摩诃婆罗多 · 章 13.115
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.115.1
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ १३.११५.१ ॥
愿那些产酥油与牛奶、以酥油为本源、由酥油而生的母牛,以及酥油之河与酥油漩涡,永远在我的家中。
13.115.2
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ १३.११५.२ ॥
我的心中常有酥油,脐中安住着酥油,我的全身各处都有酥油,我的心念中也安住着酥油。
13.115.3
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ १३.११५.३ ॥
愿牛群常在我的前面,也在我的后面;我的四周都是牛群,我居住在牛群之中。
13.115.4
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ १३.११५.४ ॥
如此漱口之后,人应当常在傍晚与清晨持诵;白日所犯之罪,他便得以解脱。
13.115.5
प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः ।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ १३.११५.५ ॥
那里有金色的宫殿与满足愿望的财富之流,有乾达婆与阿普萨拉斯,施舍千次之人便往那里去。
13.115.6
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः ।
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः ॥ १३.११५.६ ॥
那里河流以新鲜黄油为泥,以乳汁为水,充满凝乳与水草,施舍千次之人便往那里去。
13.115.7
गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि ।
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते ॥ १३.११५.७ ॥
依法布施十万头牛者,获得至上的兴盛,并在天界受到尊崇。
13.115.8
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् ।
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥ १३.११५.८ ॥
人死后,能使母亲与父亲两方的十位祖父安居于善业之界,并净化自己的家族。
13.115.9
धेन्वाः प्रमाणेन समप्रमाणां ।
धेनुं तिलानामपि च प्रदाय।
पानीयवापीः स यमस्य लोके ।
न यातनां काञ्चिदुपैति तत्र ॥ १३.११५.९ ॥
若布施与牛等大、以芝麻制成的牛,他便能在阎摩界抵达水池,并不再遭受任何苦难。
13.115.10
पवित्रमग्र्यं जगतः प्रतिष्ठा ।
दिवौकसां मातरोऽथाप्रमेयाः।
अन्वालभेद्दक्षिणतो व्रजेच्च ।
दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥ १३.११५.१० ॥
她是最殊胜的净化者,是世界的根基,是天神不可量度的母亲。应当触摸她,向南而行,并审时度势,将其布施给合适的受者。
13.115.11
धेनुं सवत्सां कपिलां भूरिशृङ्गीं ।
कांस्योपदोहां वसनोत्तरीयाम्।
प्रदाय तां गाहति दुर्विगाह्यां ।
याम्यां सभां वीतभयो मनुष्यः ॥ १३.११५.११ ॥
布施一头带着小牛、角多、配有铜制挤奶器并附上布料作上衣的黄褐色母牛者,无所畏惧地进入阎摩难以进入的集会大殿。
13.115.12
सुरूपा बहुरूपाश्चि विश्वरूपाश्च मातरः ।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ १३.११५.१२ ॥
容貌美妙、形态多样、遍现诸相的母牛啊,愿诸牛来到我的身边——应当如此时常念诵。
13.115.13
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् ।
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ १३.११५.१३ ॥
没有比此更有功德的布施,也没有比此更有功德的果报。在诸世界中,没有任何存在能超过此者。
13.115.14
त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा ।
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः ॥ १३.११५.१४ ॥
以皮、毛、角、尾毛、乳与脂,它们共同承载祭祀。还有什么比这更殊胜呢?
13.115.15
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ १३.११५.१५ ॥
此一切不动与可动的世界皆由彼牛所遍满——我以头顶礼那作为过去与未来之母的牛。
13.115.16
गुणवचनसमुच्चयैकदेशो ।
नृवर मयैष गवां प्रकीर्तितस्ते।
न च परमिह दानमस्ति गोभ्यो ।
भवति न चापि परायणं ततोऽन्यम् ॥ १३.११५.१६ ॥
人中之最,这只是颂扬其德性之词的汇集中的一部分,我已为你宣说了关于牛的部分。此处没有比牛更大的布施,也没有比牛更高的归依。
13.115.17
वरमिदमिति भूमिपो विचिन्त्य ।
प्रवरमृषेर्वचनं ततो महात्मा।
व्यसृजत नियतात्मवान्द्विजेभ्यः ।
सुबहु च गोधनमाप्तवांश्च लोकान् ॥ १३.११५.१७ ॥
他思忖道:“这才是最好的。”那位地上之主,大德而自制,听从仙人的殊胜之言,将大量牛财布施给再生者,因此获得了诸世界。