Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.116.1

पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् ।
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥ १३.११६.१ ॥

在万物净化之物中,世上最纯净、最殊胜、最能洁净且至上者是什么?祖父,请告诉我。

13.116.2

गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा ॥ १३.११६.२ ॥

牛具有极大的价值且神圣;它们使人渡过苦海,并以祭供与乳汁养育这些众生。

13.116.3

न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम ।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः ॥ १३.११६.३ ॥

婆罗多之最,没有什么比牛更神圣。它们圣洁而纯净,是三界中最殊胜者。

13.116.4

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै ।
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः ॥ १३.११६.४ ॥

牛居于诸神之上。施舍了牛的智者得以渡过苦海,前往天界。

13.116.5

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।
गा वै ददन्तः सततं सहस्रशतसम्मिताः ॥ १३.११६.५ ॥

摩ND哒多、耀凡那什婆、耶耶提与那呼沙同样不断布施牛群,数以十万计。

13.116.6

गताः परमकं स्थानं देवैरपि सुदुर्लभम् ।
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥ १३.११६.६ ॥

他们到达了连诸神也难以企及的至高居所。无垢者啊,关于此事,我还要讲给你一段古老的故事。

13.116.7

ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः ।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥ १३.११६.७ ॥

智慧第一的诸仙之首曩罗(Śuka)向克利须那·德瓦伊帕亚那(毗耶娑)致敬,完成每日仪式,身心清净、意念专注。

13.116.8

पितरं परिपप्रच्छ दृष्टलोकपरावरम् ।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते ॥ १३.११६.८ ॥

他询问已洞悉上下诸界的父亲:在一切祭祀之中,哪一种被认为最为殊胜?

13.116.9

किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः ।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ॥ १३.११६.९ ॥

智者通过何种行为达到至上之境?诸天神凭借何种清净而享受天界?啊,无上者?

13.116.10

किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ।
दानानामुत्तमं किञ्च किञ्च सत्रमितः परम्।
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने ॥ १३.११६.१० ॥

祭祀之所以为祭祀的本质是什么?祭祀依何而立?诸施舍中哪一种最为殊胜?比此更高的“萨特拉”(祭会)又是什么?清净之中最清净者为何,请告诉我,大仙。

13.116.11

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥ १३.११६.११ ॥

毗耶娑闻此言语,通晓无上法的他,将一切如实地告诉了自己的儿子,啊,婆罗多族的雄牛。

13.116.12

गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा ॥ १३.११६.१२ ॥

牛是众生的根基,牛也是至上的归宿。牛是福德之源,清净无染;牛群之财亦能净化。

13.116.13

पूर्वमासन्नंशृङ्गा वै गाव इत्यनुशश्रुम ।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ १३.११६.१३ ॥

据我们所闻,往昔诸牛以角为肢体;为了角,它们奉事那位不灭的主。

13.116.14

ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह ।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ १३.११६.१४ ॥

于是梵天主见诸牛坐于祭会之中,便各自赐予它们所愿之物。

13.116.15

तासां शृङ्गाण्यजायन्त तस्या यादृङ्भनोगतम् ।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥ १३.११६.१५ ॥

它们生出了角,正如各自心中所愿;有角而色彩斑斓,它们光辉灿烂,我的孩子。

13.116.16

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥ १३.११६.१६ ॥

梵天所赐之恩的那些吉祥之牛,能供给祭供与祖供;有福、清净、吉祥,具有天界的形相与相貌。

13.116.17

गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः ॥ १३.११६.१७ ॥

牛是伟大的神圣光辉,布施牛是被赞美的;那些无嫉妒而施予它们的善人。

13.116.18

ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥ १३.११६.१८ ॥

他们被称为有福德者,是一切布施的施予者;无罪者啊,他们也得到牛的神圣世界。

13.116.19

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ १३.११६.१९ ॥

在那里有结甜果的树木,披满神圣的花与果,还有芬芳的神圣花朵,啊,再生者中最杰出的人。

13.116.20

सर्वा मणिभयी भूमिः सर्वकाञ्चनवालुकाः ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः ॥ १३.११६.२० ॥

大地全由宝石构成,沙子全是黄金;四季触感皆宜人,无泥无尘,吉祥。

13.116.21

रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः ।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥ १३.११६.२१ ॥

那里的池塘闪耀着,有红莲丛林、金色与宝石的碎块,光彩如初升的太阳。

13.116.22

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥ १३.११६.२२ ॥

湖中荷叶皆为珍贵宝石,花蕊闪耀金光,杂生青莲,遍布众多莲花。

13.116.23

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः ।
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः ॥ १३.११६.२३ ॥

盛开的夹竹桃林环绕,千道漩涡围绕,盛开的san-tānaka林与树木装点其间。

13.116.24

निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः ॥ १३.११६.२४ ॥

那里流淌着金色的河流,河岸高耸,清澈如珍珠与光彩夺目的宝石。

13.116.25

सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः ।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥ १३.११६.२५ ॥

