Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.114.1

शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ १३.११४.१ ॥

经历数千年极其艰难的苦行,使我们借由往昔所放出的牛而获得殊胜。

13.114.2

लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः ।
भवेम न च लोप्येम दोषेणेति परन्तप ॥ १३.११४.२ ॥

愿我们在此世间于一切布施供养中为最上,也不因任何过失而失坏,哦,令敌人痛苦者。

13.114.3

अस्मत्पुरीषस्नानेन जनः पुयेत सर्वदा ।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाःठ ॥ १३.११४.३ ॥

愿人们以我们的粪便沐浴,永远得到清净;为了清净,愿天神与人类都使用牛粪。

13.114.4

तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद ॥ १३.११४.४ ॥

同样,愿一切静止与运动的众生都成为施者,并到达我们的世界,哦,赐予尊荣者。

13.114.5

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
एवं भवन्विति विभुर्लोकांस्तारयतेति च ॥ १३.११४.५ ॥

苦行终了时,主梵天亲自赐予她们恩惠,说道:“就这样吧”,又说:“去度脱诸世界吧。”

13.114.6

उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः ।
तपसोऽन्ते महाराज गावो लोकपरायणाः ॥ १३.११४.६ ॥

于是,那些愿望成就的众生之母站了起来;大王啊,苦行终了时,牛成为了诸世界最高的依归。

13.114.7

तस्माद्गावो महाभागाः पवित्रं परमुच्यते ।
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि ॥ १३.११४.७ ॥

因此,福德殊胜的母牛被宣称为至高的净化者;同样,它们也安立于一切众生的头顶之上。

13.114.8

सम्मनवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ १३.११४.८ ॥

布施一头带有同样小牛、产乳、持善誓、披着布匹的黄褐色母牛者,将在梵天界受到尊崇。

13.114.9

लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥ १३.११४.९ ॥

布施一头红色、产乳、持善誓、带同样小牛并披着布匹的母牛者,将在太阳界受到尊崇。

13.114.10

समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतीं सोमलोके महीयते ॥ १३.११४.१० ॥

布施一头斑色、产乳、持善誓、带同样小牛并披着布匹的母牛者,将在月神界受到尊崇。

13.114.11

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥ १३.११४.११ ॥

布施一头白色、产乳、持善誓、带同样小牛并披着布匹的母牛者,将在因陀罗界受到尊崇。

13.114.12

समानवत्सां कृष्णां तु धेनु दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥ १३.११४.१२ ॥

布施一头黑色、产乳、持善誓、带同样小牛并披着布匹的母牛者,将在火神界受到尊崇。

13.114.13

समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥ १३.११४.१३ ॥

施舍一头同色小牛的烟色产乳母牛,此牛持守善愿,覆以布匹,施者便在阎摩界受到尊崇。

13.114.14

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते ॥ १३.११४.१४ ॥

施舍一头水沫色、带小牛、配铜制挤奶器、覆以布匹的母牛,便得往伐楼那界。

13.114.15

वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥ १३.११४.१५ ॥

施舍一头风尘色、带小牛、配铜制挤奶器、覆以布匹的母牛,施者在风神界受到尊崇。

13.114.16

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥ १३.११४.१६ ॥

施舍一头金色、黄褐眼、带小牛、配铜制挤奶器、覆以布匹的母牛,便享有俱毗罗界。

13.114.17

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ १३.११४.१७ ॥

施舍一头草烟色、带小牛、配铜制挤奶器、覆以布匹的母牛,施者在祖先界受到尊崇。

13.114.18

सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् ।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥ १३.११४.१८ ॥

施舍一头肥壮、装饰华美、带小牛、颈下有皮囊的母牛,便得毗湿伐提婆无碍的殊胜之处。

13.114.19

समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात् ॥ १३.११४.१९ ॥

若施舍一头白色产奶母牛,与其同色的小牛,守善誓,并以布覆盖,则可得到诸婆苏的世界。

13.114.20

पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते ॥ १३.११४.२० ॥

若施舍一头如淡色毛毯之色的母牛,带着小牛和铜制挤奶器,并以布覆盖,则可得到萨提亚的世界。

13.114.21

वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् ।
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते ॥ १३.११४.२१ ॥

若施舍一头背如毗罗吒、饰以一切宝石的公牛,王者啊,则可到达摩录多的世界。

13.114.22

वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ १३.११४.२२ ॥

施舍一头带着小牛、具足一切宝石的深蓝色母牛,人可得到乾闼婆与阿普莎拉斯的世界。

13.114.23

दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् ।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ १३.११४.२३ ॥

施舍一头颈如皮囊、饰以一切宝石的挽牛,无忧者可得到生主的世界。

13.114.24

गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् ।
विमानेनार्कवर्णेन दिवि राजन्विराजता ॥ १३.११४.२४ ॥

乐于施舍牛的人,穿越云层,乘坐太阳色的天车而行,王者啊,在天界光辉闪耀。

13.114.25

तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोपितः ।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥ १३.११४.२५ ॥

奉行施舍母牛的人中之最,被千名臀部美好、大腿装饰华美的妓女所取悦。

13.114.26

वीणानां वल्लकीनां च नू पुराणां च शिञ्जितैः ।
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते ॥ १३.११४.२६ ॥

熟睡者很容易被琵琶与竖琴的声音、脚镯的叮当声以及鹿眼女子的笑声唤醒。

13.114.27

यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावन्ति वर्षाणि महीयते सः।
स्वर्गच्युतश्चापि ततो नृलोके ।
कुले प्रसूतो विपुले विशोकः ॥ १३.११४.२७ ॥

他在天界受尊崇的年数与母牛身上的毛数相等;即使从天界坠落,也会在人间生于显赫之族,免于忧愁。