Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.97.1

क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप ।
अपयाने च युद्धे च राजा हन्ति महाजनम् ॥ १२.९७.१ ॥

人主啊,没有比刹帝利之法更罪恶的法;在撤退和战斗中,国王杀死众多的人。

12.97.2

अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ १२.९७.२ ॥

那么,国王凭借何种行为征服诸世界呢?博学者啊,婆罗多族的雄牛,请告诉渴望知道的我。

12.97.3

निग्रहेण च पापानां साधूनां संग्रहेण च ।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥ १२.९७.३ ॥

以惩治恶人、庇护善人,以及祭祀和布施,国王便变得清净无垢。

12.97.4

उपरुन्धन्ति राजानो भूतानि विजयार्थिनः ।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥ १२.९७.४ ॥

求胜的国王们围困众生;他们得胜之后,又再次养育民众。

12.97.5

अपविध्यन्ति पापानि दानयज्ञतपोबलैः ।
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते ॥ १२.९७.५ ॥

凭借布施、祭祀和苦行的力量,他们驱除罪恶;因对众生施以恩惠,他们的功德增长。

12.97.6

यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च ।
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति ॥ १२.९७.६ ॥

正如进入田地和离开田地的人会损害谷物庄稼,但谷物本身并不会毁坏。

12.97.7

एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा ।
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः ॥ १२.९७.७ ॥

如此放出兵器,他们以多种方式击杀该杀之人。对他而言,所见的赎罪之法便是使众生重新得以安立。

12.97.8

यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति ।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥ १२.९७.८ ॥

常常使众生免于祸患、杀戮与苦恼,并以赦免其命保护他们免受盗贼之害的人——他便是给予财富、给予幸福的君主。

12.97.9

स सर्वयज्ञारीजानो राजाऽथाभयदक्षिणैः ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ १२.९७.९ ॥

那位君王,生于一切祭祀之果,以无畏作为祭祀的酬金——在此享受种种吉祥之后,便得生往因陀罗之界。

12.97.10

ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति ।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥ १२.९७.१० ॥

当婆罗门遭遇危难时,若有人挺身而出作战,将自身献为祭柱——那祭祀便有无尽的酬金。

12.97.11

अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा ।
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥ १२.९७.११ ॥

无畏地驱散敌人,同样地承受箭矢——诸天在大地上看不到比这更好的事情。

12.97.12

तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे ।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥ १२.९७.१२ ॥

战斗中有多少兵器刺穿他的皮肤,他便享有多少个满足一切愿望、永不衰败的世界。

12.97.13

यदस्य रुधिरं गात्रादाहवे संप्रवर्तते ।
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते ॥ १२.९७.१३ ॥

当他在战场上肢体流血时,随着这血流,他便从一切罪恶中解脱。

12.97.14

यानि दुःखानि सहते प्राणानामतिपातने ।
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः ॥ १२.९७.१४ ॥

当他的生命之气被切断时所承受的痛苦,知法者知道没有比这更大的苦行。

12.97.15

पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः ।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥ १२.९७.१५ ॥

战场上怯懦者留在后方,而守法之人寻求勇士的庇护,如同从雨云中求得生命。

12.97.16

यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये ।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥ १२.९७.१६ ॥

若人们在安全时期待英雄,在危险时也同样如此并相应地回报,那便是正道;可事实并非如此。

12.97.17

यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥ १२.९७.१७ ॥

若他们知道他的功绩,便常向他致敬,行事合理公正,那就好了;可事实并非如此。

12.97.18

पुरुषाणां समानानां दृश्यते महदन्तरम् ।
संग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च ॥ १२.९७.१८ ॥

在战场上,即使是同等的人,在列阵之时和卓越者倒下之时,也会显出巨大的差别。

12.97.19

पतत्यभिमुखं शूरः परान्भीरुः पलायते ।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥ १२.९७.१९ ॥

勇士面向敌人而倒下,怯懦者则逃跑;已踏上通往天界之路的人,却在危难中抛弃同伴。

12.97.20

मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान् ॥ १२.९७.२० ॥

亲爱的孩子,愿这样的不义之人永不降生。

12.97.21

ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ।
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ॥ १२.९७.२१ ॥

那些在战场上抛弃同伴、平安返回家中的人,以因陀罗为首的诸神会给他们带来厄运。

12.97.22

त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ।
तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥ १२.९७.२२ ॥

凡为求自保而抛弃同伴的人,这样的刹帝利可以用木棍或铁器击杀,用草火焚烧,或像牲畜一样宰杀。

12.97.23

अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥ १२.९७.२३ ॥

对刹帝利而言,死于床榻、吐出痰与胆汁、可怜地哀号,乃是非法之事。

12.97.24

अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ १२.९७.२४ ॥

古老的智者不称赞那位刹帝利的行为:身体未受伤便迎来死亡。

12.97.25

न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत् ॥ १२.९७.२५ ॥

亲爱的孩子,刹帝利死于家中并不值得称赞。对于勇士而言,怯懦是不法且卑劣的。

12.97.26

इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन् ।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन् ॥ १२.९७.२६ ॥

呻吟道:“此苦难啊,唉,这悲痛;我是最卑劣的!”面容颓丧,为大臣们哀悼。

12.97.27

अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति ॥ १२.९७.२७ ॥

他羡慕健康之人,又屡次求死;然而骄傲而有志气的勇士不配这样的死亡。

12.97.28

रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजित ।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति ॥ १२.९७.२८ ॥

刹帝利在战场上大肆杀戮,受到朋友敬重,被锐利武器所伤,他才配得上这样的死亡。

12.97.29

शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते मशम् ।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥ १२.९७.२९ ॥

英雄被勇气与愤怒所充满,猛烈作战,甚至不察觉自己的肢体被敌人砍断。

12.97.30

स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥ १२.९७.३० ॥

他在战场上得到受赞誉、为诸世界所敬重的死亡,获得广大的自身之法,便往因陀罗的世界去。

12.97.31

सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः ।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥ १२.९७.३१ ॥

英雄以一切方法站立在战场前线,舍弃生命,不show背脊,便获得因陀罗的同界(sālokya)。

12.97.32

यत्रयत्र हतः शूरः शत्रुभिः परिवारितः ।
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते ॥ १२.९७.३२ ॥

英雄无论在何处被敌人包围而阵亡,若不屈服于卑怯,便获得不灭的世界。