摩诃婆罗多 · 章 13.106
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.106.1
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ ।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥ १३.१०६.१ ॥
无罪者啊,大臂者啊,请详细告诉我布施之牛所获的果报;我尚未满足,请讲述吧。
13.106.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ १३.१०६.२ ॥
此处人们也讲述这个古老的故事:仙人奥达拉基与那支盖多的两人之言。
13.106.3
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥ १३.१०६.३ ॥
仙人奥达拉基受持了灌顶的誓愿之后,便对儿子那支盖多说:“你来侍奉我吧。”
13.106.4
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ।
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥ १३.१०६.४ ॥
那誓戒圆满之时,大仙对儿子说话;那儿子专注于漱净之仪,且喜好诵习吠陀。
13.106.5
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ १३.१०६.५ ॥
柴薪、吉祥草、花朵,以及四周盛满水的水瓶——我把它们忘了;你取来这些,从河岸回到这里来吧。
13.106.6
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ १३.१०६.६ ॥
“我去了却未能取得全部,它们都被河流的急流冲走了;我看不见它们。”那位仙人这样对父亲说。
13.106.7
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा ।
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः ॥ १३.१०६.७ ॥
饥渴与疲惫交加的仙人奥达拉基当时因愤怒而昏厥,诅咒那个儿子说:“去见阎摩吧!”
13.106.8
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः ।
प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि ॥ १३.१०६.८ ॥
他被父亲的言语之雷如此击中,合掌说着“请息怒吧”,失去知觉倒在地上。
13.106.9
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।
किं मया कृतमित्युक्त्वा निपपात महीतले ॥ १३.१०६.९ ॥
父亲看见那弃置于地的那支悉达多(那支)倒下,悲痛昏厥,说“我做了什么?”便倒在地上。
13.106.10
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः ।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥ १३.१०६.१० ॥
他被悲痛所笼罩,为自己的儿子哀悼,那一天剩下的时间过去了,那可怕的夜晚也在那里过去了。
13.106.11
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ १३.१०६.११ ॥
库鲁之最啊,父亲的眼泪纷纷落下,那悉达多在丝绸床榻上被浸湿,如同被雨水浸透的庄稼。
13.106.12
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः ।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥ १३.१०६.१२ ॥
他询问那位值得称赞、重新归来的儿子,他被神圣的香料涂抹着,站立起来,仿佛梦已结束而醒来。
13.106.13
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ १३.१०६.१३ ॥
儿啊,你是否凭自己的行为赢得了吉祥的世界?幸而你又回来了,你的身体已不再是人的身体。
13.106.14
प्रत्यक्षदार्शी सर्वस्य वित्रा पृष्टो महात्मना ।
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ १३.१०६.१४ ॥
那位亲见一切的大德者被问及后,在父亲之中起身,在众大仙面前陈述。
13.106.15
कुर्वन्मवच्छासनमाशु यातो ।
ह्यहं विशालां रुचिरप्रभासाम्।
वैवस्वतीं प्राप्य सभामवश्यं ।
सहस्रशो योजनहैमभौमाम् ॥ १३.१०६.१५ ॥
我奉你的命令迅速前往,必定抵达了毗婆娑之子(阎摩)的集会大厅——它广大而光彩宜人,延伸数千由旬,由黄金与大地构成。
13.106.16
दृष्टैव मामभिमुखमापतन्तं ।
