Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.112.1

ततो युधिष्ठिरे राजा भूयः शान्तनवं नृपम् ।
गोदानविस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ १३.११२.१ ॥

于是智慧而谦逊的坚战再次向沙antanu之子国王询问关于施舍母牛之功德的详细教导。

13.112.2

गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत ।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥ १३.११२.२ ॥

婆罗多之子啊,请再完整地告诉我施舍母牛的功德。英雄啊,听闻如此甘露,我仍不满足。

13.112.3

इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः ।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ १३.११२.३ ॥

法王如此询问,沙antanu之子国王便将施舍母牛的功德详尽地向他讲述。

13.112.4

वत्सलां गुणसम्प्रन्ना तरुणीं वस्त्रसंयुताम् ।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ १३.११२.४ ॥

将这样一头带着小牛、具备美德、年轻并披着衣饰的母牛布施给婆罗门,人便能摆脱一切罪过。

13.112.5

असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति। ॥ १३.११२.५ ॥

施舍母牛的人不会前往那些名为阿苏利亚的世界。

13.112.6

पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम् ।
जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम्।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ १३.११२.६ ॥

将饮过水、吃过草、乳汁已干、丧失气力、饱受衰老与疾病之苦、衰败如无水之井的母牛施舍给婆罗门,人便坠入黑暗,并使这位再生者陷入困苦。

13.112.7

रुष्टा दुष्टा व्याधिता दुर्बला वा ।
नो दातव्या याश्च मूल्यैरदत्तैः।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति ।
तस्याऽवीर्याश्चाफलाश्चैव लोकाः ॥ १३.११२.७ ॥

愤怒、恶性、患病或瘦弱的母牛不可布施,未收取价钱而给予的也不可。以苦难和无果之物牵连婆罗门者,其诸界将无力而无果。

13.112.8

बलान्विताः शीलवीर्योपपन्नाः ।
सर्वे प्रशंसन्ति सुगन्धवत्यः।
यथा हि गङ्गा सरितां वरिष्ठा ।
तथाऽर्जुनीनां कपिला वरिष्ठा ॥ १३.११२.८ ॥

众人都赞美有力、具备善性与精力、芳香的母牛。正如恒河是诸河中最殊胜者,棕黄色的迦毗罗牛是白牛中最殊胜者。

13.112.9

कस्मात्समाने बहुलाप्रदाने ।
सद्भिः प्रशस्तं कपिलाप्रदानम्।
विशेषमिच्छामि महाप्रभावं ।
श्रोतुं समर्थोस्मि भवान्प्रवक्तुम् ॥ १३.११२.९ ॥

既然布施众多母牛功德相等,为何善人特别赞美布施迦毗罗牛?我想听闻她大威力的殊胜之处,而您能够讲述。

13.112.10

वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम् ।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ १३.११२.१० ॥

聆听长老们的讲述后,我将完整讲述迦毗罗牛的起源,以及罗希尼牛是如何被创造出来的。

13.112.11

प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयंभुवा ।
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ १३.११२.११ ॥

往昔自生者命令达刹:“创造众生。”达刹为了众生的利益,首先创造了他们的生计。

13.112.12

यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥ १३.११२.१२ ॥

正如天界居民依靠甘露维持生存,同样,啊,无所不能者,众生依靠生计(vṛtti)维持生存。

13.112.13

अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ।
ब्राह्मणाश्च ततः श्रेष्ठास्तषु यज्ञाः प्रतिष्ठिताः ॥ १३.११२.१३ ॥

在不动的众生中,能动者为胜;在能动者中,人为胜;在人中,婆罗门为胜;而祭祀便确立于他们之中。

13.112.14

यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च ॥ १३.११२.१४ ॥

苏摩借祭祀得以滋养,他确立于牛之中。众神因牛而欢喜,众生的生计也在于牛。

13.112.15

ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः ।
प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मखम् ॥ १३.११२.१५ ॥

于是,在达刹等人创造众生之后,饥饿的众生决定,奔向四面的生主(Prajāpati)。

13.112.16

प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ १३.११२.१६ ॥

已经诞生的众生便因渴望生计而呼号;它们口渴地追随赐予生计者,如同孩童追随父母。

13.112.17

इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः ।
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा।
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता ॥ १३.११२.१७ ॥

他心中如此思量,为了创造众生,生主饮下了赋予力量的甘露;当人们赞颂他的满足时,苏罗毗从他的香气中升起。

13.112.18

मुखजा साऽसृजद्धातुः सुरभिर्लोकमातरम् ।
दर्शनीयरसं वृत्तिं सुरभिं मुखजां सुताम् ॥ १३.११२.१८ ॥

从创造主之口诞生的苏罗毗,世界之母,创造了她的女儿——同样从口中诞生的苏罗毗,外表悦目,是充满精华的生计之源。

13.112.19

साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः ।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ १३.११२.१९ ॥

苏罗毗创造了苏罗毗耶牛,即世界之母,金色的、棕黄色的迦毗罗牛,是维持众生生计的乳牛。

13.112.20

तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः ।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ १३.११२.२० ॥

