६.६ ॥

但因屠杀而得来的财富不应留存。让婆罗门饮牛奶,让牛被套上轭;或者应当宽恕,使事情得以再次恢复。

12.96.7

राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते ।
नान्यो राजानमभ्यस्येदराजन्यः कथंचन ॥ १२.९६.७ ॥

国王只应与国王交战,这是所定的法。非刹帝利者无论如何不得攻击国王。

12.96.8

अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा ।
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ॥ १२.९६.८ ॥

两军列阵对峙之时,若有一位婆罗门欲求和平而走到两军之间,那时双方都不应交战。

12.96.9

मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ।
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः।
असङ्ख्येपतदूर्ध्वं स्यादनादेयश्च संसदि ॥ १२.९६.९ ॥

冒犯婆罗门者破坏永恒的界限。若自称刹帝利者逾越此界,则他将陷入无数的堕落,在集会中不被接纳。

12.96.10

यस्तु धर्मविलोपेन मर्यादाभेदनेन च ।
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ॥ १२.९६.१० ॥

然而欲求征服的君王,不应效法那种因败坏法度、破坏界限而行的作风。

12.96.11

धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत् ॥ १२.९६.११ ॥

凭法而得的胜利,还有什么更大的利益可言呢?

12.96.12

सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत् ।
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥ १२.९६.१२ ॥

对于依法应得之人,不应急躁地激怒,而应迅速安抚他们;以温言抚慰和赐予享受来使其满意,这便是诸王至高的治国之道。

12.96.13

भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः ।
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥ १२.९६.१३ ॥

在本国因缺乏资财而受苦、备受煎熬者,等待灾难洪流,将投靠敌人。

12.96.14

अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि ।
संतुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥ १२.९६.१४ ॥

大王,那些四面八方希望国王遭难的人,心满意足,在危难中将很快接纳那敌人为盟友。

12.96.15

नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन ।
जीवितं ह्यप्यतिच्छिन्नः संत्यजेदेकदा नरः ॥ १२.९६.१५ ॥

敌人不可完全斩尽,也不可过度削减;因为被彻底割断的人,可能会一时轻生。

12.96.16

अल्पेनापि च संयुक्तस्तुष्यते नापराधितः ।
शुद्धं जीवितमेवापि तादृशो बहुमन्यते ॥ १२.९६.१६ ॥

即使只拥有很少,他也知足,不会去犯过错;这样的人甚至把纯洁的生活也视为丰厚。

12.96.17

यस्य स्फीतो जनपदः संपन्नः प्रियराजकः ।
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥ १२.९६.१७ ॥

其国土丰盛富足,其官吏深得民心,其仆从与大臣皆满足,这样的君王根基稳固。

12.96.18

ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः ।
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते ॥ १२.९६.१८ ॥

凡受其尊敬的,应受敬重的祭司、家庭祭司、导师,以及其他最博学的人,都由他来礼敬,这样的人便被称为通晓世间之人。

12.96.19

एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः ।
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः ॥ १२.९६.१९ ॥

最优秀的天神正是凭借此种品行获得了大地;其他国王渴望胜利,也如此行事。

12.96.20

भूमिवर्जं धनं राजा जित्वा राजन्महाहवे ।
अपि चान्नोषधीः शश्वदाजहार प्रतर्दनः ॥ १२.९६.२० ॥

国王啊,在大战中获胜后,国王取得了除土地以外的财富;而般陀那也始终取走了食物与草药。

12.96.21

अग्रिहोत्राग्निशेषं च हविर्भोजनमेव च ।
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥ १२.९६.२१ ॥

提沃达娑又取走了阿耆尼霍特拉火的余烬和供品之食,于是他成了冒犯婆罗门的人。

12.96.22

सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ ।
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत ॥ १२.९६.२२ ॥

那婆伽将连同国王的诸王国作为达叙那布施出去,婆罗多之后啊,唯独不包括博学婆罗门的财产和苦行者的所需。

12.96.23

उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर ।
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥ १२.९६.२३ ॥

युधिष्ठिर啊,知法的古代国王拥有高低各种财富;这一切都令我满意。

12.96.24

सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः ।
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥ १२.९६.२४ ॥

欲求胜利的国王,应当超越一切知识,而不是靠幻术或伪善;欲求自身繁荣者,应当如此行事。