गृहं निवेद्यासनमादिदेश।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च ।
भवत्कृते पूजयामास मां साः ॥ १३.१०६.१६ ॥
他一见我走来,便通报屋内,指示座位,并为了你,以奉水等礼敬款待我。
13.106.17
ततस्त्वहं तं शनकैरवोचं ।
वृतः सदस्यैरभिपूज्यमानः।
प्राप्तोऽस्मि ते विषयं धर्मराज ।
लोकानर्हो यानहं तान्विधत्स्व ॥ १३.१०६.१७ ॥
于是我悄悄地对他说,被众位与会者环绕并受到礼敬:“法王啊,我已来到你的境界。请为我安排我所应得的世界。”
13.106.18
यमोऽब्रवीन्मां न मृतोसि सौम्य ।
यमं पश्येत्याह स त्वां तपस्वी।
पिता प्रदीप्ताग्निसमानतेजा ।
न तत्छक्यमनृतं विप्र कर्तुम् ॥ १३.१०६.१८ ॥
阎摩对我说:“善良的人啊,你没有死。看看阎摩吧。”那位光辉如燃烧之火的苦行父亲这样对你说。婆罗门啊,说谎是不可能的。
13.106.19
दृष्टस्तेऽहं प्रतिगच्छस्व तात ।
शोचत्यसौ तव देहस्य कर्ता।
ददानि किञ्चापि मनःप्रणीतं ।
प्रियातिथेस्तव कामान्वृणीष्व ॥ १३.१०६.१९ ॥
“我已经见到你了,亲爱的孩子;现在回去吧。那位造就你身体的人正在悲伤。我一定会给你你心中所想的某样东西。亲爱的客人啊,选择你的愿望吧。”
13.106.20
तेनैवमुक्तस्तमहं प्रत्यवोचं ।
प्राप्तोस्मि ते विषयं दुर्निवर्त्यम्।
इच्छाम्यहं पुण्यकृतां समृद्धाँ-
ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥ १३.१०६.२० ॥
他这样对我说之后,我回答他:“我已来到你的领域,从这里很难返回。如果我配得上一个恩赐,我希望看见有德者繁盛的诸世界。”
13.106.21
यानं समारोप्य तु मां स देवो ।
वाहैर्युक्तं सुप्रभं भानुमत्तम्।
संदर्शयामास तदाऽऽत्मलोका-
न्सर्वास्तथा पुण्यकृतां द्विजेन्द्र ॥ १३.१०६.२१ ॥
那位神明让我登上一辆驾着马匹、极其明亮辉煌的车,然后向我展示了他自己的诸世界以及所有有德者的世界,婆罗门中最优秀者啊。
13.106.22
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम् ।
नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ १३.१०६.२२ ॥
在那里,我看见了伟大灵魂们光辉的居所,形状各异,全部由珠宝制成。
13.106.23
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च ।
अनेकशतभौमानि सान्तर्जलवनानि च ॥ १३.१०६.२३ ॥
它们明亮如月轮,挂满小铃的网饰,有数百层,内部有水与林木。
13.106.24
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ १३.१०६.२४ ॥
它们如吠琉璃与太阳般光耀,由银与金制成,呈朝阳的色彩,既有固定的也有可移动的。
13.106.25
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ १३.१०६.२५ ॥
由食物与饮品构成的山岳、衣物、床榻,以及立于宫室中的树木,结出一切所欲之果。
13.106.26
नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः ।
घोषवन्ति च यानानि युक्तान्धथ सहस्रशः ॥ १३.१०६.२६ ॥
河流、街道、议会厅、阶梯井与长池,无处不在;还有轰鸣的车辆,成千上万地套驾着。
13.106.27
क्षीरस्रवा वै सरितो गिरींश्च ।
सर्पिस्तथा विमलं चापि तोयम्।
वैवस्वतस्यानुमतांश्च देशा-
नदृष्टपूर्वान्सुबहूनपश्यम् ॥ १३.१०६.२७ ॥
流淌着乳汁的河流与山岳,也有酥油与清水;毗婆娑多(阎摩)所许的诸地,许多是我以前从未见过的,我都看见了。
13.106.28
सर्वान्दृष्ट्वा तदहं धर्मराज-
मवोचं वै सर्वदेवं सहिष्णुम्।
क्षीरस्यैताः सर्पिषश्चैव नद्यः ।
शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः ॥ १३.१०६.२८ ॥
我见到这一切之后,对法王——诸神之主、忍耐者——说道:这些奶与酥油之河,水流永不停歇,它们是为谁的享用而流淌的呢?
