摩诃婆罗多 · 章 13.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.10.1
कर्मणां च समस्तानां फलिनां भरतर्षभ ।
फलानि महतां श्रेष्ट प्रब्रूहि परिपृच्छतः ॥ १३.१०.१ ॥
婆罗多族的雄牛啊,伟人中最优秀者,请为我这位提问者讲说一切有果之业的果报。
13.10.2
हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत ।
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर।
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ १३.१०.२ ॥
好吧,你所问的,我将告诉你,婆罗多啊。游陀听,听这诸仙的秘密:死后所得的去处,是人们长久所渴望的。
13.10.3
येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ १३.१०.३ ॥
人以何身造何业,便以那同一身受那业的果报。
13.10.4
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १३.१०.४ ॥
人在何种境况中造作善或恶之业,便在那同一境况中,生生世世享受其果报。
13.10.5
न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह ।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे ॥ १३.१०.५ ॥
此处以意与五根所作之业,并不消失;它们常为其证人,第六者即自我,也是善恶的见证。
13.10.6
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ १३.१०.६ ॥
当以眼施人,以心施人,以善良真实之言施人;随从而侍奉。这便是有五种布施的祭祀。
13.10.7
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ १३.१०.७ ॥
在路上,把食物毫无勉强地施予一位疲惫的、从未见过的过路人,此人便获得巨大的福报。
13.10.8
स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलसंवीते वासांस्याभरणानि च ॥ १३.१०.८ ॥
为睡在光地上的人施予居所与床榻,为身着树皮与粗布的人施予衣裳与饰物。
13.10.9
वाहनानि च यानानि योगात्मनि तपोधने ।
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ॥ १३.१०.९ ॥
施予车马给心志专注于瑜伽、以苦行为财富的人;施予力量与勇气给照料圣火的国王。
13.10.10
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति ।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ १३.१०.१० ॥
舍弃五味,福分随之而来;舍弃肉食,便能得到牲畜与子嗣。
13.10.11
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् ।
मण्डूकशायी च नरो लभते चेप्सितां गतिम् ॥ १३.१०.११ ॥
头朝下倒悬、居于水中、如蛙般而卧的人,便能得到他所向往的归宿。
13.10.12
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ १३.१०.१२ ॥
为尊敬客人,应施予洗足之水、座位、灯火、食物与住处;此祭祀有五种布施。
13.10.13
वीरासनं वीरशय्यां वीरस्थानमुपासतः ।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ १३.१०.१३ ॥
侍奉英雄之座、英雄之榻与英雄之所者,得不灭之世界,随其所愿而往。
13.10.14
धनं लभेत दानेन मौनेनाज्ञां विशांपते ।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ १३.१०.१४ ॥
以布施得财富,以缄默得权威,民之主啊;以苦行得享乐,以梵行得长寿。
13.10.15
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ १३.१०.१५ ॥
以不害为果,得容貌、富贵与健康;食果根者得王位,食树叶者得天界。
13.10.16
प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते ।
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ॥ १३.१०.१६ ॥
大王啊,据说绝食至死者处处得乐;行菜食之戒者得牛群富足;食草者升天。
13.10.17
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥ १३.१०.१७ ॥
女子于一日三时沐浴、只饮风者,得祭祀之果;以真实得天界,以受戒得尊贵之族。
13.10.18
सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः ।
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने ॥ १३.१०.१८ ॥
常以火祭洁净、唯饮水的再生者,借诸风神成就王权;不浪费者,得天界之上部。
13.10.19
उपवासं च दीक्षायामभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ १३.१०.१९ ॥
君王啊,在受戒时禁食并行灌顶,持续十二年,胜过英雄之位。
13.10.20
अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते ।
तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम् ॥ १३.१०.२० ॥
研习所有吠陀者立即脱离苦难;诵读并记持之,得生天界;知其义理,则得最高归宿。
13.10.21
वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम् ।
मानसं हि चरन्धर्म स्वर्गलोकमुपाश्नुते ॥ १३.१०.२१ ॥
对无欲之人,诵吠陀被说为得天界与解脱之果;以心行法者,得至天界。
13.10.22
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौप्राणान्तिकोरोगस्तांतृष्णां त्यजतः सुखं ॥ १३.१०.२२ ॥
那愚人难以舍弃、即使人老而它不老的贪渴,那致命之病——舍弃它的人得乐。
13.10.23
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १३.१०.२३ ॥
犹如小牛在千头牛中找到自己的母亲,先前所作之业亦随作者而至。
13.10.24
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १३.१०.२४ ॥
犹如花与果,不待催促,亦不违其时节;先前所作之业,亦不越其时。
13.10.25
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥ १३.१०.२५ ॥
衰老者头发变白,衰老者牙齿脱落;眼睛和耳朵也衰弱,唯独贪欲从不衰老。
13.10.26
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः ।
माता च येन प्रीणाति पृथिवी तेन पूजिता।
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ॥ १३.१०.२६ ॥
凡能使祖先欢喜的,便能使造物主欢喜;凡能使母亲欢喜的,大地便受到尊敬;凡能使师长欢喜的,梵(吠陀)便受到尊崇。
13.10.27
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ १३.१०.२७ ॥
凡尊重这三者的人,一切法都受到尊重;凡轻慢这三者的人,他的一切行为都没有果报。
13.10.28
भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः ।
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ १३.१०.२८ ॥
众位俱卢英杰听了毗湿摩的这番话,都感到惊讶;他们心中欢喜,于是满怀喜悦。
13.10.29
यन्मन्त्रे भवति वृथोपयुज्यमाने ।
यत्सोमे भवति वृथाऽभिषूयमाणे।
यच्चाग्नौ भवति वृथाऽभिहूयमाने ।
तत्सर्वं भवति वृथाऽभिधीयमाने ॥ १३.१०.२९ ॥
咒语被徒然使用时便归于无效,苏摩被徒然压榨时便归于无效,祭火被徒然献祭时便归于无效——凡此种种,在徒然诵读时都归于无效。
13.10.30
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत ।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ १३.१०.३० ॥
婆罗多之子啊,此乃仙人所说,我也已为你讲述。关于获得善恶果报之事,你还想从中听到什么?