Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.11.1

आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च ।
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह ॥ १३.११.१ ॥

精通法的人啊,我愿听闻不残忍与虔信之人的美德。精通法的祖父啊,请把它告诉我。

13.11.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं शुकस्य च महात्मनः ॥ १३.११.२ ॥

此处人们也讲述这个古老的故事:婆萨婆(因陀罗)与大德者舍迦之间的对话。

13.11.3

विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः ।
सविषं काण्डमादाय मृगयामास वै मृगम् ॥ १३.११.३ ॥

在迦尸王的国土上,一个猎人离开村庄,拿着涂毒的箭去猎鹿。

13.11.4

तत्र चामिषलुब्धेन लुब्धकेन महावने ।
अविदूरे मृगान्दृष्ट्वा बाणः प्रतिसमाहितः ॥ १३.११.४ ॥

在那片大森林里,贪图肉食的猎人看见不远处的鹿,便稳稳地搭好了箭。

13.11.5

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा ।
महान्वनतरुस्तत्र विद्धो मृगजिघांसया ॥ १३.११.५ ॥

那无法抵挡的兵器和迅速射向目标的箭,出于想要杀鹿的念头,使那里一棵大树被射穿。

13.11.6

स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः ।
उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ १३.११.६ ॥

那棵树被涂有烈毒的极其强劲的箭所伤,抛落了果实与树叶,便枯萎了。

13.11.7

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः ।
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ १३.११.७ ॥

那棵树虽已变成这般模样,长期栖居于其树洞中的鹦鹉,因对此树的虔诚,仍不离开它的住所。

13.11.8

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि ।
कृतज्ञः सह वृक्षेण धर्मात्मा सोप्यशुष्यत ॥ १३.११.८ ॥

虽不能行走、无食可取、身体衰弱、言语含混,那只感恩而正直的鹦鹉也与那棵树一同枯萎了。

13.11.9

तमुदारं महासत्वमतिमानुषचेष्टितम् ।
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः ॥ १३.११.९ ॥

见此高尚、伟大心灵、行为超越凡人、苦乐平等的他,帕卡的征服者因陀罗感到惊异。

13.11.10

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः ।
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः ॥ १३.११.१० ॥

于是因陀罗陷入沉思:这位再生者处于畜生之身,为何能安住于几乎不可想象的慈悲之中?

13.11.11

अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु ।
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते ॥ १३.११.११ ॥

或者说,这里并无奇异之处,婆娑(因陀罗)如此想。在一切众生之中,一切事物到处都可见。

13.11.12

ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः ।
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ १३.११.१२ ॥

于是因陀罗以婆罗门之形、化为人身,降落到大地,对那只鸟说道。

13.11.13

शुक भो पक्षिणांश्रेष्ठ दाक्षेयी सुप्रजास्त्वया ।
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम् ॥ १३.११.१३ ॥

啊,鸟中之王的鹦鹉,达刹之女所生、子嗣善良的你,我问你:你为何不离开这棵树?

13.11.14

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् ।
स्वागतं देवराज त्वं विज्ञातस्तपसा मया ॥ १३.११.१४ ॥

被问之后,鹦鹉低头向他致敬,说道:欢迎你,天王;我以苦行认出了你。

13.11.15

ततो दशशताक्षेण साधुसाध्विति भाषितम् ।
अहो विज्ञानमित्येवं मनसा पूजितस्ततः ॥ १३.११.१५ ॥

于是千眼者说:"善哉,善哉!",心中赞叹道:"啊,多么深的智慧!"

13.11.16

तमेवं शुभकर्माणं शुकं परमधार्मिकम् ।
जानन्नपि च तत्पापं पप्रच्छ बलसूदनः ॥ १३.११.१६ ॥

尽管他知道这位鹦鹉行善积德、极为正直,那位击败波罗的天神仍向他询问那桩过失。

13.11.17

निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम् ।
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥ १३.११.१७ ॥

这棵树无叶、无果、干枯,不能庇护飞鸟。这里有如此广大的森林,你为何侍奉这棵树?

13.11.18

अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः ।
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥ १३.११.१८ ॥

在这片大森林里,还有许多其他美丽的树木,树洞被树叶遮盖,空间充足可以自由飞翔。

13.11.19

गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् ।
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥ १३.११.१९ ॥

寿命已尽、无力、精华已枯、光彩已失的,哦,坚定者,请以智慧思量,舍弃这棵无常之树。

13.11.20

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् ।
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ १३.११.२० ॥

法性之鹦鹉听了因陀罗所说的话,长久地深深叹息,悲伤地说出了这些话。

13.11.21

अनतिक्रमणीयानि दैवतानि शचीपते ।
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप ॥ १३.११.२१ ॥

哦,舍姬之主,诸天神不可违逆。请明白:他们所在之处,你也在那里,哦,诸神之王。

13.11.22

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युते ।
चालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥ १३.११.२२ ॥

我生于此树,此树具足善德,贤者常来;因我善于飞行而得保护,即便敌人也未能伤害我。

13.11.23

किमनुक्रोश्यं वैफल्यमुत्पादयसि मेऽनघ ।
अनुरक्तस्य भक्तस्य संस्पृशे न च पावकम्।
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च ॥ १३.११.२३ ॥

哦,无罪者,何须为我生悲,你为何使我徒然无功?即便是火,我也不会去触碰那已依恋、虔诚、怀有慈悲且无他归之人。

13.11.24

अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम् ।
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ १३.११.२४ ॥

善人的慈悲确是大法的标志;善人的慈悲常常给予爱意。

13.11.25

त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात् ।
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः ॥ १३.११.२५ ॥

在法的疑惑上,诸天神都只问你;因此你被确立为众神之神的主宰。

13.11.26

नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् ।
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत् ॥ १३.११.२६ ॥

千眼者啊,你不该在这么久之后让我这棵树抛弃他。依靠站在平地上者而生活的人,怎会抛弃站在不平之地的人呢?

13.11.27

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः ।
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ १३.११.२७ ॥

因他温和的话语而欢喜,因他的慈悲而满足,帕卡之惩罚者因陀罗对通晓法的鹦鹉(Śuka)说道。

13.11.28

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः ।
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥ १३.११.२८ ॥

当被告知“请选择一个恩惠”时,常怀慈悲的鹦鹉(Śuka)选择了关于那棵树的福祉与起源的恩惠。

13.11.29

विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम् ।
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ १३.११.२९ ॥

因陀罗得知鹦鹉(Śuka)那坚定的虔诚与善德的财富,心中欢喜,立即用甘露洒在那棵树上。

13.11.30

ततः फलानि पत्राणि शाखाश्चापि मनोहराः ।
शुकस्य दृढभक्तित्वाच्छ्रीमत्तां प्राप स द्रुमः ॥ १३.११.३० ॥

此后,因鹦鹉(Śuka)的坚定虔诚,那棵树获得了令人欣喜的果实、叶子和枝条,并达到了光彩。

13.11.31

शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै ।
आयुषोन्ते महाराज प्राप शक्रसलोकताम् ॥ १३.११.३१ ॥

shuka(Śuka)凭借那出于慈悲所行的功德,大王啊,在寿命终结时得到了因陀罗天界的境地。

13.11.32

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः ।
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ १३.११.३२ ॥

同样,人中之主啊,依止具有虔信者的人,便能获得一切目的的成就,如同那棵树得到了shuka(Śuka)一般。