13.106.29
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेता-
न्ये दातारः साधवो गोरसानाम्।
अन्ये लोकाः शाश्वता वीतशोकैः ।
समाकीर्णा गोप्रदाने रतानाम् ॥ १३.१०६.२९ ॥
阎摩说:应知这些可供食用。对于布施牛乳制品的善人,另有永恒的世界,充满了无忧、乐于施牛的人。
13.106.30
न त्वेतासां दानमात्रं प्रशस्तं ।
पात्रं कालो गोविशेषो विधिश्च।
ज्ञात्वा देयं विप्र गवान्तरं हि ।
दुःखं ज्ञातुं पावकादित्यभूतम् ॥ १३.१०६.३० ॥
然而仅仅布施这些并不值得称颂。应当知晓受施者、时机、特定之牛与规则而施予,婆罗门啊;也应知晓另一头牛,并应知晓由火与日所生的痛苦。
13.106.31
स्वाध्यायवान्योऽतिमात्रं तपस्वी ।
वैतानस्थो ब्राह्मणः पात्रमासाम्।
गोषु क्षान्तं गोशरण्यं कृतज्ञं ।
वृत्तिग्लानं तादृशं पात्रमाहुः ॥ १३.१०६.३१ ॥
研习吠陀、极其苦行、安住于吠檀那火中的婆罗门,是这些布施的合适受者。对牛宽容、为牛之庇护、知恩图报、因生计而困顿的人——这样的人被称为合适的受者。
13.106.32
कृच्छ्रोत्सृष्टाः पोष्णाभ्यागताश्च ।
द्वारैरेतैर्गोविशेषाः प्रशस्ताः।
अन्तर्जाताः सुक्रयज्ञानलब्धाः ।
प्राणक्रीताः सोदकाः सोद्वहाश्च ॥ १३.१०६.३२ ॥
因困厄而被遗弃、来此受养的牛——通过这些途径,特别种类的牛受到称赞:生于家中的,凭善价或智慧获得的,以性命代价买来的,带有水的,能够负重的。
13.106.33
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ ।
तृप्ता गावस्तर्पितेभ्यः प्रदेयाः।
वत्सैः प्रीताः सुप्रजाः सोपचारा-
स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ १३.१०६.३३ ॥
在地上禁食三夜,只饮水,然后将吃饱的母牛交给已经满足的人;这些母牛与小牛一同欢喜,子嗣良好,恭敬供奉三日;并应以牛乳制品维持生活。
13.106.34
दत्त्वा धेनुं सुव्रतां साधुदोहां ।
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ १३.१०६.३४ ॥
若施舍一头守善誓、易挤奶、有好小牛、不逃跑的母牛,施者便享受天界,年数与她身上的毛数相同。
13.106.35
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय ।
दान्तं धुर्यं बलवन्तं युवानम्।
कुलानुजीव्यं वीर्यवन्तं बृहन्तं ।
भुङ्क्ते लोकान्सम्मितान्धेनुदस्य ॥ १३.१०६.३५ ॥
同样,若将驯服、可套轭、强壮、年轻、能养家、有力、高大的挽牛施予婆罗门,施牛者便享受与其施舍相称的诸世界。
13.106.36
वृद्धे ग्लाने सम्भ्रमे वा महार्थे ।
कृष्यर्थं वा हौम्यहेतोः प्रमूत्याम्।
गुर्वर्थं वा यज्ञसमाप्तये वा ।
गां वै दातुं देशकालोऽविशिष्टः ॥ १३.१०६.३६ ॥
无论在年老、疾病、困境,或为了重大目的;为耕作、为供物、为产子、为师长,或为完成祭祀——施予母牛,在地点与时间上并无特别的区分。
13.106.37
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम् ।
अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति ॥ १३.१०६.३७ ॥
听了毗婆娑多(阎摩)的话,我又说道:没有牛的人,如何能到达施牛者的世界?
