Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.117

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.117.1

सुराणामसुराणां च भूतानां च पितामह ।
प्रभुः स्रष्टा च भगवान्मुनिभिः स्तूयते भुवि ॥ १३.११७.१ ॥

祖父啊,诸天、阿修罗与一切众生的主宰与创造者,世尊,在大地上被诸仙人所赞颂。

13.117.2

तस्योपरि कथं ह्येष गोलोकः स्थानतां गतः ।
संशयो मे महानेष तन्मे व्याख्यातुमर्हसि ॥ १३.११७.२ ॥

此上的牛界(戈洛卡)如何成为一处所在?这是我的大疑惑,您应当为我解说。

13.117.3

मनोवाग्बुद्धयस्तावदेकस्थाः कुरुसत्तम ।
ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यमुत्तमम् ॥ १३.११७.३ ॥

俱卢之最,心、语、智此时都安住于一处。现在请从我这里完整地听闻牛的至上大福德。

13.117.4

पुण्यं यशस्यमायुष्यं तथा स्वस्त्ययनं महत् ।
कीर्तिर्विहरता लोके गवां यो गोषु भक्तिमान् ॥ १३.११७.४ ॥

若有人对牛虔诚奉献,便获得功德、名誉、长寿与广大的吉祥之道;他行走于世间,名声便会传扬。

13.117.5

श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् ।
संस्थाने सर्वलोकानां देवानां चापि सम्भवे ॥ १३.११७.५ ॥

在往世书中,从伟大而高尚的大仙口中听闻:在一切世界的确立之时,乃至诸神的诞生之际,(牛具有重要地位)。

13.117.6

देवतार्थेऽमृतार्थे च यज्ञार्थे चैव भारत ।
सुरभिर्नाम विख्याता रोहिणी कामरूपिणी ॥ १३.११७.६ ॥

婆罗多之子啊,为了诸天,为了甘露,也为了祭祀,出现了名为苏罗毗的罗呵尼,她能随意变化形体。

13.117.7

सङ्कल्प्य मनसा पूर्वं रोहिणी ह्यमृतात्मना ।
घोरं तपः समास्थाय निर्मिती विस्वकर्मणा ॥ १३.११७.७ ॥

罗希尼以不朽之性,先在心中立下决心,修习严苛的苦行,由毗首羯磨所造。

13.117.8

पुरुषं चासृजद्भूस्तेजसा तपसा च ह ।
देदीप्यमानं वपुषा समिद्धमिव पावकम् ॥ १३.११७.८ ॥

大地以光辉与苦行生出一人,其身如燃起的火焰般光耀。

13.117.9

सोऽपश्यदिष्टरूपां तां सुरभिं रोहिणीं तदा ।
दृष्ट्वैव चातिविमनाः सोऽभवत्काममोहितः ॥ १३.११७.९ ॥

那时他看见了形貌可爱的苏罗毗-罗希尼;一见之下,他便心神大乱,为欲望所迷。

13.117.10

तं कामार्तमथो ज्ञात्वा स्वयंभूर्लोकभावनः ।
माऽऽर्तो भव तथा चैष भगवानभ्यभाषत ॥ १३.११७.१० ॥

知其为欲望所苦,世界的护持者自生之主对他说:“不要悲伤。”

13.117.11

ततः स भगवांस्तत्र मार्ताण्ड इति विश्रुतः ।
चकार नाम तं दृष्ट्वा तस्यार्तीभावमुत्तमम् ॥ १३.११७.११ ॥

那时,在那里以摩尔坦达之名著称的世尊看着他,见他痛苦到了极点,便为他取名。

13.117.12

सोऽददाद्भगवांस्तस्मै मार्ताण्डाय महात्मने ।
सुरूपां सुरभिं कन्यां तपस्तेजोमयीं शुभाम् ॥ १३.११७.१२ ॥