覆盖着各种宝石制成的奇妙的上等树木,有金色的及其他的,光芒如祭火一般。

13.116.26

सौवर्णि गिरयस्तत्र मणिरत्नशिलोच्चयाः ।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ १३.११६.२६ ॥

那里有金色的山岳,由宝石和珍珠的岩石堆积而成,以各种宝石制成的高耸美丽的山峰闪耀光芒。

13.116.27

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ १३.११६.२७ ॥

那里的树木常有花果,充满鸟群。婆罗多之牛啊,它们的花和果有神圣的香气与滋味。

13.116.28

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर ।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥ १३.११६.२८ ॥

那里行善积德的人永远欢喜,尤迪希提罗啊,他们满足了一切欲望与目标,无忧无怒。

13.116.29

विमानेषु विचित्रेषु रमणीयेषु भारत ।
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः ॥ १३.११६.२९ ॥

婆罗多啊,行善而名声显赫的人在奇妙可爱的天车中欢喜。

13.116.30

उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः ।
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥ १३.११६.३० ॥

国王啊,美丽的天女群与他们嬉戏。尤迪希提罗啊,布施一头牛的人确实能获得这些世界。

13.116.31

यासामधिपतिः पूषा मारुतो बलवान्बले ।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥ १३.११६.३१ ॥

以普山为主、以力量强大的风神摩噜多为力、以王者伐楼那为权威的诸母——愿这些负轭者护佑我。

13.116.32

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ १३.११६.३२ ॥

名为妙色、多色、遍色的诸母,被称为生主之裔——婆罗门啊,持戒坚定者应当时常诵念她们。

13.116.33

गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः ।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ १३.११६.३३ ॥

凡侍奉牛群、处处随从的人,牛群便欢喜地赐予他极难获得的恩惠。

13.116.34

द्रुह्येन मनसा वाऽपि गोषु ता हि सुखप्रदाः ।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥ १३.११६.३४ ॥

即使心中也不可对牛群生出敌意,因为它们能带来幸福。应当时常尊敬它们,以礼拜致敬供奉它们。

13.116.35

दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते ।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ॥ १३.११६.३५ ॥

自制且心常欢喜的人,便能获得牛群的兴盛。三日饮用温热的牛尿,三日饮用温热的牛乳。

13.116.36

गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं विबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्र्यहम् ॥ १३.११६.३६ ॥

饮用温热的牛乳之后,应当连续三日饮用温热的酥油。饮用温热酥油三日之后,应当三日只以风为食。

13.116.37

योन देवाः पवित्रेणि भुञ्जते लोकमुत्तमम् ।
यत्पवित्रं पवित्राणां तद्धृतं शिरसा वहेत् ॥ १३.११६.३७ ॥

在净物中最为清净的那酥油应当顶戴于头上;诸神借此享有至高的世界。

13.116.38

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं प्राशेद्धृतं दद्याद्गवां पुष्टिं तथाऽश्नुते ॥ १३.११६.३८ ॥

以酥油祭火,以酥油令人诵吉祥祝语;饮酥油,施酥油,如此便得牛的丰盛。

13.116.39

निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः ।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते ॥ १३.११६.३९ ॥

以去壳之大麦与牛之产物,仅食大麦粥一月,便能清除一切如同杀婆罗门之罪。

13.116.40

पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् ।
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः ॥ १३.११६.४० ॥

为了战胜达提耶,诸神行此清净之法;那些大力者也得到了神性,成就圆满。

13.116.41

गावः पवित्राः पुण्याश्च पावनं परमं महत् ।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥ १३.११६.४१ ॥

牛是清净而有功德的,乃至上而伟大的净物;将牛布施给再生者,人便得生天界。

13.116.42

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।
पूताभिरद्भिराचम्यि शुचिर्भवति निर्मलः ॥ १३.११६.४२ ॥

在牛群之中保持清净,心中诵持《牛母》咒;以净水漱口后,即成清净无垢。

13.116.43

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि ।
विद्यावेदप्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥ १३.११६.४३ ॥

在火中、在牛群中,以及在婆罗门的集会中,沐浴于学问与吠陀之中、行善业的婆罗门(即为清净)。

13.116.44

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम् ।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम् ॥ १३.११६.४४ ॥

应当教导弟子诵读与祭祀同等的《戈玛蒂》;斋戒三夜之后,诵读《戈玛蒂》者便能获得恩惠。

13.116.45

पुत्रिकामश्च लभते पुत्रं धनमथापि वा ।
पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥ १३.११६.४५ ॥

求子者得子或得财;求夫之女子得良夫,人亦得一切所愿。

13.116.46

गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ।
एवमेतां महाभागा यज्ञियाः सर्वकामदाः।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ १३.११६.४६ ॥

被侍奉的牛会欢喜并赐予恩惠,这没有疑问。由此你应知道,这些大福的罗希尼牛,适于祭祀,能满足一切所愿,没有比她们更高的了。

13.116.47

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय ॥ १३.११६.४७ ॥

伟大的父亲如此告诫后,光辉的修迦始终恭敬供养她们;因此你也应当供养她们。