13.106.38
ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम् ।
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः ॥ १३.१०६.३८ ॥
于是智慧的阎摩说:施牛本身便能得到那去处。作为施牛的替代,即使没有牛,也可以成为施牛者。
13.106.39
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः ।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ १३.१०६.३९ ॥
在没有牛的情况下,持守誓愿者若施予酥牛,对他而言这些载酥之河流淌,如同对牛犊充满爱意的母牛般涌流。
13.106.40
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः ।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ १३.१०६.४० ॥
没有酥时,持守誓愿者若施予芝麻牛,他便被那牛从艰难中渡过,并在乳河中欢喜。
13.106.41
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।
स कामप्रवहां शीतीं नदीमेतामुपाश्नुते ॥ १३.१०६.४१ ॥
没有芝麻时,持守誓愿者若施予水牛,他便获得这条随心所愿而流的清凉之河。
13.106.42
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत् ।
दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥ १३.१०६.४२ ॥
法王便在那里向我展示了这些;见到它们后,哦,不退者(克里希那),我获得了无上的喜悦。
13.106.43
निवेदये चाहमिमं प्रियं ते ।
क्रतुर्महानल्पधनप्रचारः।
प्राप्तो मया तात स मत्प्रसूतः ।
प्रपत्स्यते वेदविधिप्रवृत्तः ॥ १३.१०६.४३ ॥
孩子啊,我把这个好消息告诉你:耗费钱财很少的大祭祀已经到了我手中,它将由我依照吠陀仪轨举行。
13.106.44
शापो ह्ययं भवतोऽनुग्रहाय ।
प्राप्तो मया यत्र दृष्टो यमो वै।
दानव्युष्टिं तत्र दृष्ट्वा महात्म-
न्निःसंदिग्धान्दानधर्मांश्चरिष्ये ॥ १३.१०६.४४ ॥
大士啊,您的这个诅咒也是为了成全我;我在见到阎摩之处获得了它。在那里见到布施的果报后,我将毫无疑惑地践行布施之法。
13.106.45
इदं च मामब्रवीद्धर्मराजः ।
पुनः पुनः सम्प्रहृष्टो महर्षे।
दानेन यः प्रयतोऽभूत्सदैव ।
विशेषतो गोप्रदानं च कुर्याम् ॥ १३.१०६.४५ ॥
大仙啊,法王也一再非常欢喜地对我说:凡是在布施上始终精进的人,尤其应当施舍母牛。
13.106.46
शुद्धो ह्यर्थो नावमन्यस्व धर्मा-
न्पात्रे देयं देशकालोपपन्ने।
तस्माद्गावस्ते नित्यमेव प्रदेया ।
माभूच्च ते संशयः कश्चिदत्र ॥ १३.१०६.४६ ॥
不要轻视清净的财物与法的职责;布施应在合适的地方与时间,施予合格的受者。因此,你的牛应当经常布施,关于此事你心中不应有任何疑惑。
13.106.47
एताः पुरा ह्यददन्नित्यमेव ।
सान्तात्मानो दानपथे निविष्टाः।
तपांस्युग्राण्यप्रतिशङ्कमाना-
स्ते वै दानं प्रददुश्चैव शक्त्या ॥ १३.१०६.४७ ॥
往昔那些常施舍这些母牛的人,心志安定,专注于布施之道,毫不犹豫地修行严苛的苦行,他们确实依自己的能力而布施。
13.106.48
काले च शक्त्या मत्सरं वर्जयित्वा ।
शुद्धात्मानः श्रद्धिनः पुण्यशीलाः।
दत्त्वा गा वै लोकममुं प्रपन्ना ।