在那些四面流淌着如甘露般乳汁的牛周围,升起了由甘露所生的泡沫,正如流淌的河流之波浪中升起泡沫一般。

13.112.21

स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः ।
शिरस्यवापतत्क्रुद्धः स तदैक्षत च प्रभुः।
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव ॥ १३.११२.२१ ॥

那泡沫从小牛口中落下,落在站在地上的薄婆(湿婆)头上。于是发怒的主宰以生于额头的眼睛看去,仿佛要焚烧母牛罗希尼。

13.112.22

तत्तेजस्तु ततो रौद्रं कपिलां गां विशाम्पते ।
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥ १३.११२.२२ ॥

人主啊,那猛烈的光芒使迦毗罗牛变成了多种颜色,正如太阳使云朵呈现各种色彩。

13.112.23

यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।
यथोत्पन्नाः स्ववर्णस्था न नीताश्चान्यवर्णतां ॥ १३.११२.२३ ॥

而那些远离彼处、唯独投奔月神苏摩的牛,依旧保持着出生时的本色,未被改变为其他颜色。

13.112.24

अथ क्रुद्धं महादेवं प्रजापतिरभाषत ।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥ १३.११२.२४ ॥

于是生主对愤怒的大天说:你已被甘露洒浴,牛群没有可称为残余的秽物。

13.112.25

यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ॥ १३.११२.२५ ॥

如同苏摩取得甘露后又再流淌,这些由甘露所生的罗希尼牛也流出乳汁。

13.112.26

न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः ॥ १३.११२.२६ ॥

风、火、金、海都不会被污染;以甘露饮用的甘露也不会被污染;乳汁也不会因小牛而被污染。

13.112.27

इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्रवेण च ।
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम् ॥ १३.११२.२७ ॥

她们以祭品和乳流养育这些世界;众生都渴望她们那充满甘露、吉祥的威德。

13.112.28

वृषभं च ददौ तस्मै भगवाँल्लोकभावनः ।
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥ १३.११२.२८ ॥

世界的护持者世尊赠予他一头公牛,因此,婆罗多啊,楼陀罗的心得以平息。

13.112.29

प्रीतश्चापि महादेवश्चकार वृषभं तदा ।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ १३.११२.२९ ॥

欢喜的大神摩诃提婆便以这头公牛作为自己的旗帜与坐骑;因此他被称为“牛旗者”。

13.112.30

ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः ॥ १३.११२.३० ॥

那时诸神封大天神为畜主(Paśupati)。在牛群之中他是主宰(Īśvara),被称为以公牛为标记者。

13.112.31

एवमव्यग्रवर्णानां कपिलानां महौजसाम् ।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥ १३.११२.३१ ॥

如此,在布施颜色不变、威力广大的赤褐色母牛时,这被宣称为对一切(母牛)的第一仪轨。

13.112.32

लोकज्येष्ठा लोकवृत्तिप्रवृत्ता ।
रुद्रोद्भूताः सोमविष्यन्दभूताः।
सौम्याः पुण्याः कामदाः प्राणदाश्च ॥ १३.११२.३२ ॥

世界中的长者,致力于维持世间的生计,从楼陀罗而生,由月神(Soma)之流所成;温和、有功德、能满足愿望、能赐予生命。

13.112.33

गा वै दत्त्वा सर्वकामप्रदः स्यात् ।
इदं गवां प्रभवविधानमुत्तमं
पठन्सदा शुचिरपि मङ्गलप्रियः ।
विमुच्यते कलिकलुषेण मानवः
प्रियान्सुतान्धनपशुमाप्नुयात्सदा ॥ १३.११२.३३ ॥

布施母牛者能满足一切愿望。若人常诵此关于母牛起源仪轨的殊胜之说,清净而喜好吉祥,便能脱离迦利时代的污垢,并常得可爱的儿子、财富与牲畜。

13.112.34

हव्यं कव्यं तर्पणं शान्तिकर्म ।
यानं वासो वृद्धबालस्य तुष्टिः।
एतान्सर्वान्गोप्रदाने गुणान्वै ।
दाता राजन्नाप्नुयाद्वै सदैव ॥ १३.११२.३४ ॥

献祭(havya)、祭祖(kavya)、献水(tarpaṇa)、息灾之仪、车乘、衣服,以及老人与孩童的满足——这些功德都在布施母牛之中。大王,施主必定常常获得这一切。

13.112.35

पितामहस्याथ निशम्य वाक्यं ।
राजा सह भ्रातृभिराजमीढः।
सुवर्णवर्णानडुहस्तथा गाः ।
पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ १३.११२.३५ ॥

国王阿jamīḍha(坚战)闻听祖父之言,与诸弟一起将金色的公牛与母牛布施给最优秀的婆罗门;普利塔之子施予了它们。

13.112.36

तथैव तेभ्योपि ददौ द्विजेभ्यो ।
गवां सहस्राणि शतानि चैव।
यज्ञान्समुद्धिश्य च दक्षिणार्थे ।
लोकान्विजेतुं परमां च कीर्तिम् ॥ १३.११२.३६ ॥

他同样也将成千上百的母牛施予他们和再生族,以祭祀为目的作为祭礼酬金,为了征服诸世界并获得至高的名声。