世尊将形貌端美、由苦行与光辉所成的吉祥少女苏罗毗赠予那位大德的摩尔坦达。

13.117.13

यथा मयैष चोद्भूतस्त्वं चैवषा च रोहिणी ।
मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा ॥ १३.११७.१३ ॥

如同此人由我而生,你、她与罗希妮也已出生并相交,如此后代将会诞生。

13.117.14

प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् ।
न चाप्यगम्यागमनाद्दोषं प्राप्स्यसि कर्हिचित् ॥ १३.११७.१४ ॥

后代将充满功德,这对你们二人是至高的清净。即使有不当的结合,你们也永远不会有过失。

13.117.15

त्वत्प्रजासम्भवं क्षीरं भविष्यति परं हविः ।
यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः ॥ १३.११७.१५ ॥

由你们的后代所生的乳,将成为至高的供品;祭祀中酥油分取的规则,也将以你们的后代为根本。

13.117.16

प्रजाशुश्रूषवश्चैव ये भविष्यन्ति रोहिणि ।
तव तेनैव पुण्येनि गोलोकं यान्तु मानवाः ॥ १३.११७.१६ ॥

啊,罗希妮!愿那些侍奉你后代的人,凭着这同样的功德,前往牛界。

13.117.17

इदं पवित्रं परममृषभं नाम कर्हिचित् ।
यद्वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसङ्करात् ॥ १३.११७.१७ ॥

这至高的清净之法名为“牡牛”,知晓它的婆罗门在此世可从种姓混杂中解脱。

13.117.18

एतत्क्रियाः प्रवर्तन्ते मन्त्रब्राह्मणसंस्कृताः ।
देवतानां वितॄणां च हव्यकव्यपुरोगमाः ॥ १३.११७.१८ ॥

这些由咒语与婆罗门所成就的仪式得以进行,以对诸神与祖先的供奉(havya、kavya)为先导。

13.117.19

तत एतेन पुण्येन प्रजास्तव तु रोहिणि ।
ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः ॥ १३.११७.१९ ॥

那时,凭借此功德,罗奚尼啊,你的子孙也将在上方我的世界中无患而居。

13.117.20

भद्रं तेभ्यश्च भद्रं ते ये प्रजासु भवन्ति वै ।
युगन्धराश्च ते पुत्राः सन्तु लोकस्य धारणे ॥ १३.११७.२० ॥

愿他们吉祥,也愿你吉祥;愿众生中的那些人,都成为承担重轭以维持世界的儿子。

13.117.21

यान्यान्कामयसे लोकांस्ताँल्लोकाननुयास्यसि ।
सर्वदेवगणश्चैव तव यास्यन्ति पुत्रताम्।
तव स्तनसमुद्भूतं पिबन्तोऽमृतमुत्तमम् ॥ १३.११७.२१ ॥

你所愿往的任何世界,你都将前往;一切天神之众也将成为你的儿子,饮用从你乳房中生出的至上甘露。

13.117.22

एवमेतान्वरान्सर्वानगृह्णात्सुरभिस्तदा ।
ब्रुवतः सर्वलोकेशान्निर्वृतिं चागमत्पराम् ॥ १३.११७.२२ ॥

于是,苏罗毗那时接受了所有这些恩赐;当诸世界之主说话时,她获得了至上的满足。

13.117.23

सृष्ट्वा प्रजाश्च विपुला लोकसन्धारणाय वै ।
ब्रह्मणा समनुज्ञाता सुरभिर्लोकमाविशत् ॥ १३.११७.२३ ॥

苏罗毗创造了众多生灵以维持世界,并获得梵天的允许,遂进入世界。

13.117.24

एवं वरप्रदानेन स्वयंभोरेव भारत ।
उपरिष्टाद्गवां लोकः प्रोक्तस्ते सर्वमादितः ॥ १३.११७.२४ ॥

因此,婆罗多啊,由于自生者赐予恩惠,牛的世界在上方;这一切我都从头告诉了你。