देदीप्यन्ते पुण्यशीलास्तु नाके ॥ १३.१०६.४८ ॥
在适当的时候,依自己的能力,摒弃嫉妒,心灵纯净、有信心、德行高尚者布施牛只,便能抵达那个世界;有德行者在天界光辉闪耀。
13.106.49
एतद्दानं न्यायलब्धं द्विजेभ्यः ।
पात्रे दत्तं प्रापणीयं परीक्ष्य।
काम्याष्टम्यां वर्तितव्यं दशाहं ।
रसैर्गवां शकृता प्रस्नवैर्वा ॥ १३.१०६.४९ ॥
此布施应以合法所得之财,经考察后施与配得的婆罗门,使其得果。于所愿的第八日,应以牛的汁液、牛粪或牛奶守持十日之戒。
13.106.50
देवव्रती स्याद्वृषभप्रदानै-
र्वेदावाप्तिर्गोयुगस्य प्रदाने।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने ।
पापोत्सर्गः कपिलायाः प्रदाने ॥ १३.१०६.५० ॥
布施公牛可成为奉献诸神者;布施一对牛可得吠陀;布施与牛相关之物可得圣地;布施黄褐色的迦毗罗牛可脱离罪恶。
13.106.51
गामप्येकां कपिलां सम्प्रदाय ।
न्यायोपेतां कलुषाद्विप्रमुच्येत्।
गवां रसात्परमं नास्ति किञ्चि-
द्गवां प्रदानं सुमहद्वदन्ति ॥ १३.१०६.५१ ॥
布施一头合法获得的迦毗罗牛,婆罗门即可脱离罪恶。没有比牛的汁液更高的东西;布施牛被称为极其伟大。
13.106.52
गावो लोकांस्तारयन्ति क्षरन्त्यो ।
गावश्चान्नं संजनयन्ति लोके।
यस्तं जानन्न गवां हार्दमेति ।
स वै गन्ता निरयं पापचेताः ॥ १३.१०६.५२ ॥
母牛流淌乳汁,能够度脱世界;母牛在世间生产食物。知道这一点却不对母牛怀有慈爱的人,心怀恶念,必定堕入地狱。
13.106.53
यैस्तद्दत्तं गोसहस्रं शतं वा ।
दशार्धं वा दश वा साधुवत्सम्।
अप्येका वै साधवे ब्राह्मणाय ।
सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ १३.१०६.५३ ॥
凡是布施一千、一百、五十、十头母牛(各带良犊)的人,或者哪怕只将一头母牛布施给贤善的婆罗门,对他们而言,在彼世那头母牛便化作一条具有功德圣渡口的河流。
13.106.54
प्राप्त्या पुष्ट्या लोकसंरक्षणेन ।
गावस्तुल्याः सूर्यपादैः पृथिव्याम्।
शब्दश्चैकः संनतिश्चोपभोगा-
स्तस्माद्गोदः सूर्य इवावभाति ॥ १३.१०६.५४ ॥
母牛以所得、滋养和护持世界之功,在大地上与太阳的光线相等。它们的鸣声、温顺的侍奉与其用处原为一体;因此布施母牛的人光明如太阳。
13.106.55
गुरुं शिष्यो वरयेद्गोप्रदाने ।
स वै गन्ता नियतं स्वर्गमेव।
विधिज्ञानां सुमहान्धर्म एष ।
विधिं ह्याद्यं विधयः संविशन्ति ॥ १३.१०६.५५ ॥
在布施母牛时,弟子应当尊奉其师;他必定升往天界。对于通晓仪轨者而言,这是极大的法,因为一切仪轨都归入最初的仪轨之中。
13.106.56
इदं दानं न्यायलब्धं द्विजेभ्यः ।
पात्रे दत्त्वा प्रापयेथाः परीक्ष्य।
त्वय्याशंसन्त्यमरा दानवाश्च ।
वयं चापि प्रसृते पुण्यशीले ॥ १३.१०६.५६ ॥
将这笔以正当方式获得的布施交给再生者。经过考察,将其交给合适的受施者,使它送达他们。诸神与檀那婆也寄望于你,我们也是如此,啊,有德行的人。
13.106.57
इत्युक्तोऽहं धर्मराजं द्विजर्षे ।
धर्मात्मानं शिरसाऽभिप्रणम्य।
अनुज्ञातस्तेन वैवस्वतेन ।
प्रत्यागमं भगवत्पादमूलम् ॥ १३.१०६.५७ ॥
受到如此吩咐后,我向法王——那位正法之魂——低头致礼。得到毗婆娑婆的许可后,我返回到尊者的足下,啊,再生者中的最优秀者。